________________
अवक्तव्यकान्तनिरासः] द्वादशारं नयचक्रम्
७७४ वचनाद् यादृच्छिकव्यवहारप्रसङ्गः। तस्मादवक्तव्यसामान्यार्थो 'विशेष एवं' इति वक्तव्यः, विशेषाव्यतिरिक्तत्वात्, तत्स्वात्मवत् । अथ तथाप्यवचनीयमेवावचनीयसामान्यमिच्छसि एवं तहि विशेषो विशेष इत्यवचनीयः, विशेषाव्यतिरिक्तत्वात्, अवक्तव्यसामान्यवत् । तस्याप्यवाच्यत्वे वस्तुनश्चावाच्यत्वे तयोः परस्परमवचनीयत्वादुभयतोऽप्यवचनीयं सामान्यं वचनीयं प्रसक्तम्, तथा विशेषोऽपि ।
5 अथ विशेषव्यतिरिक्तं वस्तु, अवक्तव्यत्वात् । नन्वेवं तस्य भावत्वे वक्तव्यतैव अभावत्वेऽपि वक्तव्यतैव । तथा त्वदुक्तवदप्यवस्तुता अभूतावक्तव्यत्वात्, यथा च वस्तु विशेषाद् व्यतिरिक्तं तथा विशेषोऽपि वस्तुनो व्यतिरिक्तः । एवं च तदेवासत्त्वमनयोः ।
तथा चेत्यादि । एवं निर्धारितमपि विशेषं स्वपक्षरागादवाच्यमेव मन्यि]से तथाच निर्धारितेत्यादि यावत् प्रसङ्गः, अयमबुद्धिपूर्वको यदृच्छया क्रियते व्यवहारस्त्वया निर्धारितार्थावक्तव्य- 10 वचनात्, उष्णत्वेन निर्धारितस्याग्ने: 'शीतोऽग्निः' इति वचनव्यवहारवत्।
तस्माद् 'विशेष एव' इति निर्धारितो[s]वक्तव्यसामान्यार्थो 'विशेष एवं' इति वक्तव्यः, नावक्तव्यः, विशेषाव्यतिरिक्तत्वात् तत्स्वात्मवत् ।
अथ तथेत्यादि । स्वपक्षरागेणैव विशेषाव्यतिरिक्तत्वेऽप्यवचनीयमेवावंचनीयसामान्यमिच्छसि एवं तहि विशेषो 'विशेषः' इत्यवचनीयः, विशेषाव्यतिरिक्तत्वात्, अवक्तव्यसामान्यवत् । स्यान्मतम्- 15 सिद्धमेव विशेषावाच्यत्वमिति । एतच्च न, त्वया विशेषस्य एकत्वादिवाच्यत्वेनाभ्युपगम्य प्रतिषेधेनावक्तव्यत्वप्रतिपादनस्य कृतत्वात् ।
तस्यापि विशेषस्यावाच्यत्वे वस्तुनश्चावक्तव्यसामान्यस्यावाच्यत्वेऽवक्तव्यसामान्येन विशेषो न वाच्यो विशेषेण सामान्यमवाच्यम्, तयोश्चावचनीययोः परस्परमवचनीयत्वम् । ततः किम्? ततश्चोभयतोऽप्यवचनीयमवचनीयं सदवचनीयं सामान्यमिति द्वि:प्रतिषेधस्य प्रकृत्यापत्तेर्वचनीयं 20 प्रसक्तम, तथा विशेषोऽपीति वचनीयत्वमेव स्याद् द्वयोरपीति । एवं तावद् विशेषाव्यतिरिक्तत्वा- ५०१-१ दवक्तव्यं 'वक्तव्यमेव' इत्युक्तम् ।
अथ विशेष व्यतिरिक्तमित्यादि । अथा मा भूवन्नमी दोषा इति वस्तुनो विशेषाद् व्यतिरिक्तत्वमिष्यतेति। अत्रापि पूर्व प्रश्नोत्थाने चोद्योपक्रमे विशेषव्यतिरिक्तकारणमाह-[अ]वक्तव्यत्वादिति, यस्मात् सामान्यविशेषकत्वादिविशेषैर्वक्तव्यैरवक्तव्योऽर्थो भिन्नलक्षणस्तस्मादवक्तव्यत्वादेव 25 स्वलक्षणाद् भिन्ना[द्] व्यतिरिक्तं विशेषाद् वस्त्वित्युपपत्तिः । इयमेव भावकत्वोभयान्यत्वयोः पूर्ववद् व्यतिरिक्तत्वे योज्योपपत्तिरस्मिन्नपि पक्षे ।
१ उष्णत्वेनानिर्धा प्र०॥ २ अ तथेत्यादि य० ॥ ३ यमेववावचनीय य० ॥ ४ °व्यमेवमित्युक्तम् य० ॥ ५ त्वमिष्यतेति य० ॥ ६ भावयिकत्वों य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org