________________
७७१
[ दशमे विध्यरे
अथ यस्यावक्तव्यस्य एते देशाः सामान्यविशेषैकत्वान्यत्वादयस्तद्विशेषात् किं तदव्यतिरिक्तं व्यतिरिक्तं वा ? अवक्तव्यस्य स्वावयवतथानियमादेव तस्य व्यवस्थानात् ।
न्यायागमानुसारिणीवृत्यलङ्कृतम्
येन येन विकल्पेन यद् यद् वस्तु विकल्प्यते ।
परिकल्पित एवासौ स्वभावो न हि विद्यते ॥ [ त्रिशिका विज्ञ० ]
४९८-२
5 इत्यादि । तत्र कः शब्दार्थ : ? का वा चिन्ता - मयोक्तं सत्यं न त्वयोक्तमिति ? तस्मात् संवृतिसंत्यव्यवहारगोचरत्वाददोषं सर्वमिति ।
अन ब्रूमः --- अपरमार्थस्तर्हि अवक्तव्यत्वम् । कस्मात् ? संवृतिसत्य पदसमुदायार्थत्वात्, यस्त्वया पदसङ्घातोऽर्यैधायि वाक्यमिति शब्दस्तदर्थश्च स संवृतिमात्रार्थत्वादपरमार्थः। दृष्टान्तःमैण्डूकजटेत्यादि । मण्डूकजटाभारेण कृतः केशालङ्कारो नटकेशभारको यस्य वन्ध्यापुत्रस्य [स] 10 मण्डूकजटाभारकृतकेशालङ्कारवन्ध्यापुत्रः, तस्य खपुष्पदाम्ना मुण्डमाला कृता, तस्या आख्यानं 'सुरभिः पञ्चवर्णा स्वाकारगगनकुसुममयी' इत्यादि वर्णनं संवृतिसत्यपदसमुदायार्थत्वान्न परमार्थ स्तथेदं सर्वमपीति नास्त्यवक्तव्यता ।
किञ्चान्यत्, धर्मधर्मोत्यादि । औ विदितमित्थं भवत्यवक्तव्यं वस्तु, प्रतिपादनप्रमाणाभावात् । प्रतिपादनप्रमाणाभावो धर्मधर्मिविभागव्यवस्थाभावात्, तदभावोऽवक्तव्यत्वात् । धर्म-धर्म 15 विभागेन व्यवस्थितौ पुनः समुदितौ पक्षः स्यात्, यथा साध्यधर्मविशिष्टो धर्मी पक्ष:-- अनित्यः शब्द इति । तस्य धर्मिणः कृतकत्वादिरन्यो धर्मो व्यवस्थित एव हेतुः स्यात् । तौ च साध्यसाधनधर्मौ सहितौ धर्म्यन्तरे प्रदर्श्यते यत्र 'यत् कृतकं तदनित्यं दृष्टम्, यथा घट:' इति स दृष्टान्त इतीदं धर्मधर्मविभागव्यवस्थानात्मकं साधनं नोपपद्यते निरस्तधर्मधर्मिविभागव्यवस्थत्वात्, धर्मधर्मनिरसनं ४९९-१ चावक्तव्यत्वाद् भावविशेषैकत्वान्यत्वादिनिरसनद्वारेण वस्तुनस्तस्य च निर्विषयत्वस्यानन्तरोक्तत्वात् । 20 तस्मान्निरस्तधर्म-धर्मिसङ्ग्रहात्मकत्वात् पक्षादि असाधनम् 'खरं खरविषाणम्, स्फुटितपृष्ठत्वात्,
Jain Education International
१ "आध्यात्मिक बाह्यविकल्प्यवस्तुभेदेन विकल्प्यानामानन्त्यं प्रदर्शयन्नाह - येन येन विकल्पेनेति । यद् यद् वस्तु प्रकल्प्यते आध्यात्मिकं बाह्यं वान्तशो यावद् बुद्धधर्मा अपि परिकल्पित एवासौ स्वभाव इति, अत्र कारणमाह-न स विद्यत इति । यद् वस्तु विकल्पविषयस्तद् यस्मात् सत्ताभावान्न विद्यते तस्मात् तद् वस्तु परिकल्पितस्वभावमेव, न हेतुप्रत्ययप्रतिपद्यस्वभावम् । तथाहि एकस्मिन् वस्तुनि तदभावे च परस्परविरुद्धानेकविकल्पप्रवृत्तिर्दृष्टा, न चैकं वस्तु तदभावो वा परस्परविरुद्धानेकस्वभावो युज्यते । तस्मात् सर्वमिदं विकल्पमात्रमेव तदर्थस्य परिकल्पितरूपत्वात् । उक्तं च सूत्रे न खलु पुनः सुभूते धर्मास्तथा विद्यन्ते यथा बालपृथग्जना अभिनिविष्टाः' इति । "इति वसुबन्धुरचितानां त्रिशिका विज्ञप्तिकारिकाणां स्थिरमतिविरचिते भाष्ये [ Bibliothèque de & Ecole des Hautes Etudes ] ।। २ सत्यं प्र० ।। ३ अवक्तव्य कस्मात् य० ।। ४ पृ० ७६२ पं० १ ॥ ५ " मण्डूकजटा - भारकृतकेशालङ्कारवन्ध्यापुत्रखपुष्पमुण्डमालाख्यानवत् सकलमिदमनालम्बनं समयव्यावर्णनं स्यादिति । " - इति तत्स्वार्थसूत्रस्य सिद्धसेनीयवृत्तौ पृ० ३१९, ५।१ ।। ६ धर्मोधर्मीत्यादि प्र० ।। ७ आः विदितम् ' इत्थं भवत्यवक्तव्यं वस्तु' ।। ८ पृ० ७६८ पं० ४॥
For Private & Personal Use Only
www.jainelibrary.org