________________
७७५ न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[दशमे विध्यरे वस्तु असत्, अविशेषत्वात्, खपुष्पवत् । विशेषोऽप्यसन, वस्तुव्यतिरिक्तत्वात्, खपुष्पवत् । तथा च सामान्यविशेषैकत्वान्यत्वादिविकल्पप्रपञ्चनमाकाशरोमन्थवत् परिक्लेशमात्रफलमयथार्थत्वात् ।
अथावक्तव्यविशेषव्यतिरेकाव्यतिरेकम्, तथापि द्विविशेषांशवृत्तेविशेषप्रधानावक्त5 व्योपसर्जनपक्षता । तस्या अपि च रूपं निरूप्यम्-किमेकत्वनिषेधेऽन्यत्वम्, अन्यत्वनिषेधे
..., नन्वेवं तस्य विशेषव्यतिरिक्तत्वाद् द्वयी गतिः-अत्यन्तभावो वा[sमावो वा], नान्यास्ति । भावत्वे वक्तव्यतैव, अभावत्वेऽपि 'असत्' इति वक्तव्यतैवेत्यवक्तव्यत्वनिवृत्तिरेवमस्मन्न्यायेन दोषः ।
. किञ्चान्यत्, तथा त्वदुक्तवदप्यवस्तुता, तेन प्रकारेण तथा विशेष्य (ष)व्यतिरिक्तत्वन्या10 येन त्वदुक्तेनैव तदवक्तव्याख्यं वस्तु अवस्तु स्यात्, कस्मात्? अभूतावक्तव्यत्वात्, भावकत्वाविशेष
द्वारेण ह्यवक्तव्यत्वमुक्तम्, तद्व्यतिरिक्तत्वे तस्याभूतावक्तव्यत्वम्, अभूतावक्तव्यत्वाच्च खपुष्पवद[व]स्त्विति । भावपक्षेऽपि भवत्येव भवतीति भावस्य वक्तव्यत्वादभूतावक्तव्य[त्व]म्, तस्मात् त्वन्मतेनैव भावपक्षेऽपि अभूतावक्तव्यत्वात् प्रधानादिवत् तदवस्त्विति ।।
किञ्चान्यत्, यथा चेत्यादि। यथा च तदवक्तव्याख्यं वस्तु विशेषा[] व्यतिरिक्तमिष्यते तथा ___ 15 विशेषोऽप्यवक्तव्याख्याद् वस्तुनोव्यतिरिक्तः, व्यतिरेकस्य द्विष्ठत्वात् । एवं चसति तदेवासत्त्वमनयोर्वस्तु. ५०१-२ विशेषयोः प्राप्तम् । त्वदिष्टं वस्तु असत्, अविशेषत्वाद् विशेष व्यतिरिक्तत्वात्, खपुष्पवत् । विशेषोऽ
प्यसन्, वस्तुव्यतिरिक्तत्वात्, खपुष्पवत् । नो चेत्, खपुष्पं स्यात्, विशेषव्यतिरिक्तत्वात्, वस्तुवत्; खपुष्पं सत्, वस्तुव्यतिरिक्तत्वाद्वा, विशेषवत् ।
__ तथा चेत्यादि । एवं तस्य वस्तुनोऽसत्त्व 'सामान्य-विशेषयोः किमेकत्वमन्यत्वं[म] वक्तव्यम्' 20 इत्यादि विकल्पप्रपञ्चनमाकाशरोमन्थवत् परिक्लेशमात्रफलमयथार्थत्वादिति आकाशकुसुमसौरभादिविचारायथार्थत्वादिवदयथार्थत्वमस्य विचारस्योक्तविधिना सिद्धमिति । एवं व्यतिरेकपक्षेऽप्यवक्तव्यत्वाभावः ।
__ अथावक्तव्यविशेषव्यतिरेकाव्यतिरेकम् । स्यान्मतम्-सामान्यविशेषकत्वान्यत्वाद्यवक्तव्यत्ववद् व्यतिरेकायंतिरेकत्वाभ्यामवक्तव्यं वस्त्वभ्युपगच्छामि, अतोऽनर्थको विचारक्लेशो विशेषेण 25 सहाव्य(ऽप्य)स्य व्यतिरे काव्यतिरे]कत्वाभ्यामप्यवक्तव्यत्वादवक्तव्यो विशर्ष व्यतिरेकाव्यतिरेको यस्मिस्तद् वस्तु अवक्तव्यविशेषव्यतिरेकाव्यतिरेकमित्येष मे पक्ष इति।
१ 'अत्यन्तभावो[ ऽभावो] वा' इत्यपि पाठः स्यादव ॥ २ °स्तु स्या भा० । 'स्तु स्य य० ॥ ३ क्तव्यं वस्तु भा० ॥ ४ त्वमवक्तव्य त्वम्' इत्यपि पाठश्चिन्त्यः ।। ५ °स्य विचारस्य विचार प्र० ।। ६ * * एतच्चिह्नाहितः व्यतिरेकत्वा इत्यत आरभ्य विशेष इत्यन्तः पाठो य० प्रती नास्ति ।। ७ 'सहा वक्त व्यस्या इत्यपि पाठोऽत्र भवेत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org