________________
द्वादशारं नयचक्रम्
समुदायनिरासः ]
शिबिकावहनं दृष्टं कार्यम् । तथा प्रत्येकवस्तुवृत्तिमनतिक्रामन्त एवं स्वां वृत्तिमवतिष्ठन्ते रूपादयः तेषामेव वस्तुत्वात्, अन्यथा समुदायाख्यस्यार्थस्य परिकल्पनामात्रत्वादनवस्थितैकस्वतत्त्वादलातचक्रवत् ।
ननु घटादाववस्थितैकरूपत्वेऽपि सत्त्वम्, न, समुदायत्वात् साध्यत्वात् । रूपरूपादिस्थितैकरूपत्वेऽपि सत्त्वमिति चेत्, न, रूपसामान्यसमुदायसाध्यत्वात् ।
७८२
5
प्रत्येकं वृत्ता रूपादिव्यक्तिर्भेदरूपैव अवस्थितैकरूपा । एतन्मात्रसत्यमेव वस्तु । तस्य त्वभिवचनमात्रं समुदायवचनम् । रथः शब्दविकल्पतो वस्तुविपरीतः संवृतिसन् शब्दार्थमात्रमेव संसारानुबन्धवत् । परमार्थतस्तु पश्चात् पूर्वं चाभावादङ्गेषु नास्ति रथः ।
वस्तुत्वात् ततोऽन्यथा समुदायाख्यस्यार्थस्य परिकल्पनामात्रत्वादनवस्थितैकस्वतत्त्वत्त्वात् अलातचक्रवत्; ५०६-१ यथा अलातस्य भ्राम्यतश्चक्रवदाभानं भ्रान्तपरिकल्पनामात्रं निर्विवरत्वात् तथा रूपादीनां निर्विवराणां 10 परमाण्वादिवदाभानं भ्रान्तपरिकल्पनामात्रम्, किमङ्ग पुनः सविवर-सविवरतर सविवरतमघटपटादिनगरादि-पृथिव्यांस ( व्यंश ) समुदायानाम् ? न ह्येषां समुदायानामेकं स्वं तत्त्वमवस्थितं रूपादिवत् परस्परविविक्तमस्ति, अतोऽलातचक्रवदसन्तो रूपादिपरतत्त्वव्यपदेशभाक्त्वात् । तस्मादसतः समुदायस्य [] [ह] नादि [का] का क्रिया ? इति ।
आह- ननु घटादाविति यावत् स्वत्व ( सत्त्व) मिति अनैकान्तिकत्वोद्भावनम्, अवस्थितैक- 15 स्वरूपं घटादि सद्भावादिति ।
अत्रोच्यते- -न, समुदायत्वात्, साध्यत्वाद् घटसत्त्वस्यानैकान्तिकाभासतेत्यर्थः ।
रूपरूपादिस्थितैकरूपत्वेऽपि सत्त्वमिति चेत्, शुक्ल नोलादिरूपेषु रूपसामान्यं सच्चानवस्थितैकरूपं च दृष्टम्, तस्मादनैकान्तिकत्वमिति चेत्, न, रूपसामान्यसमुदायसाध्यत्वात्, शुक्ला - 20 दिविविक्तरूपव्यतिरिक्तसामान्यरूपस्य समुदायाख्यस्य सत्त्वासिद्धेरवस्तुत्वाद् विपक्षासिद्धेर्नानैकान्ति
नानैकान्तिकत्वमस्य हेतोः, समुदायत्वाद् घटस्य शकटादिवदेव
कता ।
अधुना वस्तुतत्त्वं निरूपयति-- प्रत्येकं वृत्ता रूपादिव्यक्तिर्भेदरूपैव न सामान्यम्, स च अवस्थितैकरूपा परस्परविविक्तेकरूपेत्येतन्मात्रसत्यमेव वस्तु । तस्य तु वस्तुनोऽभिवचनमात्रम्, आभिमुख्येन प्रतिपत्तिनिमित्तं समुदायवचनं 'घट:' इति 'पटो रथः' इत्यादि वा । उच्यमान एव स 25 रथः शब्दविकल्पितो वस्तुविपरीतः संवृतिसन् शब्दार्थमात्रमेव परिकल्प [ ना]मात्रार्थत्वाच्छब्दस्य । ५०६-२ किमिव ? संसारानुबन्धवत्, यथा संसारस्यानुबैन्धहेतुः ' माता मे, पिता मे, भ्राता, भार्या, पुत्र: '
Jain Education International
१ स्वतंत्रत्वात् प्र० ।। २ मेकस्वंतत्व भा० । 'मेकः स्वतत्व य० ।। ३ सत्वानवस्थि' य० । ( सच्चावस्थितैकरूपं च ? ) ।। ४ स च प्र० ।। ५ बन्ध हेतुधर्माता प्र० ।।
For Private & Personal Use Only
www.jainelibrary.org