________________
७७३
न्यायागमानुसारिणीवृत्यलङ्कृतम्
[ दशमे विध्यरे
विशेषः स्वरूपादव्यतिरिक्तत्वाद् विशेष एवाभ्युपगम्यते । यस्य भावेन सहैकत्वान्यत्वादि विचार्यते यस्माच्च भाव एकत्वान्यवादिभिरवक्तव्य उच्यते एष विशेषोऽप्येकैकः । अव्यतिरेको ह्येकलक्षणम् । स च वस्तु विशेषाव्यतिरिक्तत्वात् तत्स्वात्मवत् भवतीति भाव इति सत्तार्थत्वात् तस्य । ततश्च विशेषमात्रमेव । तदेकत्वात् कुतोऽवचनीयता तस्य । न 5 हि विशेषोऽवचनीयः, विशेषाव्यतिरिक्तत्वात्, तत्स्वात्मवत् । तथा च निर्धारितार्थावक्तव्य
'सामान्य विशेषाभ्यामाक्रान्तेः
भावविशेषकृतैकत्वान्यत्वभावविशेषाव्यतिरिक्त तायाम्' इत्यादिः स एव ग्रन्थो यावत् 'एकत्वाक्षान्तेः' इत्युभयवादिपक्षेऽप्युपपत्तिरव्यतिरेकस्य तथैव योज्येति । एवमवक्तव्यवादिमतसंवादाद् विशेषाव्यतिरिक्तं वस्तु । ततः किम् ? यद्येवं विशेषाव्यतिरिक्तं ५००-१ तत एतदायातम् - ननु विशेषमात्रमेवैवं नियमविधिनयमनोरथपूरणम् । तद् भावयति - यथा 10 भिन्नोऽपीत्यादि, यथा परस्परविविक्तासाधारणरूपत्वाद् विशेषाणां भिन्नोऽप्येको विशेषो रूपादिः स्वरूपाद् रूपाद्यात्मनोऽव्यतिरिक्तत्वाद् विशेष एवेति दृष्टान्तवर्णनं वक्ष्यमाणत्वादभ्युपगम्यत इति त्वयापीष्टमित्यनुमानयति ।
स्यान्मतम्–'तत् कथं मयाभ्युपगतम् ? इति तत्प्रदर्शनार्थमाह-यस्य भावेनेत्यादि, योऽसौ त्वया 'किं भावेन सह विशेषस्य एकत्वम्, अन्यत्वम्?' इत्यादिविचारेऽभ्युपगतो यस्माच्च विशेषाद् भाव 15 एकत्वान्यत्वादिभिरवक्तव्य इत्युच्यते ऐष विशेषोऽपि एकैक: । कस्मात् ? अव्यतिरेको ह्येकलक्षणम्, यद्धि न कुतश्चिद् व्यतिरिच्यते तद् 'एकम्' इत्युच्यते, यथा पुरुष एवेदं सर्वम् [शुक्ल यजु. सं. ३१।२] इत्यादि । स च विशेषभावो वस्तु, अवक्तव्यस्य विशेषाव्यतिरिक्तत्वात् उक्तविधिना सिद्धो हेतु:, तत्स्वात्मवदिति विशेषाव्यतिरिक्तं विशेषस्य विशेष एव विशेष इति यथा तथा [[ ] वक्तव्याख्यमिति सम्बन्धः ।
मा भूत् प्रागुक्तसामान्यपर्यायभावशब्दबुद्धिरित्यसंमोहार्थं 'भावो वस्तु' इति वस्तुपर्यायत्वं दर्शयन्नाह - भवतीति भाव इति सत्तार्थत्वात् तस्य ततश्च विशेषमात्रमेव इति सामान्यशङ्कानिरासो वस्तुपर्यायश्चेत्युपनयार्थः । मात्रग्रहणात् सिद्धे स्फुटीकरणार्थमिष्टतोऽवधारणार्थं च एवकारग्रहणम् । स्थितमिदमेक एव विशेषस्तदवक्तव्य सामान्यमिति, तस्मिंश्च स्थिते तदेकत्वात् कुतो [5]५००-२ वचनीयता? द्वितीयाभावात् केन सहैकत्वान्यत्वाद्यवक्तव्यता तस्य विशेषमात्रस्य भावस्य ? इति । तद्भावना—न हि विशेष इत्यादि, नावचनीयो विशेषः, विशेषाव्यतिरिक्तत्वात्, तत्स्वा - त्मवदित्युक्तार्थोपसंहारार्थं साधनं गतार्थम् । एवं निर्धारितो विशेषः, निर्धारितत्वाद् वाच्य एव स्यात्, अनिर्धारित ह्यवाच्यः स्यात् ।
20
25
१ क्व कथं भा० ।। २ एषो विशेषेपि एवैकः य० । एषो विशेषे एवैकः भा० ।। ३ (विशेषो भावो ? ) ।
४ त्वात्स्वात्मव य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org