SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १० नयचऋपरिशिष्टानि नयचक्रसमाप्त्यनन्तरमस्मिंस्तृतीये विभागे पञ्च परिशिष्टान्यस्माभिर्योजितानि प्रथमे परिशिष्टे आचार्यश्रीमल्लवादिक्षमाश्रमणेन ग्रन्थान्तरेभ्यो नयचक्रे उद्धृताः पाठा अकारादिक्रमेण यथोपलब्धि मूलस्थाननिर्देशेन सह दर्शिताः । द्वितीये परिशिष्टे नयचक्रवृत्तिकृता आचार्य श्रीसिंहसूरिंगणिवादिक्षमाश्रमणेन नयचक्रवृत्तौ ग्रन्थान्तरेभ्य उद्धृताः पाठा अकारादिक्रमेण यथोपलब्धि मूलस्थाननिर्देशेन सह दर्शिताः । तृतीये परिशिष्टे नयचक्रे वृत्तौ चोल्लिखितानां वाद - वादि - ग्रन्थ- ग्रन्थकृन्नाम्नां कतिपयानां विशिष्टशब्दानां चाकारादिक्रमेण निर्देशो वर्तते । चतुर्थे परिशिष्टे आचार्यश्रीमल्लवादिविषयका जीवनवृत्तान्तोल्लेखाः कहावली - प्रभावकचरित्रप्रबन्धादिषु यादृशा उपलभ्यन्ते ते तथैव निर्दिष्टाः । तत्र कियत् सत्यं कियच्च किंवदन्तीरूपं तत् स्वयमेव स्वधिया विद्वांसो विदांकुर्वन्तु । पञ्चमे परिशिष्टे नयचक्रस्य संशोधने सम्पादने च उपयोजितानां ग्रन्थानामकारादिक्रमेण सूचि: संकेतविवरणं च वर्तते । परिशिष्टपञ्चकादनन्तरं शुद्धिपत्रकमस्ति । तृतीयविभागे येऽशुद्धाः पाठा मुद्रितास्तत्स्थाने ग्राह्याः शुद्धपाठा अत्र प्राधान्येन निर्दिष्टा:, तथापि प्रथमद्वितीयविभागप्रकाशनानन्तरं प्रथमविभागे द्वितीयविभागे च येऽशुद्धपाठा अधुनास्माकं दृष्टिपथमायातास्तेऽपि अस्मिन् शुद्धिपत्रके समावेशिताः । विहितेऽपि शुद्धिपत्रकेऽस्माकमनवधानादिना स्थिता या: काश्चन अशुद्धयो दृष्टिगोचरा भवेयुः ता अस्माकमुपरि कृपां विधाय विद्वद्भिः स्वयमेव सम्यग् विशोधनीया इति अभ्यर्थ्यते । यथा प्रथमे विभागे ग्रन्थमुद्रणानन्तरं टिप्पणानि संयोजितानि तथात्रापि संयोजयितुमस्माकं महाssसीत्, किन्तु समयाभावात् तादृशानि टिप्पणानि न संयोजितानि । किन्तु आवश्यकानि कतिपयानि टिप्पणानि ग्रन्थेऽधस्तात् पादटिप्पण [ Foot-note ] रूपेणोपन्यस्तान्येव । नयचक्रमूल - टीकास्वरूपम् आचार्यश्री मल्लवादिक्षमाश्रमणविरचितं नयचक्रमधुना स्वतन्त्रग्रन्थरूपेण नोपलभ्यते, केवलमाचार्यश्रीसिंहसूरिगणिवादिक्षमाश्रमणविरचिता नयचक्रटीकैव सम्प्रति उपलभ्यते । यदत्र नयचक्रमूलं मुद्रितं तत् टीकास्थान् नयचक्रमूलप्रतीकान् यथाकथञ्चित् संकलय्य अस्माभिर्यथामति संभावितमेव नयचक्र मूलमिति ज्ञेयम्, यत इयं नयचक्रटीका न प्रतिपदं व्याख्यारूपा, बहवः सन्दर्भाः ' इत्यादि यावत्' इति निर्देशेनैव सूचिताः येषां व्याख्या कृता तत्रापि के के शब्दा मूलप्रतीकरूपा इति निर्णेतुं दुष्करमेव । अतः परमात्मकृपया सद्गुरुकृपया च यथामति कथञ्चिद् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy