SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ प्रत्यरं प्रारम्भे | ॐ अर्हम् | इत्यादयो मङ्गलशब्दा अस्माभिर्योजिताः, ततः परं स्थूलाक्षरैर्मुद्रितं नयचक्रमूलं टीकान्तर्गतप्रतीकादीननुसृत्य अस्माभिः संकलितम् । अधस्तात् टिप्पणानि Foot-notes अस्माभिर्योजितानि । प्रथमविभागे ग्रन्थमुद्रणानन्तरं टिप्पणानि (पृ. १-१६६) अस्माभिर्योजितानि । अवशिष्टं सर्वमपि नयचक्रटीकाया हस्तलिखितादर्शानवलम्ब्यैव मुद्रितमिति विदांकुर्वन्तु विद्वांसः । नयचक्रतृतीयारस्य टीकायाः प्रारम्भे (पृ. २४६ पं. ७) नयचक्रवृत्ती दृश्यमानः " कमलदलविपुलनयना कमलमुखी कमलगर्भसमगौरी । कमले स्थिता भगवती ददातु श्रुतदेवता सिद्धिम् ॥" इति श्लोकः टीकाकृता स्वयं लिखितो न भाति, टीकाकृता प्रत्यरं कस्यचिदपि मङ्गलस्यानिबद्धत्वात् । द्वितीयारस्य समाप्तौ तृतीयारस्य प्रारम्भे वा केनचिदन्येन मङ्गलरूपोऽयं श्लोको लिखितो भवेत्, स च कालान्तरेण वृत्त्यन्तर्गतभागरूपः सञ्जातो भवेदिति प्रक्षिप्तत्वमस्य श्लोकस्य वयं सम्भावयामः । उपकारस्मरणम् अस्य ग्रन्थस्य संशोधने मुद्रणे च यैविविधरीत्या साहायकमनुष्ठितं तेषां पूज्यपादानां प्रातःस्मरणीयानामनन्तोपकारिणां फ्तृिचरणानां तथा सद्गुरुदेवानां मुनिराजश्री भुवनविजयजीमहाराजानामनन्तमुपकारं वर्णयितुं शब्दा एव न सन्ति, कल्पना अपि तं स्प्रष्टुमसमर्थाः । सदैव तेषां चरणेषु शरणं प्रपद्ये । स्थूलदेहेन सम्प्रति ते न सन्ति, तथापि तेषां कृपया साहाय्याच्चैव कार्यमिदं सम्पन्नम् । पूज्यपादैरागमप्रभाकरैः स्व. मुनिराजश्री पुण्यविजयजीमहाराजैरेतद्ग्रन्थसंशोधनाय प्रेरितोऽहम्, सर्वापि विविधहस्तलिखितादिग्रन्थसामग्री तैरेव प्राधान्येन प्रेषिता, भा. प्रतेः पाठान्तराण्यपि अहर्निशं परिश्रम्य तैरेव स्वहस्तेन लिखित्वा प्रेषितानि, सर्वापि मुद्रणप्रकाशनादिव्यवस्था तैरेव विहिता, प्राचीनशास्त्रसंशोधनक्षेत्रे तैरेवाहमानीतः, इत्यादींस्तेषां विविधानुपकारान् मादृशोऽल्पीयाञ्जनः कथंकारं वर्णयितुं क्षमः। तैः प्रारब्धं तेषां चाभीष्टतममागमसंशोधनकार्य तेषामन्तरङ्गभावनानुसारं सम्पूर्णरूपेण शीघ्रं सिद्धं भवेदेतदर्थं परमात्मानं भूयो भूयः प्रार्थये। आत्मानन्दसभायाः प्रमुखाः श्री गुलाबचंदभाई आणंदजी, मंत्रिश्री वल्लभदास त्रिभोवनदास गांधी, फत्तेहचंदभाई झवेरभाई, प्रोफेसर खीमचंदभाई चांपसी एते सर्वेऽपि महोदया एतद्ग्रन्थसमाप्ति द्रष्टुमधुना स्थूलदेहेन न सन्ति, अतश्चेखिद्यते मनः, तथापि तेषां समये प्रारब्धं कार्यमद्य सम्पूर्णतां यातीत्येव परमानन्दप्रदम् । अस्य प्रकाशने प्रोफेसरखीमचंदभाईमहोदयः विविधरूपेण साहायकं विहितमिति तेऽनेकशो धन्यवादार्हाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy