________________
अवक्तव्यकान्तनिरासः]
द्वादशारं नयचक्रम्
७७२
यदि सामान्यकृतैकत्वोभयत्वकृतान्यत्वयोविशेषेणाक्रान्तेः सामान्यकृतैकत्वोभयत्वकृतान्यत्वविशेषाव्यतिरिक्ततायामवक्तव्यार्थसंवादादवक्तव्यत्वस्य नियमत्वात् तथा तथा विशेषादव्यतिरिक्तं ततो व्यतिरेकादन्यत्वाक्षान्तेः, ननु विशेषमात्रमेवैवम्। यथा भिन्नोऽप्येको
आकाशस्फोटवत्' इति पक्षादिवत् । तस्मात् पक्षाद्यसाधनत्वात् सम्भावनीयमवक्तव्यत्वं त्वत्परिकल्पितस्य वस्तुनो नान्यथेत्युद्घट्टकोऽयम् ।
अभ्युपेत्यापि अवक्तव्यतां दोषं ब्रूमः- इदमसि त्वं प्रष्टव्यः--अथ यस्येत्यादि। अवक्तव्यात्मकस्य देशिनो य एते देशाः सामान्यविशेषकत्वान्यत्वादयो यैस्तदवक्तव्यमिष्यते तेषां यो विशेषोऽवयवस्तस्मात् किं तदव्यतिरिक्तमित्यादि अयं हि नियमविधिनयो विशेषवादी तमेव स्वाभिप्रेतं विशेषं गृहीत्वा चोदयति। • स्यान्मतम्--सामान्यविशेषैकत्वादिनिराकरणेनैवावक्तव्यं जात्यन्तरं वस्तु नियमितं निश्चित-10 नियताऽधिकभावेन, तत्र कुतस्तदव्यतिरिक्तत्वादिप्रश्नोत्थानम् ? इति, अत्रोच्यते--अवक्तव्यस्य विशेषा (ष)स्वावयवतथानियमादेवास्ति तस्य वस्तुनो व्यवस्थानात् 'तत् किं तैरव्यतिरिक्तं व्यतिरिक्तं वा' इत्यादि प्रश्नोत्थानं तदवयवत्वाच्च तस्य सामान्यविशेषैकत्वाद्याशङ्कासम्भववदिति तदुपपत्ति प्रदर्शयन् परमतमाशङ्कते-- तद्यथा यदि सामान्येत्यादि। सामान्यमेव साङ्ख्यादीनामेकं वस्तु च। 'विशेष एव बौद्धस्य । उभयं वैशेषिकस्य परमतो[5]न्यत्। तत्रावक्तव्यवादे यदि तत् सामान्य-15 कृतमेकत्वं विशेषीभूतमाक्रम्य विशेषः स्वरूपं वस्तुन्यर्पयन् सामान्यकृतैकत्वविशेष व्यावर्तयेत् 'न ४९९-२ सामान्यमेव' इत्यविशेषापादनेन यदि चोभयत्वकृतमन्यत्वं 'न सामान्यं च विशेषश्चैव' इति, ततस्तदेकत्वान्यत्वयोरपि विशेषेणाव्यतिरिक्ततायां सत्यामवक्तव्यार्थः संवदेत्, नान्यथा, तेषामेकत्वादिविशेषाणां स्वातन्त्र्ये सति अवक्तव्यत्वनिवृत्तेः, विशेषाणां हि वस्तुपरतन्त्रत्वे सति अवक्तव्यार्थो नियम्यमानः संवदतीत्यत आह--[अ]वक्तव्यत्वस्य नियमत्वात्, तस्य च नियमस्य तथा तथा 20 तेन तेन प्रकारेण सामान्यविशेषैकत्वान्यत्वोभयत्वादीनामात्मान्तरनिवृत्तावात्मान्तरत्वापत्तेविशेष्यमाणस्य नियमत्वादवक्तव्यत्वस्य विशेषत्वमेव, तस्मादव्यतिरिक्तं विशेषादवक्तव्यं वस्तु। यदि पुनविशेषव्यतिरिक्तं स्यात् ततो व्यतिरेकादन्यत्वं विशेषाणां वस्तुनः परस्परतश्चैकत्वादीनां स्यात् । तच्चान्यत्वं न विषहते वस्तु, एकान्तापत्तेरवक्तव्यत्वलोपात्। इष्टं चावक्तव्यं त्वयेत्यत आहततो व्यतिरेकादन्यत्वाक्षान्तेरिति । इत्थं विशेषाव्यतिरेकोपपत्तिरवक्तव्यवस्तुन इति। 25
तथा 'भावोप(वेनाऽऽ) क्रान्तेविशेषकृतैकत्वोभयकृतान्यत्वभावाव्यतिरिक्ततायामवक्तव्यार्थसंवादादवक्तव्यत्वस्य नियमत्वात् तथा तथा "विशेषादव्यतिरिक्तं ततो व्यतिरेकादन्यत्वाक्षान्तेः' इति पठित्वा भाववादिपक्षेऽप्युपपत्तिरव्यतिरेकस्य तथैव योज्या। तथा
१क्तव्यं य० । क्तत्वं भा० ।। २ विशेषावयवस्मात् य० ॥ ३ पृ० ७६१ पं० १०॥ ४ तथास्ति तस्य भा० ।। ५ प्रदर्श्ययत्परमत य० ॥ ६ विशेषा भा० ॥ ७ (परस्परतोऽन्यत् ? ) (परमतेऽन्यत् ? ) ॥ ८ भावाक्रान्तेविशेष इत्यपि पाठोऽत्र सम्भवेत् । ९ क्रान्तवि भा० । क्रान्तवि य० ॥१० विशेषत्वाद् भा० ॥११ तथैवतयोज्या प्र० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org