________________
৩৩৬ न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
. विशमे विध्यरे त्वादीनां निवृत्तावत्यन्तमसत् स्याद् वस्तु, कुत आयाता अवक्तव्यता? अनवधारणपरिग्रहात्तु स्याद्वादं वादपरमेश्वरं शरणं प्रपन्नोऽसि । तथापि तेऽभ्युपगमविरोधः।।
- अर्थकान्ताभ्युपगमे दोषात् स्याद्वादाभ्युपगमेऽभ्युपगमविरोधादसदेव तद्वस्त्विति चेत्, एतदप्यशोभनं विशेषद्वारनिषेधानुपपत्तेस्ततोऽप्यमुक(ऽप्ययुक्त?)भावविशेषकान्यत्वाद्यवक्त5 व्यत्वात् ।
अथ प्रतिपादनमात्रम्, ननूभयलक्षणोपपत्तेरवक्तव्यतैव । एवं तहि ननु 'प्रतिपादनम्' इत्यप्यवचनीयम्, अत्यन्तासत्त्वात्, खपुष्पवत्, विशेषवचनस्य विशेषाविशेषाद्येकत्वाद्यवक्तव्यत्वात् प्रतिपाद्यप्रतिपादकयोरप्येकत्वान्यत्वोभयत्वानुभयत्वाद्यवक्तव्यत्वात् ।
स्यान्मतम्--अनवधारितैकत्वादिविशेषं सर्वाकारम् ‘एकमपि अन्यदपि अवक्तव्यमपि' इत्यादि 10 परिगृह्यते तद् वस्तु इति चेत्, एवं तर्हि ? अनवधारणपरिग्रहात्त्वित्यादि। सर्वेषां विकल्पानामे
कत्वादीनामवधारणमन्तरेणानुमत्या परिग्रहाद् ‘एकं द्रव्यमनन्तपर्यायम्' इति वस्त्वभ्युपगम्यम्-स्यादेकं ५०४-१ स्यानाना स्यादुभयं स्यादनुभयं स्यादवक्तव्यमिति। तदपि स्याद्वादं वादपरमेश्वरं शरणं प्रपन्नोऽसीति
न किञ्चिद् वक्तव्यः संवृत्तः, तथापि वादपरमेश्वरशरणगमनं तेऽभ्युपगमविरोधाद् मनस्विनो विजिगीषुतां निरुणद्धि, तेनापि सह विरुद्धत्वात् पूर्वमिति । 15 अथैकान्तेत्यादि। अथ मतम्-निषेध्यप्रतिपक्षकान्ताभ्युपगमे त एव मदुक्ता दोषाः, स्याद्वादाभ्युपगमेऽभ्युपगमविरोधः, तद्धावादेकान्तवादगतदोषविदूरीकरणार्थ पर्यायेण प्रतिषिद्धप्रतिपक्षसद्भावमनभ्युपगम्य [असदेव तद् वस्त्विति चेदेतदुच्येत त्वया। एतदप्यशोभनम्, विशेषद्वारनिषेधानपपत्तेस्ततोऽप्यमुके(प्ययुक्ते? )त्यादि, यद्यत्यन्तासदेव तद्वस्तु तस्य खपुष्पवदत्यन्तासत्त्वाद् ‘भावविशेषकत्वान्यत्वमवक्तव्यम्' इत्ययुक्तम्, विशेषधर्मासत्त्वे विशेष्यत्वाभावात्, खपुष्पवत् । एवं 20 प्रत्येकमेकत्वान्यत्वाभ्यां भाव-विशेषयोरवक्तव्यत्वमयुक्तमसत्त्वे । उभयत्वेनाप्ययुक्तम्, सदाश्रयत्वा
च्चोभयलक्षणत्वस्य एकत्वान्यत्वयोः सत्त्वात्, तद्वारेण चानुभयत्वस्यात्यन्तासत्त्वस्याप्यवक्तव्यता सिध्यतीत्यभिप्रायस्य त्वयैव कृतत्वात् । अथोच्यत-प्रतिपादनमात्रम्,
उपायः शिक्ष्यमाणानां बालानामुपलोपनाः ।
अतत्वे वर्त्मनि स्थित्वा ततस्तत्त्वं समीयते ॥ [वाक्यप. २१२४० ] १हत्वित्यादि य० ॥ २ सद् य० ॥ ३ वेदेतदुच्येता प्र० ॥ ४ विशे (शि) ष्टत्वा भा० ।। ५ व्यमयु य० ॥ ६ णस्य य० ।। ७ क्तता य० ॥ ८ "उपायाः शिक्षमाणानां बालानामपलापनाः। असत्ये वर्त्मनि स्थित्वा ततस्तत्त्वं समीहते [वाक्य प० २।२४० ] तस्मादुपायाः शास्त्राणि जिज्ञासूनामबुधानामपलापनाः प्रतरणा एव बोद्धव्याः। यस्मात् तत्रासत्यरूपे शास्त्रप्रक्रियामात्रेऽर्थे स्थित्वा अविद्यामुत्सृज्य सत्यं विद्यास्वरूपं ब्रह्म समीहते प्राप्नोतीति यावत् ।" इति वाक्यपदीयटोकायां पुण्यराजकृतायाम् ॥ ९ लापना य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org