________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ दशमे विध्यरे
इत्येवंविधमवस्तु सर्वथाप्यरूपत्वात् सर्वेण वा[ने]न विरोधात् खपुष्पवत्, इतरः प्रत्यक्षरूपादिवत् । तस्मान्नावक्तव्यं वस्तु । नापि निर्विचारवक्तव्यम्, एकान्तवादप्रसङ्गात् तत्र चोक्त दोषत्वात् । न विशेषः, समुदायत्वात्, रथादिवत् । न भावः त्वयैव प्रतिषिद्धत्वात् । कुत एतदेकत्वाद्यवक्तव्यता ?
७७९
5 वे(चे? )त्यादि, उभयथा च सर्वथा, यदि केनचित् प्रकारेण यदि सर्वथेत्यर्थः । तत्र यदि केनचित् प्रकारेणावचनीयं यथा सामान्यविशेषेकत्वान्यत्वादिविकल्पानामन्यतमेन त्वयैव उक्त्वोक्त्वा तस्यावक्तव्यत्वप्रतिपादनस्य कृतत्वादेकत्वेनान्यत्वेनोभर्यत्वेनानुभयत्वेनान्यतरोपसर्जनप्रधानतया च तथा तथा वचनीयत्वात् प्रत्यक्षं श्रूयमाणत्वात् प्रत्यक्षविरोधः । स्वयमुक्तेः स्ववचनविरोधः । स्वयमभ्युपगमादभ्युपगमविरोधः। भिन्नव्यबस्थानलक्षणत्वादिनानुमानेन तथा तथा चोक्तप्रकारेणानुमानादनुमानविरोधः । 10 लोके शास्त्रेषु च वाच्य वाचकभेदप्रसिद्धेर्लोकागमविरोधौं । एवं तावत् केनचित् प्रकारेणावक्तव्यत्वे स्वैवचनादिविरोधाः । सर्वथाऽप्यवक्तव्यत्वे तथैव प्रत्यक्षादिविरोधी स्त एव सर्वथाप्यवचनीयमिति वचनात् तद्द्वारेण शेषदोषप्रसञ्जनात् ।
इत्येवंविधमवस्तु । इतिशब्दो हेतूपसंहारार्थः, एतस्मात् कारणादवक्तव्याख्यं यदेवंविधं विकल्पितं त्वया वस्त्विति तदवस्तु । कस्मात् ? सर्वथाप्यरूपत्वात्, सर्वैः प्रकारैः सर्वथा, यदि 15 सामान्यविशेषैकत्वान्यत्वादिविकल्पैर्वाच्यमवाच्यमथ तैरव्यतिरेक-व्यतिरेकादिविकल्पैर्वाच्यमवाच्यमत्यन्तासदेव वा सामान्य विशेषशब्दप्रतिपाद्यप्रतिपादकादिविकल्पैर्वा वक्तव्यमवक्तव्यं चेत्याद्युक्तविधिना सर्वथा विचार्यमाणस्य रूपं नावतिष्ठते तस्मात् सर्वथाप्यरूपत्वात् खपुष्पवदवस्तु तत् ।
५०२-२
किञ्चान्यत्, सर्वेण वा [ने]न विरोधात् ' अवस्तु' इति वर्तते, उक्तविधिनैव सर्वेण स्ववचनादिना प्रमाणेनानेन विरुध्यत एव, अतोऽप्यवस्तु । खपुष्पवदेव इति साधर्म्यदृष्टान्तः । इतरः प्रत्यक्ष20 रूपादिवदिति वैधर्म्यदृष्टान्त इत्यर्थः यस्य रूपमस्ति तत् सर्वेण न केनचिद् विरुध्यते, यथा प्रत्यक्षं स्वसंवेद्यं सर्ववादिनं प्रति ज्ञानसुखादि 'रूपादिवत्' इति विज्ञानमात्र शून्यवादिनो मुक्त्वाऽन्यान् प्रति तस्मान्नावक्तव्यं वस्तु इत्युपसंहारः ।
नापि निर्विचार वक्तव्यम्, एकान्तवादप्रसङ्गात् तत्र चोक्तदोषत्वात्, 'न द्रव्यं न कारणं न सामान्यम्' इति पूर्वोद्ग्राहितविकल्पप्रतिषेधेन नैकत्वं तेषामेव यथा त्वयैवावक्तव्यवादिना 25 निषिद्धम् ।
स्यान्मतम्-विशेषस्तर्हि घटादिरस्तु वस्तु । " तदपि रथादिवदिति न भवति वस्तु, सत्यपि
१ यत्वेनान्यतरो य० । २ लोकः य० ।। ३ स्ववचादि य० ॥ ४ दृश्यतां पृ० ७७६ टि० ७ ।। ५ पुष्प भा० । पत्वकपुष्प य० ॥ ६ तस्मांतावक्तव्यं प्र० ।। ७ हारस्तापि य० ।। ८ दृश्यतां पृ० ७६० पं० ५, पृ७५३ पं० १ ।। ९ प्रतिषेधोनानकत्वं प्र० । प्रतिषेधेनानेकत्वम्' इति 'प्रतिषेधे नानैकत्वम्' इति वा पाठोऽप्यत्र भवेत् ॥ १० तदापि य० ॥
Jain Education International
For Private & Personal Use Only
.www.jainelibrary.org