________________
पूर्वनयमतनिरासः ]
७६८
कथम्? एकशब्दो ह्यन्यनिरपेक्ष संख्यार्थोऽप्रविभागकशब्दार्थत्वात् । स च न घटते एकत्वान्यत्वोभयत्वानुभयत्वविकल्पानामन्योन्यापेक्षत्वात् । अथासहायवचन एकशब्दस्तथापि सहतेद्वर्याद्यर्थेनाव्यतिरेकादेकत्वं नास्ति । अन्यार्थे तु साक्षादन्यत्वमेव विशेषविषयम् । तथा चानन्यत्वमपि प्रतिपक्षाक्षेपादवक्तव्यनिर्विषयता वान्यथा । एवमन्यत्वो
द्वादशारं नयचक्रम्
स्यान्मतम्– अन्यत्वं सिद्धम्, तद्बलेनैकत्वोभयत्वादि प्रतिषिध्यत इति । तच्च नान्यत्वं सिद्धम्, 5 तथैव प्रविभागतो ऽप्रविभागतो] वान्यत्वं नास्ति घट - पटयोरिव जीव- शरीरयोरिव वा सम्भाव्यमानम्, त्वयैव तस्यापि निषिद्धत्वात्, यद्बलेनान्यत्वद्वारेणानुभयत्वं व्यावर्त्यतैकत्वं वा । ४९६-२
तथानुभयत्वमपि नास्ति एकत्वान्यत्वयोर्लक्षणभेदनियमादित्युक्तम् यद्बलेन एकत्वान्यत्वोभयत्वानि व्यावर्ते [यें] रन्, येस्य वाच्यतां गृहीत्वेति इदं वाच्यमेकत्वमन्यत्वमुभयत्वं वा दृष्टमिदं तु तन्न भव[ती]त्यवाच्यं तथेदं वाच्यमनुभयं तद्वत् तानि न वाच्यानीत्य ( ति ) वाच्यबलाद - 10 वाच्यं वा व्यावर्त्यत इतरव्यवस्थापूर्वत्वादितरव्यावर्तनस्यान्वयव्यतिरेकाभ्यामर्थाधिगमाच्च ।
कथमिति तत् कथं भाव्यते ? इति पृच्छति । उच्यते - एकशब्दो हयन्यनिरपेक्षसङ्खयार्थीप्रविभागकशब्दार्थत्वात्, हिशब्दो यस्मादर्थः यस्मादेकशब्दः सङ्ख्यावाचित्वेऽन्यनिरपेक्षां सङ्खयां सैङ्खयेयप्राधान्येनाह–सङ्ख्यान्तरव्यावर्तनार्था (र्थ ) म् 'एकोऽयं न द्वि-व्यादयोऽर्थाः' इति लोके तस्मात् 'एक:' इत्युक्ते 'नान्योऽस्ति' इत्युक्तं भवति, स चार्थो न घटते, न स निरपेक्षः, यस्माद् एकत्वान्य- 15 त्वोभयत्वानुभयत्वविकल्पानामन्योन्यापेक्षत्वात् प्रागुक्तविधिना ।
अथासहायवचन एकशब्दः । अथ मा भूदेष दोषोऽन्यनिरपेक्षसङ्ख्यार्थत्वकृत इत्यसहायवाची विकल्प्येतैकशब्दस्तस्मादस्त्येकत्वम्, तदस्तित्वादन्यत्वाद्य प्यस्तीत्य वक्तव्यविषयसद्भावसिद्धिरिति । अत्र ब्रूमः —– तथापीत्यादि, 'सहैति' इति सहायः, सहाऽयनं सहगतिर्द्वयोर्बहूनां वा भवतीति सहगतेद्वर्घाद्यर्थेनाव्यतिरेकादेकत्वं नास्तीति तदवस्थमवक्तव्याविषयत्वम्, किन्तु अन्यत्वमेव च सिध्ये- 20 दिति पुनरन्यत्वमेव । एवमेकशब्दोऽर्थापत्त्यान्यत्ववाचीत्युक्तम् ।
४९७-१
अथ 'अन्य एक:, सोऽपि ततोऽन्य एक:, ' इत्येकशब्दोऽन्यार्थवाची ततोऽन्यार्थे तु साक्षादन्यत्वमेव विशेषविषयम्, ततोऽन्यत्वनिषेधोऽतिस्फुट एव स्ववचनविरोध इत्युक्तम् । किञ्चान्यत्, तथा चानन्यत्वमपि । यथा चैकशब्दोऽस्मदुक्तन्यायेनान्यत्वे वर्तते तेन प्रकारेण तथानन्यत्वमपि सिध्यति, अनन्यत्वेन विनान्यत्वस्याभावात् । तत आह- प्रतिपक्षाक्षेपादिति 25
१ व्यावृत्त्यें भा० । व्यावृत्ते य० ॥ २ तस्य भा० ।। ३ वा च्या वर्त्येतरव्यवस्था पूर्वस्थादितर य० ॥ ४ योंप्रविभाग एक य० । यत्रिविभाग एक भा० ॥ ५ संख्यमप्रा भा । संख्येनप्रा य० । ६ ने प्र० ।। ७द्दपी प्र० ।। ८ तथातीत्यादि य० ।। ९ द्यर्थेन व्यतिरे य० । द्यतिरे भा० ॥। १० एकमेवशब्दो प्र० ॥ ११ पृ० ७६६ पं० ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org