________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
. [नवमे नियमारे एवमेव च 'भावयुक्तवाची' इति युज्यते यदवक्तव्यमिति पर्यवणमात्रमाह ।
शब्दनयदेशत्वात् पर्यवास्तिक एषः । भुवो भिन्नधात्वर्थवाचित्वात् पर्यवति भवतीति ४९४-१ एवमेव चेति यदपि लक्षणकारेण शब्दनयलक्षणमुक्तम्-नाम-स्थापना-द्रव्यवाच्येष्टाकर___णाद् भावयुक्तवाची शब्दः [ ] इति, भावः पर्यायो नियमो गुणो वा, तद्युक्तवाची 5 तद्युक्तमयं ब्रूते इति शब्दनयमतं तदपि एवं युज्यते यदवक्तव्यमिति पर्यवणमात्रमाह, सामान्यविशेषकत्वान्यत्वानेकात्मकस्य वस्तुनो वाचा वक्तुमशक्यत्वात् ।
शब्दनयदेशत्वात् पर्यवास्तिक एषः, तस्स तु सद्दविकप्पा साह-पसाहा सुहुमभेदा [सन्मति. १५] इति वचनाच्छब्दनयेऽन्तर्भूतः। किं कारणं भावयुक्तवाचित्वे पर्यायग्रहणं न सामान्यग्रहणं भाव10 शब्दस्य सामान्यवाचित्वे ? इति चेत्, उच्यते-भुवो भिन्नधात्वर्थवाचित्वात्, भूवादयः सर्वधातवो
अवर्थे, भूवादय इति वदेरौणादिक इञ्प्रत्यये भूवादयः सर्वधातवः । तस्मान सत्तार्थ एव भूः, भू-कृषोः सर्वधात्वर्थवाचित्वात्। पर्यवति भवतीति भावः, पर्यवणं च प्रवेशनम्, अव रक्षण-गति-कान्तिप्रीति-तृप्त्यवगमन-प्रवेश-श्रवण-स्वाम्यर्थयाचन-क्रियेच्छा-दीप्त्यवाप्त्यालिङ्गान-हिंसा-दहन
भाव-वृद्धिषु [पा० धा० ६००] इति पठितत्वाद् भावः पर्यवः प्रवेशः। समन्तादवः पर्यव इति परि15 शब्दः समन्तादर्थः, अवशब्दः प्रवेशार्थः । तद् वस्तुतो दर्शयति-समन्तात् प्रविशति एकतामन्यता
मुभयतामनुभयतां च योऽर्थः स पर्यवः, अस्ति' इत्यस्य मतिरास्तिकः, पर्यवे आस्तिकः पर्यवास्तिक इति मूलसंज्ञास्य नयस्य शब्दस्य। माह-सामान्यार्थ इति । इह "देवदत्त गामभ्याज शुक्लां दण्डेन" [पा० म० भा० १1१1१] इति देवदत्तादीनि पदान्येव वाक्यम् । तत्र देवदत्तपदं तावद् यदि सामान्यमाने प्रथमं वर्तते तत्तस्य गवादिपदकाले वाचः क्रमवर्तित्वात् तिरोधानादसत्त्वमेवेति कुतः पदान्तरश्रवणकाले तदर्थप्रतीतिः । असत्त्वादेव च न पदान्तरसन्निधाने तस्य विशेषेऽवस्थानम् ? अभ्यपगम्यापि स्मर्यमाणतया पदान्तरसंनिधाने विद्यमानत्वं पदस्य न विशेषेऽवस्थानं युज्यत इत्याह-उपात्तस्येति । सामान्यलक्षणस्य सकलपदार्थसाधारणस्यार्थस्य पूर्वमुपात्तस्य वाच्यत्वेन परिगृहीतस्येदानी पदान्तरसंनिधाने त्यागः कुतो . युज्यते, शब्दार्थसम्बन्धस्यानित्यताप्राप्तेः ? न च तथा मीमांसकस्याभ्युपगम इति । तदप्यभ्युपगम्योच्यते-निवृत्त इति । स्वार्थानिवृत्तोऽसौ पदान्तरसंनिधाने शब्दः क्वेदानीमवतिष्ठताम् ? शब्दान्तरबोध्येऽर्थे तस्य वाचकभावविरहात् स्थितिः कथं युज्यते ? ॥"-इति वृषभदे विरचितायां वाक्यपदीयवृत्तौ ॥ ४ पृ० ७६५, पं० ९॥
१ पृ० ५८९ पं० ९, पृ० ५९६ पं० ८॥ २ वाचा वा वक्तु भा० ॥ ३ स्वार्थ प्र० । दृश्यतां पृ० २४४ पं०३ टि०३ ॥४ भगतो. प्र०॥ ५ एत एवार्था अग्रेऽपि पु. ५४७-२ इत्यत्र वक्ष्यन्ते । हैमधातुपारायणेऽपि एत एवार्था दर्शिताः । सम्प्रति प्रचलिते पाणिनीयधातूपाठे माधवीयधातुपाठे च “अव रक्षणगतिकान्तिप्रीतितप्त्यवगमनप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु" इति पाठ उपलभ्यत इति ध्येयम् । दृश्यतां पृ० ४५१ टि० २ ॥ ६ लवण भा० ॥ ७ अस्तांत्य मति य० । आस्तांत्य मति° भा० । दृश्यतां पु० ७५०११"अस्तिनास्तिदिष्टं मतिः ४।४।६० । 'तदस्य' इत्येव 'अस्ति परलोकः' इत्येवं मतिर्यस्य स आस्तिकः । 'नास्ति' इति मतिर्यस्य स नास्तिकः। 'दिष्टम्' इति मतिर्यस्य स दैष्टिकः।"-पा० सिद्धान्तकौमुदी।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org