________________
अवक्तव्यकान्तनिरासः] द्वादशारं नयचक्रम्
७७० अवक्तव्यशब्दस्य तु प्रतिपक्षः सम्भाव्यते, नञ्युक्तत्वात्, अब्राह्मणवत् । अपि च त्वयापि दिक्प्रत्यासत्या वक्तव्योऽर्थ इत्यभ्युपगतम् । स चावक्तव्य एव नञा प्रतिषिध्यते । तस्मादादापन्नो द्विनप्रयोगः प्रतिषेधप्रतिषेधत्वात् प्रकृति गमयति अनब्राह्मणवत् ।
संवृत्यैव वाग्व्यवहार इति चेत्, अपरमार्थस्तावक्तव्यत्वम्, संवृतिसत्यपदसमुदायार्थत्वात्, मण्डूकजटाभारकृतकेशालङ्कारवन्ध्यापुत्रखपुष्पमुण्डमालाख्यानवत् । धर्मर्मि-5 विभागव्यवस्थाऽभावात् पक्षाद्यसाधनत्वात् सम्भावनीयमवक्तव्यत्वं वस्तुनः, नान्यथा।
एवैकान्तग्राहनिषेधेन निगृह्यन्तेऽनुगृह्यन्ते चानेकान्तप्रतिपादनात्, न तद्वदवक्तव्यवादिना भवतामेव तेषामेकत्वादीनामेकान्तभवनं व्यावानेकान्तभवनं प्रतिपाद्यते। तस्मादसत्प्रतिषेधादसमजसोऽयं दृष्टान्त:--वादपरमेश्वरवादवदिति । तत्र ह्यनेकान्तरूपेण 'स्यादैक्यं स्यान्नानात्वम्' इत्यादि वक्तव्या एव सन्तः 'एकान्तरूपेणावक्तव्याः' इत्युच्यन्ते सप्रतिपक्षत्वाद् भावानाम्, तथा ह्याह- 10 ४९८-१
सप्रतिपक्षाण्येतानि यतस्तस्मान्न तानि वाच्यानि ।
एकान्तेन हि वदतो मिथ्यावादः प्रसज्येत ॥ [ ] इति । अत्र साधनमाह नियमविधिनयः---अवक्तव्यशब्दस्य तु प्रतिपक्षः सम्भाव्यते, नञ्युक्तत्वात्, अब्राह्मणवत्। सम्भाव्यमानप्रतिपक्ष एवावक्तव्यशब्दस्तदर्थो वेति पक्षः। नञ्युक्तत्वादिति शब्देऽर्थे च हेतुर्योज्यः, तथा दृष्टान्तोऽपि अब्राह्मणवदिति ब्राह्मणो न भवत्यन्यो वा 15 ब्राह्मणादित्यब्राह्मणः सत्येव ब्राह्मणे प्रतिपक्षे क्षत्रियादिर्भवति तथा प्रतिपक्षे वस्तुनि वक्तव्ये सत्यवक्तव्यशब्दोऽर्थो + वा भवितुमर्हतीति।
अपि च त्वयापीत्यादि । न केवलं सम्भावनयास्मदीयया वक्तव्य[त्वमवक्तव्य]त्वं च वस्तुनः, किं तहि ? त्वयापि अभिजल्पशब्दार्थवा + दिना 'दिवप्रत्यासत्या वक्तव्योऽर्थः' इत्यभ्युपगतम्, अत्र चावयोर्मतिसंवादः, स चावक्तव्य एव त्वन्मत्या योऽभिजल्पेनोच्यतेऽर्थः सोऽवक्तव्य इति र्वक्तव्य एव 20 नञा प्रतिषिध्यते । तस्मादर्थादापन्नो द्विनप्रयोगोऽयम्-अवक्तव्य इत्यवक्तव्यः, स च द्विनप्रयोगः प्रतिषेधप्रतिषेधत्वात् प्रकृति गमयति, अनब्राह्मणवदिति । अथवा कश्चिल्लोके ब्रूयात्-अवक्तव्यो न भवति 'अब्राह्मणो न भवति' इति प्रयोगवत् सोऽनवक्तव्यद्विनप्रयोगात् प्रतिषेधप्रतिषेधत्वात् प्रकृति गमयेदिति । एतेन स्ववचनाभ्युपगमविरोधावुद्भाव्य स्वयं वक्तव्यत्वे साधनमाहेति पिण्डार्थः। संवृत्यैव वाग्व्यवहार इति चेत् । स्यान्मतम्-न शब्द: कञ्चिदर्थं ब्रूते, यथोक्तम्- 25
"विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः।
तेषामत्यन्तसम्बन्धो नार्थाञ शब्दाः स्पृशन्त्यपि ॥ [ ] .. १. एतदन्तर्गतः पाठो भा० प्रतौ नास्ति ।। २ पृ०७६२ पं० ३, पृ० ७६५ पं० १२ ।। ३ वाधयों य० । बाधयो भा०॥ ४ (अवक्तव्य एवं ?) ॥ ५ गात् प्रतिषेधत्वात् य० ॥ ६ धादुद्भा य० । घायुद्धाभा० ॥ ७ पृ० ५४७ पं० ७ टि० ५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org