________________
अवक्तव्यकान्तनिरासः]
द्वादशारं नयचक्रम्
७७८
अथोच्येत--सर्वस्यास्यावक्तव्यार्थप्रतिपादनवचनाददोषः। ननु यद्यवचनीयं [कथं प्रतिपादनम्? अथ प्रतिपादनं कथमवचनीयम्?]
अथोच्येत--अवचनीयमित्येतदप्यवचनीयमेव, वस्तुत्वात्, तदर्थवत् । तत् किं कथञ्चिदवचनीयं सर्वथा वा? सर्वथा वा (चा)वक्तव्यत्वे प्रत्यक्षादिविरोधाः । इति विशेषकत्वान्यत्वादि असदेव प्रतिपादनार्थं कल्प्यते, गतिरियं प्रतिपादनस्य ग्रामादिपथोपदेशे 5 दिगादिप्रदर्शनवत् चित्रभक्तिबिन्दुविन्यसनवदिति । 'रत्र ( ननू ) भयलक्षणोपपत्तेः, प्रतिषेध्यप्रतिपक्षासत्त्वे टेकत्वान्यत्वयोः सत्त्वमितरेतरनिषेधार्थापत्तिविहितमुभयलक्षणत्वमापद्येत, अनिष्टं चैतत् । तस्मात् तत्रावाच्यवस्तुनि तयोश्चैकत्वान्यत्वयोः स्वरूपेणावक्तव्यतैवेति ।
५०४-२ ___ अत्र ब्रूमः--एवं तहि ननु 'प्रतिपादनम्' इत्यप्यवचनीयमेव, यत् तदेकत्वादिप्रतिपादनमसत् कल्पितमुपायत्वाभिमतं तत् 'प्रतिपादनम्' इत्यवचनीयम्, अत्यन्तासत्त्वात्, खपुष्पवत् । 'प्रतिपाद- 10 नम्' इति चोच्यते त्वया, प्रतिपादनं हि लोके विशेषवचनं दृष्टं 'यो गौरः स देवदत्तः' इति तद्वैधhण। तच्चासत्त्वाद्विशेषवचनं प्रतिपादनं [न] युक्तम् ।।
किञ्चान्यत्, विशेषवचनस्य विशेषाविशेषाद्येकत्वाद्यवक्तव्यत्वात्, वचनमपि 'किं विशेषोऽविशेष एकोऽन्य उभयमनुभयमवक्तव्यम्?' इत्येवमादिविकल्पेषु अवक्तव्यम् । अतो विशेषवचनस्याप्यवचनीयत्वात् प्रतिपादनं 'प्रतिपादनम्' इत्यवचनीयम् ।
किञ्चान्यत्, प्रतिपाद्यो यः शब्दो यश्च प्रतिपादकस्तयोरप्येकत्वान्यत्वोभयत्वानुभयत्वादि अवक्तव्यम्, तस्मादपि 'प्रतिपादनम्' इत्यवचनोयम् । तदवचनीयत्वे च तत्सत्त्वमवश्यंभावि वक्तव्यवदिति ।
अथोच्यतेत्यादि । न प्रतिपाद्यप्रतिपादकभेदोऽस्त्यवक्तव्यस्य, नापि केचिद् विशेषाः प्रतिपादकाः प्रतिपाद्यात् सामान्याद् भिद्यन्ते, किन्तु सर्वस्य सविशेषणसविशेष्यस्यास्य वाक्यसङ्घातस्यैकस्यैवो- 20 क्तप्रकारेणावक्तव्यार्थप्रतिपादनवचना[द]दोष इति ।
अत्र ब्रूमः- ननु यद्यवचनीयमित्यादि गतप्रत्यागतेन विरोधापादनं गतार्थम् ।
अथोच्येत त्वया-'अवचनीयम्' इत्येतदपि वचनमवचनीयमेव, अहो पुनरहमवचनीयवादी ५०५-१ यत् किञ्चिदवचनीयमपि प्रतिपद्ये, यत् किन्तु सहार्थेन प्रतिपाद्य-प्रतिपादकभेदरहितं समस्तवृत्तिवचनमेतदपि नोच्यत एव वस्तुत्वात्, तदर्थवदिति ।
25 अत्रेदानीं 'चिन्त्यतां परमनिश्चये त्वंदीये-तत् तावत् प्रत्यक्षमुच्यमानं ' श्रूयमाणं वचनीयं तस्यावचनीयत्वे द्वयी गतिः--तत् किं कथञ्चिदवचनीयं सर्वथा वा? इति पर्यनुयुज्य दूषणम्-सर्वथा
१ पदेशि भा०॥२ रत्रत्रय य० ॥ ३°लक्षणस्तत्व य०॥ ४ मतं प्रतिपा भा० ।। ५ अथोच्यतेत्यादि य० ।। ६ केनचिद् प्र०॥ ७ सर्वस्य विशेषण य० ॥ ८ रित्यतां भा० । रित्यांतां य० ॥ ९ तदीये य० ।। १० श्रयमाणं प्र०॥
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org