________________
SARITAMARHTTTTTTTrerani
ॐ अर्ह ॥जयन्ति श्रीपार्श्वजिनेन्द्राः॥
अथ दशमो नियमविध्यरः। नैवंविधो नियमो युज्यते स्ववचनविरोधादिदोषादनेकावस्थापत्तावनियतत्वाच्च । तद्यथा-इदं तत् तदेवोद्यते तदेव चापोद्यते त्वया। ततश्चासत् तत्, स्वयंविहितनिवर्तित्वात्, सर्वोक्तानृतत्वपक्षवत् । एकत्वादि प्रतिषिध्य व्यवस्थाप्य च परस्परतः
पुनश्चापोद्यते । 5 दृष्टान्ते यदुक्तम् 'अग्नेरिन्धनपृथग्भूतं रूपमाख्येयम्' इत्यादिना च प्रतिषिद्धं सोऽपि च प्रतिषेधोऽप्रत्ययः, यथोक्तम्- 'अग्नेरिन्धनपृथग्भूतं तत्त्वमशक्यं दर्शयितुम, न
विध्यादिसकलभङ्गात्मकसम्यग्दर्शनाधिकारे वर्तमाने विकलनयस्वरूपज्ञानमूलत्वात् सम्यग्दर्शनस्य विध्युभयविकल्पचतुष्टयात्मको मार्गों व्याख्याय नियमविकल्पचतुष्टयात्मके तृतीये मार्गे वर्तमाने तत्र नियमभङ्गं प्रथममुक्त्वा 'अभिजल्पशब्दार्थत्व]माभिमुख्येन दिक्प्रत्यासत्त्या न साक्षाद् वस्तुनः 10 सामान्यविशेषयोरेकत्वान्यत्वाद्यनेकदुरुप (रव) धारावस्थत्वादवक्तव्यता' इत्यनन्तरं नियमनयेऽभिधानात्
अत्राप्यपरितुष्यन् नियमविधिभङ्गारस्त्वाह-नैवंविधो नियमो युज्यते स्ववचनविरोधादिदोषा
दनेकावस्थापत्तावनियतत्वाच्च, इदं हि त्वदीयं वचनं लोकाभाणक एव संवृत्तः। तद्यथा-इदं ४९५-१ तत्तदेवोद्यते तदेव चापोद्यते त्वया, तदेव वैदि]स्यपवदसि चेत्यर्थः। ततः किम् ? ततश्चासत्
तदशोभनं नास्ति वेत्यर्थः। कस्मात् ? स्वयंविहितनिवतित्वात्, आत्मना विहितमेव निवर्तयितुं 15 शीलमस्येति स्वयंविहितनिवति त्वद्वचनम्, तद्भावात् स्वयंविहितनिवर्तित्वात् । किमिव ? सर्वोक्ता
नृतपक्षवत्, यथा 'सर्वमुक्तमनृतम्' इति वदता यदेवोदितं 'सर्वमुक्तमनृतम्' इति विधिना तदेवानृतत्वेन व्याप्तत्वात् प्रतिषिध्यमानमपोद्यते तथेदमपि त्वदीयं 'सर्वमवक्तव्यम्' इति ।
एतस्य प्रतिपादनार्थमेकत्वादि प्रतिषिध्य व्यवस्थाप्य च परस्परतः पुनश्चापोद्यते । तद्यथा - प्रागेव तावत् सामान्य-विशेषयोरेकत्वे प्रतिषिद्धेऽन्यत्वमुपस्थितमर्थात्, तद्वलेन प्रतिषेधात् । 20 तदन्यत्वं विधाय पुनः प्रतिषिद्धम् ।
कथं प्रतिषिद्धम्? इति चेत्, उच्यते-तद्यथा -दृष्टान्ते यदुक्तम् 'अग्नेरिन्धनपृथग्भूतं रूपमा१ पृ० ७६२ पं०. ३, पृ० ४९८-२ ॥ २ नियमनयो मिधानात् भा० । नियमनयोभिधात् य० ॥ ३ बस्यपवदमिवेत्यर्थः भा० । वश्यपवदमिवेत्यर्थः य० ॥ ४ वदतो प्र०॥ ५ पृ० ७४७ पं० २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org