________________
७६९ न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[दशमे विध्यरे भयत्वादावपि । इत्येकत्वादिप्रतिषेधाः किम्? कथमवक्तव्यम्? ते तु निषेध्यानामतथात्वे निर्मूलत्वादवक्तव्यमेव व्यावर्तयन्ति ।
__न, पराभिप्रायगतैकत्वाद्येकान्तव्यावर्तनार्थत्वात् । अथ त एकत्वादयो विद्यमाना: प्रतिषिध्यन्ते ततस्तत्रावक्तव्यत्वनिविषयता । अथाविद्यमानाः कथं परेण प्रतिपन्नाः ? 5 न ह्येषां भवतैकान्तभवनं व्यावानेकान्तभवनं प्रतिपाद्यते वादपरमेश्वरवादवत् ।
गतार्थं यथाव्याख्यातमेकत्वान्यत्वयोः परस्परप्रतिपक्षत्वात् तयोभयत्वानुभयत्वयोश्चेति । एवं तावदेकत्वं सिद्धप्रतिपक्षबलात् सिद्धं सद् व्यावय॑ते नान्यदेत्यवक्तव्यनिविषयता वान्यथेत्युक्तम् ।
__ अनेन शेषमुक्तं भवतीत्यतिदिशति--एवमन्यत्वोभयत्वादावपीति । आदिग्रहणादनुभयत्वे वायं न्यायोऽवतार्यः । न तावद् भावस्य विशेषस्य उमयस्य वा कथञ्चिदपि प्रविभागतोऽरविमागतो 10 वान्यत्वमस्ति उभयत्वमस्ति इत्युपक्रम्य अन्यत्वासिद्धानेकत्वाभावमुमयत्वाभावमुभयत्वासिद्धौ चैकत्वान्यत्वाभावं वाऽऽपादयित्वा भावयितव्यमिति । ... तदुपसंहरति--इत्येकत्वादिप्रतिषेधाः किं कथमित्यादि यावद् व्यावर्तयन्तीति । एवमुक्तविधिना एकत्वादिप्रतिषेधाः किम् ? के ते प्रतिषेधाः ? न भवन्तीत्यर्थः । तत्प्रतिषेधाभावात्
कथमवक्तव्यमिति निरुपपत्तिकं निविषयं चेत्यर्थः। ते तु एकत्वादिप्रतिषेधा निषेध्यानामतथात्वे 15 निषेध्यत्वाभावे 'निर्मूला निर्मूलत्वादवक्तव्यमेव व्यावर्तयन्तीति। ४९७-२ अनाह-न, पराभिप्रायगतैकत्वाद्येकान्तव्यावर्तनार्थत्वात् । न निर्मूलाः प्रतिषेधाः, न च
निविषयमवक्तव्यम्, एकत्वादिप्रतिषेधतथार्थत्वात् । ते हि पराभिप्रायगतानामेकत्वादीनां प्रतिषेध्यानामेकान्तानां व्यावर्तनार्थाः, तस्माददोष इति ।
अत्रोच्यते - अथ त एकत्वादय इत्यादि] यावत् कयं परेण प्रतिपन्ना इति । यदि ताव20 देकत्वादयः परेण यथा विद्यन्ते तथैव प्रतिपन्नाः सन्तः प्रतिषिध्यन्ते ततस्तत्रावक्तव्यत्वनिविषयतोक्ता। .४ अथाविद्यमाना अत्यन्तमभूतत्वात् खपुष्पवदसन्तस्ते कथं प्रतिपत्तुं शक्यन्ते ? अंतोऽप्रतिपन्नत्वादेव न प्रतिषेध्या इति प्रतिषेधानुपपत्तिः ।
स्यान्मतम्--स्याद्वादेऽपि सामान्य-विशेषयोः किमेकत्वं नानात्वमुभयत्वमनुभयत्वमवक्तव्यत्वम्? इति पृष्टे प्रतिषेधाः क्रियन्ते-नेकत्वं नान्यत्वं नोमयत्वं नावक्तव्यत्वम्, किं तहि? स्यादेकत्वं 25 स्यादन्यत्वं स्यादुभयत्वं स्यादनुभयत्वं स्यादवक्तव्यमित्यादि । एतच्चायुक्तं तद्वैधादिति तद्दर्शयतिन येषां भवतेत्यादि । स्याद्वादो हि वादानामीष्टे निग्रहानुग्रहसमर्थत्वात्, तस्मिश्चैकत्वादयो भवन्त
१ प्रत्यक्ष य० ।। २ व्यावर्तते य० ॥ ३ नान्यवेत्य भा० ।। ४ पादयिता भावयितमिति प्र० ॥ ५ कथयमित्यादि प्र०॥ ६ निर्मूलान्निर्मूलत्वाप्र०॥ ७ वर्तकार्थत्वात् न निर्मूलाः भा० । वर्तकार्यत्वात् नर्मूलाः य० ॥ ८ ते भि पराभिप्रायगतामेकत्वा प्र०॥ ९ नोप्रति प्र०॥ १० नानात्वं य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org