SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ७६७ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [दशमे विध्यरे ननूभयतोऽपि प्रतिषेधाददोषः । किंविषया तीवक्तव्यता? न तावद् भावस्य विशेषस्योभयस्य वा। एकत्वान्यत्वोभयत्वानुभयत्वानि प्रविभागेनाप्रविभागेन वा स्युः । अप्रविभागतस्तावदेकत्वं नास्ति प्रतिषिद्धत्वात्, प्रविभागतोऽपि नास्ति निषिद्धत्वादेव। सिद्धे चैकत्वे तदबलेनान्यत्वं व्याव]त । तथैव प्रविभागतोप्रविभागतो वान्यत्वं नास्ति 5 यद्बलेनानुभयत्वं व्यावयेतैकत्वं वा। तथानुभयत्वमपि नास्ति यबलेनैकत्वान्यत्वोभयत्वानि व्याव]रन्, यस्य वाच्यतां गृहीत्वाऽवाच्यं वा व्यावत। रूपं न भवति + इत्यादीतरेतराभूतेवि (वि) शेषगुंगः अन्योऽन्यो न भवतीति समुदायकृतादेकत्वाद् भ्रान्तिहेतुकात् पृथगेकत्वविलक्षणं विविक्तं विशेषविषयं प्रतिपादयितुं विशेषस्य भावपृथग्भूतं रूपमाख्येयम् इत्यादिना पृथगेकत्वमन्यत्वं विशेषाणां स्वरूपेणावधारयितव्यमिति वचनादेवान्यत्वं 10 समर्थितम्, अतोऽन्यत्वप्रतिषेधोऽतिस्फुट एव स्ववचनविरोधो दार्टान्तिकोपसंहारेऽपीति। ४९६-१ ब्रूयास्त्वम्-ननूभयतोऽपि प्रतिषेधाददोषः । एकत्वं प्रतिषिध्य पुनरन्यत्वमपि प्रतिषिद्धमेव, तथोभयत्वमनुभयत्वं च प्रतिषिध्यावक्तव्यतैव समर्थितेति । अत्रेदमसि त्वं प्रष्टव्य:--किविषया तयवक्तव्यता? यद्युभयप्रतिषेध एव कतमत् तद्वस्तु यदवक्तव्यम् ? किं तद् भावो विशेष उभयं वा? इति निर्धार्यम्, वस्तुत्वे सति विकल्पत्रयानतिवृत्तेः । तत्र न तावद् भावस्य, न विशेषस्य, 15 न उभयस्य वा, नकारानुवर्तनात् । भावस्य एकत्वान्यत्वोभयत्वानुभयत्वानि प्रविभागेनाप्रविभागेन वा स्युः । अप्रविभागेनैकत्वं यथा-पुरुष एवेदं सर्वम् [शुक्लयजु. सं. ३१।२] इत्यादि । प्रविभागेन सति द्वितीये तेन सहासम्पर्कादेकं स्यात्, यथा न सिंहवृन्दं भुवि भूतपूर्वमाशीविषाणामपि नास्ति वृन्दम्। एकाकिनस्ते विचरन्ति धीरास्तेजस्विनां नास्ति सहायकृत्यम् ॥[ 20 इत्येकशब्दस्यासहायार्थत्वात् ।। . अप्रविभागतस्तावदेकत्वं भावस्य विशेषस्य उभयस्य वा नास्ति, द्वितीयरहितस्य रूपाख्यानाशक्यत्वेन त्वयव प्रतिषिद्धत्वात् । प्रविमागतोऽपि नास्ति 'सहांसहभवनस्य द्विष्ठत्वात्' इत्यादिना निषिद्धत्वादेव । तथा विशेषस्योभयस्य चैकत्वं नास्तीत्युक्तम् । सिद्धे चैकत्वे तबलेनान्यत्वं - व्याव]त, संम्भाव्यतैकत्वं परिगृह्य तद्द्वारेण तदुपायेनान्यत्वस्य व्यावर्तनम्, तत्तु नास्त्यैकत्वम्, 25 तदभावादन्यत्वप्रतिषेधाभावः । • १ गणः भा० ॥ २ पृ० ७५६ पं० ६ ॥ ३ * * एतदन्तर्गतः कत्व""वधा' इति पाठो भा० प्रतौ नास्ति । ४ न्यत्व विशे य० ॥ ५ पृ०७६८ पं०२३ ॥ ६ कतमवस्तु य० ॥ ७ पृ०७१ टिपृ० ५९ पं० २॥ ८ 'एकाकिनस्ते विचरन्ति वीराः' इति तत्त्वार्थराजवातिके १।५।३० ।। ९ १० ७५६ पं० २॥ १० सम्भाव्यते चैकत्वं य०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy