________________
७८१
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[दशमे विध्यरे एव प्रत्यवभासन्ते समुदितास्तथा। यदि सोऽङ्गेषु सात्मा स्यात् तत उपलब्धिधर्मा सन्नग्रहणनिमित्तानामभावे रूपादिवदुपलभ्येत वस्तुत्वात् ।
__रूपादिव्यतिरिक्तोऽस्ति चेत् समुदायः खपुष्पाद् भवेदरूपत्वात् रूपादिभ्य इव। अथानन्तरताया रूपाद्यसम्भविभारवहनादिकार्य रथादौ दृष्टं तत् कथम्? तत् तेष्वेव 5 रूपादिषु दृष्टम् । नवविवादसिद्धमावयोः-शिबिकावाहकेभ्यो व्यतिरिक्तात् सहायादृतेऽपि
___ यदि सोऽङ्गेष्वित्यादि । सात्मा सात्मक आत्मावात्सा (आत्मवान् स्या) द् यदि रथोऽन्यो वा ५०३-२ रूपाद्यात्मव्यतिरिक्तेनात्मना ततः स उपलब्धिधर्मा सन्नग्रहणनिमित्तानामतिदूर-सन्निकर्षा-भिभवाद्यु
पलब्धिप्रतिबन्धिनामभावे रूपादिवदुपलभ्यते वस्तुत्वात्, ने [पुन]रुपलभ्यते। तस्मादसैन् रथादिः
समुदायः। 10 ततोऽन्यत्वे त्वनिष्टापादनम्--रूपादिव्यतिरिक्तोऽस्ति चेत् समुदायोऽतदात्मकोऽनुपलभ्य
मानोऽपि खपुष्पाद् भवेदरूपत्वादरूपाद्यात्मकत्वाद् रूपादिभ्य इव, न ह्यतदात्मकस्य समुदायस्योत्पत्तौ रूपादयो हेतुभावं प्रतिपद्यन्ते व्योमकुसुमस्य, तत्र घटादिसमुदायस्य रूपादयो हेतवो भवन्ति खपुष्पादिसमुदायो नेति रूपादय एव वा घटादिसमुदायस्य हेतवो न व्योमकुसुमादीत्यत्र को विशेषहेतुः? 15 अथानान्तरतायामित्यादि यावत् कथम्? स्यान्मतम् यद्यनर्थान्तरं रूपादिभ्यो रथादिसमुदायः, ५०५-२ रूपादिष्वदृष्टं भारवहनादि कार्य तत्रासम्भवि रथादौ दृष्टं लोके, तत् कथम्? प्रतिनियतकारणसाध्य
त्वात् कार्याणाम्, तन्तु-पटादिवत् । अत्र प्रयोगः-स्वतो व्यतिरिक्तसहकारिसम्बन्धिनो रूपादयः, स्वासम्भविकार्यदर्शनात्, चक्षुरादिवत्, यथा कृष्णसारादि चक्षुर्व्यतिरिक्तमिन्द्रियमुपलब्धिकारणं सहकारिचक्षुषा सम्बद्धमनुमीयते चक्षुष्यसम्भवेद् रूपज्ञानं कार्यं दृष्ट्वा तथा रूपाद्य सम्भविभारवहना20 दिकार्यदर्शनाद् रथादिसमुदायान्यत्वमनुमेयमिति ।।
__ अत्रोच्यते-क्व तहि तद् दृष्टम्? तद् भारवाहनादि कार्य तेष्वेव रूपादिषु दृष्टम्, अतः स्वासम्भवित्वविशेषणासिद्धिः। सिद्धत्वमभ्युपेत्याऽपि अनैकान्तिकं कार्यदर्शनम्, तद्दर्शयति-नन्वविवादेत्यादि, आवयोरविवादेन शिबिकावाहकेभ्यश्चतुर्यो व्यतिरिक्तात् सहायान्तेऽपि शिबिकावहनं
दृष्टं कार्यम्, अतोऽनैकान्तिकं तत् । 25 तथा प्रत्येकवस्त्वित्यादि यावदलातचक्रवदिति भारवहनादिक्रियायाः समुदायिष्वेव सम्भवं
समुदाये चासम्भवं दर्शयितुं समुदायप्रतिषेधार्थ न्यायमाह। तेन प्रकारेण तथा ' रूपादिनो वस्तुनः प्रत्येक वृत्तिस्तामनतिक्रामन्त एव स्वां वृत्तिमवतिष्ठन्ते रूपादयः, स्ववृत्त्यत्यागव्यवस्थयैव क्रियां भारवहनादिकामारभन्ते तेषामेव वस्तुत्वात्, अन्यथा वस्तुनो विपर्यये निर्विवरं देशभेदेन स्थितानां रूपादीनामेव
१ (न तूपलभ्यते ? ) ।। २ सन्वथादिः प्र० ॥ ३ (°समुदाये ? ) ।। ४ °म्भवति रथादौ य० ।। ५ वाद् य० ॥ ६ दायो य० ॥ ७ साहाया प्र० ॥ ८ भारवहनक्रियायाः य० ॥ ९ न्याह्यमाह प्र०॥ १० रूपादिवस्तुनः य०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org