________________
वाक्यार्थप्रतिपादनम् ] द्वादशारं नयचक्रम्
७६२ सङ्घातो वाक्यम्, 'देवदत्त गामभ्याज शुक्लाम्' इति प्रत्येकवृत्तिसामान्यविशेषकत्वान्यत्वानेकार्थस्थत्वात् ।
एवं च कृत्वा दिक्प्रदर्शनमात्रेण शब्दोऽर्थप्रत्यासत्या 'ब्रवीति' इत्युच्यते ।
वाक्यार्थस्तहि कः? वाक्ये जाते वाक्यार्थो ज्ञायत एवेत्याह-सङ्घातो वाक्यम् । वर्णसङ्घातः पदम्, एकाक्षरस्यापि स्वरव्यञ्जनसङ्घातत्वात् । पदसङ्घातो वाक्यम् । कस्मात्? इति चेत्, उच्यते-5 'देवदत्त गामभ्याज शुक्लाम्' इति प्रत्येकवृत्तिसामान्यविशेषकत्वान्यत्वानेकार्थस्थत्वात्, यस्माद् देवदत्तादीनि [पदानि] पदार्थसामान्ये प्रत्येकं वर्तमानानि विशिष्टसंसर्गेऽर्थे वर्तन्ते स वाक्यार्थः, यथोक्तम्-सामान्यवर्तिनां पदानां विशेषेऽवस्थानं वाक्यार्थः [
], तयोश्च सामान्यविशेषयोरेकत्वान्यत्वोभयत्वानुभयत्वाद्यनेकात्मकार्थत्वस्यावचनीयत्वेन परिग्रहादनेकार्थे स्थितः शब्द एकरूपेणावधारयितुमशक्यत्वादवक्तव्यस्तदर्थ इति ।
एवं च कृत्वा यदप्युक्तम्. सामान्यार्थस्तिरोभूतो विशेषो नोपजायते।
उपात्तस्य कुतस्त्यागो निवृत्तिः क्वावतिष्ठताम् ॥ [वाक्यप. २०१५] इति, तदपि प्रत्युक्तमेव यथाविचारितनिश्चितमवक्तव्यं सर्वथा वस्त्विति दिवप्रदर्शनमात्रेण शब्दोऽर्थप्रत्यासत्त्या विज्ञानाधानमात्रेण 'ब्रवीति' इत्युच्यते ।
10
15
१ इदानीमभिहितान्वयपक्षसमाश्रयणेन संघातपक्षस्य प्रदर्शनायाह-केवलेन पदेनाओं यावानवाभिधीयते । वाक्यस्थं तावतोऽर्थस्य तवाहुरभिधायकम् ॥ सम्बन्धे सति यत्त्वन्यदाधिक्यमुपजायते। वाक्यार्थमेव तं प्राहुरनेकपदसंश्रयम् ॥ [वाक्यप० २।४१-४२], केवलेनेति । केवलं पदं यस्यैवार्थस्य वाचकं वाक्यस्थमपि तदेवाभिदधाति । तत: समुदाये पदानां परस्परान्वये पदार्थवशाद् यदाधिक्यं संसर्गः स वाक्यार्थः । उक्तं च-"यदत्राधिक्यं वाक्यार्थः" सः [पा०म० भा० २।३।४६] इति । अनेकपदसंश्रयमित्यनेन सङ्घातो वाक्यमिति दर्शितम् । वाक्यार्थस्य चास्य जातिवत् प्रत्येकपरिसमाप्तिः, केषाञ्चिन्मते संख्यादिवत् समुदायपरिसमाप्तिरिति पक्षद्वयं दर्शयितुमाह-स त्वनेकपदस्थोऽपि प्रतिभेवं समाप्यते। जातिवत, समदायपि संख्यावत कल्प्यते परैः॥ [वाक्यप० २।४३"-इति वषभदेवविरचितायां वाक्यपदीयवृत्तौ ॥२ भयत्वाद्यनका य० ॥ ३ सामान्योऽर्थ य० । सामान्योर्थ भा० । “देवदत्तादीनां च भागाभिमतानामर्थयोगाभ्युपगमे सामान्येऽवस्थितानां पदानां विशेषेवस्थानमित्येतस्मिन् सत्येकान्ते परिगृह्यमाणे सामान्यार्थस्तिरोभूतो न विशेषेऽवतिष्ठते। उपात्तस्य कुतस्त्यागो निवृत्त. क्वावतिष्ठताम् ॥ [ वाक्यप० २।१५ ], इह सामान्यवृत्तिरुच्चारितो देवदत्तादिशब्द: सामान्यार्थसम्बद्ध एव तिरोभवति । तत्र येन शब्देनाविर्भावकाल एव विशिष्टोऽर्थो न प्रतिलब्धः स शब्द: सामान्यार्थः तिरोभूतो विशेषेऽवस्थातुं न पुनरुत्सहते । न च सामान्यविशेषयोविवक्षा युगपत् संभवति। विशेषविवक्षायां हि सर्वस्यानियमेन सामान्यादवच्छेदो विज्ञायते। तत्रोपात्तस्य नित्ये शब्दार्थस बन्धे कुतस्त्यागः ? युक्तिनिरूपणेषु चार्थात्मसु अभिधानक्रियायोगाभावे विनिवृत्तोऽनवधार्यमाणात्मा शब्द: शब्दोपक्रमस्यार्थस्याभावादविषयः क्वावस्थाप्यताम् ।" इति भर्तृहरिरचितायां वाक्यपदीयस्ववृत्तौ । " यत् पुनर्मीमांसकरुच्यते यथा पदसंघात एवाकांक्षायोग्यतासन्निधानवशात परस्परसमन्वितो वाक्यं संसर्गश्च वाक्यार्थ इति तद् दूषयितु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org