________________
सामान्य-विशेषतिरासः]
द्वादशारं नयचक्रम्
७८०
किं तहि वस्तु? रूपादय एव समुदायिनः, त एव हि भवन्ति, यत् तत् तैर्भूयते स भावः । न सामान्याख्यः, अरूपादित्वात्, खपुष्पवत् ।
को हि स पृथिव्याविनाभावः? पृथिवी काऽश्मादिना विना? ........... केऽणवो रूपादिभ्यो विना? अभिवचनमात्रमेवैते । आत्मा च न नामान्यः कश्चिदस्ति, अरूपादित्वात्, खपुष्पवत् । यथा चषाक्षोद्धयाद्यङ्गसमूहे रथसंज्ञा, हस्त्याद्यङ्गसमूहे सेना-5 संज्ञा, समुदायो विभज्यमानोऽङ्गेषु तिष्ठति परतो वा परतो रूपादिष्वेव तिष्ठति, रूपादय
विशेषत्वे समुदायत्वाद् रथादिवत् । न भावः सामान्याख्यो विशेषप्रतिपक्षोऽपि तत्प्रतिषेधार्थापत्त्या प्रसक्तोऽपि, त्वयैव प्रतिषिद्धत्वात् । कुत एतदेकत्वाद्यवक्तव्यता? भाव-विशेषयोरेवासिद्धौ कुतः पुनस्तद्गतैकत्वान्यत्वादिधर्मद्वारानुगम्यमवक्तव्यत्वमिति।
किं तहि वस्तु ? इति चेत्, उच्यते-रूपादय एव समुदायिनः। समुदायोऽसन्नपि परमार्थतो 10 येषां संवृतिसन्नस्तीति समुदायिनः । त एव हि भवन्ति, न समुदायो नाम कश्चिदित्यवधारयति । यत्ततर्भूयते स भावः भवनं भूतिर्भावसाधनो भावशब्दः, ते हि तस्या भवनक्रियायाः कर्तारः शब्दार्थसंव्यवहारेण, योऽन्यः परिकल्प्यते समुदायः कारणं द्रव्यमित्यादिः स न भावः सामान्याख्यः कश्चिदस्ति । कस्मात् ? अरूपादित्वात्, समस्ता रूपादयो हेतुत्वेनोच्यन्ते, रूपाद्यन्यतमानात्म- ५०३-१ कत्वादित्यर्थः। किमिव ? खपुष्पवत् ।
15 ____ एवं साधनेन भावस्य सामान्यस्याभावं प्रदर्श्य वस्तुतो दर्शयति-को हि स "पृथिव्याविनेत्यादि। पृथिव्युदकाग्निपवनाकाशात्मकालदिगादिसमुदायमात्ररूपादिपृथग्भूतः कोऽसौ भाव: ? तद्व्यतिरेकेण नास्तीत्यर्थः। एवं पृथिवी काऽश्मादिना विनेत्यादि यावत् केऽणवो रूपादिभ्यो विनेति गतार्थः। अभिवचनमात्रमेवैते, आभिमुख्यार्थवचनम्, रूपाद्यधिगमार्थमित्यर्थः । रूप-रस-गन्ध-स्पर्शशब्दा रूपादयः रूप-वेदना-विज्ञान-संस्कारा वा, तद्व्यतिरिक्तमन्यत् पृथिव्यादि तदभिवचनमात्रम्, अत 20 आह-आत्मा च न नामान्यः कश्चिदस्ति, अरूपादित्वात्, खपुष्पवत्।
रूपादिसमुदायमात्रप्रतिपादनाय दृष्टान्तमाह-यथा चक्रषाक्षेत्यादि । चक्राद्यङ्गसमूहे रथसंज्ञा, हस्त्याद्यङ्गसमूहे सेनासंज्ञा । यथा समुदायो विभज्यमानोऽङ्गेषु तिष्ठति, तान्यप्यङ्गानि विभज्यमानानि आत्मांशेषु, परतो वा परत इति यावत् परमाणुशो विभज्य रूपादिष्वेव तिष्ठति, प्रत्येकमेकैकमङ्गं परमाणुपर्यन्तं विभज्य सुष्ठु निभाल्यमानोऽपि रथो न दृश्यते तथा सेना वनं पुरुषोऽन्यो वार्थो न 25 दृश्यतेऽङ्गव्यतिरिक्तः, किन्तु तत्समुदाय आभासते, रूपादय एव प्रत्यवभासन्ते समदितास्तथेति। १ तिपक्षोपि. तत्प्रतिपक्षोपि तत्प्र प्र० ।। २ म्यवक्त य० ॥ ३ दाय कारणं प्र० ॥ ४ स्य भावं प्र० ।। ५ पथिव्यापथिव्यादेविना भा० । पथिव्यापृथिव्यादेविना य० ॥ ६ पथिव्याकाशादिना य० ।। ७ चक्रेखात्वेषाक्षे य० । चकेषात्कषाक्षे भा० ।। ८. वाथौ भा० । वाप्तौ य० ॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org