________________
वाक्यसंकलनां विधाय अस्माभिः संभावितमेव नयचक्रमूलमत्र मुद्रितम् । प्रथमविभागप्रस्तावनायां विस्तरेण निर्दिष्टमेतदस्माभिः । मूलाभावाद् विषयकाठिन्याच्चिरात्पठन-पाठनाभावात् प्राचीनहस्तलिखितादर्शवैरल्यादेश्च टीकेयमशुद्धीनामाकरः संजातः । अत एतद्ग्रन्थसंशोधने बह्वी ग्रन्थान्तरसामग्री अपि उपयुक्ता। अतो भूयसा परिश्रमेण महता विलम्बेन च परमात्मकृपया कार्यमिदं सम्पन्नम् ।
भारतवर्षे लुप्तप्रायाणां बहूनां ग्रन्थानां वादिनां च वचनानि विचाराश्च अस्मिन् नयचक्रे उपलभ्यन्ते । अत ऐतिह्यरसिकानां प्राचीनैतिह्यज्ञानाय कोशरूपोऽयं ग्रन्थः । अस्य भूयानंशो बौद्धदर्शनविचारैः परिपूर्णः । अत एतद्ग्रन्थसंशोधनाय नयचक्रमूलसंकलनाय च भोट(Tibetan) भाषानुवादरूपा बहवो बौद्धग्रन्था अप्युपयुक्ता अत्रास्माभिः, यतो जैनाचार्यरुपयुक्ता दर्शनशास्त्रसम्बन्धिनो बहवो बौद्धग्रन्थाः सम्प्रति संस्कृतभाषायां नष्टाः, केवलं केषांचित् परःशतेभ्यो वर्षेभ्यः प्राग भोटभाषायां विहिता अनुवादाः सम्प्रति लभ्यन्ते, अतो भोटभाषामधीत्य पाठशुद्धये मूलसंकलनाय अर्थपरिज्ञानाय च बौद्धग्रन्था अत्रोपयुक्ताः । दिङ्नागविरचितः प्रमाणसमुच्चयाख्यो बौद्धग्रन्थोऽत्र अत्यन्तमुपयोगी, किन्तु स ग्रन्थः, तस्य स्वोपज्ञा वृत्तिः, तयोरुपरि च जिनेन्द्रबुद्धिविरचिता विशालामलवती टीका, एतत् सर्वमपि संस्कृतभाषायां नष्टमधुना । एतेषां भोटभाषायां विहितः प्राचीनोऽनुवादः केवलमुपलभ्यते । अतो युरोप-अमेरिका-जापानतो महता परिश्रमेण भोटभाषानुवादानुपलभ्य अत्रोपयोगिनां बहूनां पाठानां भोटभाषातः संस्कृतभाषायां यथामति परिवर्तनं च विधाय तेषु तेषु 'स्थलेषु विस्तरेण टिप्पणान्यत्रोपन्यस्तान्यस्माभिः । प्रथमविभागे भोटपरिशिष्टमपि योजितमस्भाभिः, तत्र च प्रमाणसमुच्चयस्य अनेकेंऽशाः संकृतभाषायामुपन्यस्ताः। अस्मिस्तृतीयविभागेऽपि भोटपरिशिष्टं योजयितुं प्रमाणसमुच्चयस्य भूयांसमंशं संस्कृतभाषायामुपदर्शयितुमस्माकं प्रबला समीहाऽभूत्, तदर्थं च बही भोटग्रन्थसामग्री अपि संचिता, किंचित् कार्यमपि प्रारब्धम्, किन्तु भोटभाषातः संस्कृतभाषायां परिवर्तनं न सुकरमिति तत्र भूयान् कालविलम्बो भविष्यतीति मत्वा भोटपरिशिष्टादिसंस्कारान् विनैव ग्रन्थोऽयं विदुषां पुरत उपन्यस्यते ।। यत्र हस्तलिखितादर्शादिगतः पाठोऽशुद्ध इति अस्माकं मतं तत्र अस्मत्संभावितः शुद्धपाठः
) एतादृशे वर्तुले कोष्ठके विनिवेशितः। यत्र तु कश्चिदधिकः पाठः पूरणीय इति अस्माकं मतं तत्र तादृशः पाठः [ ] एतादृशे चतुरस्र कोष्ठके निवेशितः । ग्रन्थान्तरेभ्य उद्धृतानां पाठानां मूलस्थानान्यपि [ ] चतुरस्र कोष्ठके दर्शितानि । यत्र मूलस्थानानि न लब्धानि तत्र चतुरस्रकोष्ठका रिक्ता एव स्थापिताः ।
१ दृश्यतां पृ. ६०६, ६०७, ६०८, ६०९, ६१२, ६१३, ६१४, ६१७, ६२३, ६२९, ६३०, ६३१, ६३४, ६३८, ६४०, ६५०, ६५१, ६६३, ६७८, ६८५, ६८८, ७०१, ७०२, ७०७, ७२४, ७२९, ७३३, ७३४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org