________________
अवक्तव्यैकान्तनिरासः ]
द्वादशारं नयचक्रम्
एकत्वम्, तयोर्निषेधेऽनुभयत्वम्, अनुभयत्वनिषेधे चोभयत्वम् ? प्रतिषेध्यविपक्षरूपमाश्रयितव्यम्, अथ नाश्रीयते किम् ? यद्याश्रीयते निषिध्यमानप्रतिपक्षरूपता ततः साङ्ख्यादिवाद - गतानन्यत्वादिदोषोपादानम् । अथ नाश्रीयते ततः प्रतिपक्षरूपानाश्रयणे सर्वविकल्पानामेक
अत्रोच्यते--तथापि द्विविशेषांशवृत्ते विशेषप्रधानावक्तव्योपसर्जनपक्षता । विशेषस्य भावविशेषैकत्वादेर्भाव-विशेषैकत्वान्यत्वाद्य वक्तव्यधर्मांशवृत्तिलाभवद् व्यतिरिक्ताव्यतिरिक्तत्वविशेषा- 5 वक्तव्यत्वधर्मांशवृत्तिलाभाद् विशेष एवावक्तव्यत्वेन विशेष्यत्वाद् गौर - दन्तुरत्वद्वयविशेषणविशेष्यदेवदत्तवत् प्रधानोऽवक्तव्यस्य चोपसर्जनता च स्यात् । ततश्च विशेषप्रधानावक्तव्योपसर्जनपक्षतेयमप्रतर्कितोपस्थिता, अनिष्टा च सेति ।
७७६
10
किञ्चान्यत्, तस्या अपि च रूपं निरूप्यम्, कथं निरूप्यमिति चेत्, उच्यते - किमेकत्वेत्यादि, ५०२-१ द्वाभ्यां न्यायाभ्यामन्यतरेणावश्यंभाव्यत्वाद् निरूप्यम्, तद्यथा - एैकत्वे निषेध्येऽन्यत्वमापतति, अन्यत्वे निषेध्ये चैकत्वम्, तयोर्निषेधेऽनुभयत्वम्, अनुभयत्वनिषेधे चोभयत्वम् । तस्मात् प्रतिषेध्यविपक्षरूपमाश्रयितव्यम्, तच्च तस्य विशेषप्रधान वक्तव्योपसर्जनस्य द्विविशेषांशवृत्ते राश्रीयते त्वया । अथ नाश्रीयते किम् ? इति पृच्छामो गतिद्वयानतिवृत्तेरिति किमिति तत्त्वयैव निरूपयितुम् । द्विधापि च दोषः ।
तन तावद् द्याश्रीयते निषिध्यमानप्रतिपक्षरूपता ततः पर्यायेण साख्यादिवादगता - 15 नन्यत्वादिदोषोपादानम्, यदा विशेषान्यत्वं निषिध्यते तदा साङ्ख्यमतमेकत्वमुपात्तं स्यात् । य[द्य ] वयवैकत्वं निषिध्यते तदा । वैशेषिकाभिमतान्यत्वोपादानम्, आदिग्रहणात् पुरुषकालादिकारणवादोपादानं कार्यमात्र समुदायवादोपादानं च तत्र ये दोषास्त्वयैवा वक्तव्यवादिनाभिहितास्त एवाशेषास्तवापतन्ति ।
अथ मा भूवनमी दोषा इति नाश्रीयते प्रतिषेध्यप्रतिपक्षरूपं ततः प्रतिपक्ष रूपानाश्रयणे सर्व - 20 विकल्पानामित्यादि यावत् कुत आयाता अवक्तव्यतां ? प्रतिषेध्यप्रतिपक्षरूपमनाश्रित्य प्रतिषिद्धेऽन्यतमविकल्पे निवत्यै तावति कृतार्थः सन् विकल्पान्तरमपि निवर्तयेत्, अनेनैव क्रमेण एकैकं निवर्त्य सर्वविकल्पेषु विशेषैकत्वादिषु निवर्तितेषु अत्यन्तमसत् स्यात् न सद्वस्तु, ततश्च कुत इयमवक्तव्यता आयाता ? विकल्पान्तरप्रतिषेधेन हि विकल्पान्तराभ्युपगमे तदेकान्तनिराकरणद्वारेणावक्तव्यत्वस्यागमनं स्यात्, न हि सर्वविकल्पातीतस्य खपुष्पादेरवक्तव्यता स्यात् ।
१ शावृत्ति प्र० ।। २ भ्यामनन्य प्र० ।। ३ एकत्वेनिषेधे प्र० । ( एकत्वनिषेधे ? ) ॥ ४ किमिति वत्त्वयैव य० । किमि त्वयैव भा० । ( किमिदं त्वयैव ) ? ।। ५ यथाश्रीयते य० ।। ६ स्याद्यवयवैकत्वं भा० । स्यानेकत्वं य० ।। ७ तदास्त प्र० । अत्र भूयान् पाठव्यत्यासः प्रतिषु दृश्यते । एतच्चिह्नान्तर्गत: ७७६७७९ पृष्ठस्थः पाठः पृ० ७८१ पं० ११ इत्यत्र 5 एतच्चिह्नाङ्कितपाठात् परतो विद्यते सर्वत्र । तथापि पूर्वापरसम्बन्धं पर्यालोच्य तत उद्धृत्यात निवेश्यतेऽस्माभिः ।। ८ रूपाराश्रयणे भा० । रूपाश्रयणे य० । ९ ता प्रतिपक्षप भा० ।। १० सन्निकल्पा प्र० । ११ स्यान्न द्वस्तु भा० । ( स्यात्तद्वस्तु ? ) |
Jain Education International
For Private & Personal Use Only
52
www.jainelibrary.org