________________
पूर्वनयमतनिरसनम् ]
द्वादशारं नयचक्रम् . ह्यन्यदन्यसाधारणम्, सामान्यविशेषकत्वान्यत्वानवस्थिततत्त्वघटपटसंवृतिवत् अनिरूप्यस्त्वसन्नापद्यतेत्यादि । तदेतत् पुनस्त्वयैवापोदितं 'ननु ज्वाला देशे' इत्यन्यत्वं स्फुटीभूतमपि 'तद्वा कुतोऽनिन्धनम्? ज्वालारूपमिन्धनसहितमेव' इति ब्रुवता। . उपसंहारेऽपि यदुक्तं विशेषस्य भावपृथग्भूतं रूपमाख्येयम्.............. एतदपि त्वयैवापोदितमन्यत्वप्रतिषेधवचनम् । ननु भवद्विशेषसमुदायकृतमेकत्वं रूपरसादि-5 घटैकत्वविशेषवत्, अतोऽन्यत्वप्रतिषेधोऽतिस्फुट एव स्ववचनविरोधः।
ख्येयम्' इत्यादिना च प्रतिषिद्धं सोऽपि च प्रतिषेधोऽप्रत्ययः । तं प्रतिषेधग्रन्थं दर्शयति अप्रत्ययत्वेन यथोक्तम्-अंग्नेरिन्धनपृथग्भूतमित्यादि यावदसन्नापद्यतेत्यादि । आदिग्रहणात् सयुक्तिकं सर्व ग्रन्थं सन्दिशति । तदेतत् पुर्नस्त्वया स्वयमेवापोदितं निराकृतम् । कथम् ? इति चेत्, उच्यतेननु ज्वाला देशे, यत् तदिन्धनपृथग्भूतं रूपमग्नेः पृच्छ्यते तज्ज्वाला आकाशदेशे गृहाणेति निरूपणेना-10 न्यत्वं स्फुटीभूतमपि पुनः तद्वा कुतोऽनिन्धनम् इत्यनिन्धनप्रत्याख्यानेन ज्वालारूपमिन्धनसहितमेव इति ब्रुवता । तथा चेदमुक्तं भवति - अदीप्यमानं प्रागॅनिन्धनमकाष्ठं च सद्दारूदकादि पश्चाद् दीप्तिस्वभावमिन्धनं काष्ठं भवतीति । तच्च यत्सम्पर्कादिध्यते दीप्यते च दारूदकादि [तत्] ४९५-२ तस्याग्ने रूपमिति । एतच्च अन्यत्वप्रतिषेधार्थ वचनमन्यत्वमेव समर्थयति अतोऽप्रत्ययम् । यद्यन्यत्वं समर्थितमेव परिगृह्येत स्यात् सप्रत्ययम्, न तु परिगृहीतम् । तस्मादन्यत्वप्रतिषेधोऽप्रत्ययः, तत्समर्थनात् । 15 एवं दृष्टान्तवर्णनऽयंत्वप्रतिषेघोऽप्रत्ययः ।
__ किञ्चान्यत्, उपसंहारेऽपीत्यादि। भाव-विशेषयोरेकत्वं प्रतिषिध्यान्यत्वं व्यवस्थाप्य तत्प्रतिषेधिदार्टान्तिकोपसंहारे यदुक्तं "विशेषस्य भावपृथग्भूतं रूपमाख्येयम् इत्यादि तमेव ग्रन्थं तदुक्तं दर्शयति, एतदपि त्वयैवापोदितमन्यत्वप्रतिषेधवचनम् ।
कथम्? इति तद्दर्शयति-ननु भवद्विशेषेत्यादि। ननु विशेषा एव भवन्ति, न सामान्यं नाम 20 किञ्चिदस्ति । ते च विशेषा एव भवन्तः समुदिता ‘एकम्' इत्युच्यन्ते। नैकं किञ्चिदनेकात्मकं वस्तु, किं तहि ? एकैक एवैको विशेषोऽन्योऽन्यो भवतीति परमार्थः प्रणिधानवद्भिरभ्रान्तैरवगम्यते, भ्रान्तास्तु विशेषा एव भवन्तः समुदिता एकश ‘एकम्' इत्युपासते। किमिव ? रूपरसादिघटैकत्वविशेषवत्, यथा रूप-रस-गन्ध-स्पर्श-सङ्ख्या संस्थानादयो धर्मा विविक्ता भिन्नेन्द्रियग्राह्याः समुदिता ‘एको घटः' इत्युच्यन्ते तथा भ्रान्त्या समुदायकत्वे[5]सत्यपि विशेषा एव रूपं रसो न भवति रसोऽपि 25
१ पृ० ७४७ पं० ३ ॥ २ स्तयोः य० ॥ ३ पृ० ७४८ पं० २॥ ४ कुतोऽनिबन्धनम् प्र० । पृ० ७४८ पं० २ ॥ ५ निबन्धन प्र०॥ ६ तच्च संसर्गाविध्यते य० ॥ ७ एव य० ॥ ८ न्यत्र प्रति प्र०॥ ९ तत्प्रतिषेधे य० ॥ १० पृ० ७५६ पं० ६ ॥ ११ न्यो भव' भा० ॥ १२ भवन्तुः भा०। भवन्तु य० ॥ १३ 11 एतदन्तर्गतः पाठो य० प्रती नास्ति ॥ ....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org