________________
दशमे नियमविध्याख्येऽरे एकान्तेन अवक्तव्यपक्षेऽपि दोषानुद्भाव्य अवयवावयविधर्मधादि-भेदांश्च निरस्य भावरूपो विशेषरूप एव पदार्थ इति साधितम् । पृ. ७८७ मध्ये "राशिवत् सार्थवत् ..............।। नृरथाश्वद्विपवती..............॥" इति श्लोकद्वयं कुतश्चिद् ग्रन्थादुद्धृतमत्र । कस्माद् ग्रन्थविशेषादुद्धृतमिति न ज्ञायते तथापि स बौद्धग्रन्थो भवेदिति सम्भाव्यते।
एकादशे नियमोभयाख्येऽरे 'सर्वेऽपि पदार्थाः क्षणिकाः' इति साधितम् । एवंभूतनयस्य भेदरूपे उपयोगैवंभूतनये चायं नियमोभयनयोऽन्तर्भवति । अत्र विद्यमानं निरूपणं कञ्चिद् बौद्ध ग्रन्थमवलम्ब्य विहितम्, स च बौद्धग्रन्थः प्रायो दिङागविरचित्तो भवेदिति वयं सम्भावयामः ।
द्वादशे नियमनियमाख्येऽरे क्षणिकपदार्थवादमपि निरस्य शून्यवादः प्रसाधितः । बौद्धाचार्यनागार्जुनविरचितविग्रहव्यावर्तनी-मध्यमककारिकादिग्रन्थेषु शून्यवादसमर्थनाय यदुक्तं तादृशमेव वर्णनमत्रोपलभ्यते । जिनभद्रगणिक्षमाश्रमणविरचितविशेषावश्यकभाष्यस्य [ १६९२-१६९६ ] गाथासु' मलधारिहेमचन्द्रसूरिप्रभृतिविरचितासु तट्टीकासु च बौद्धाभिमतशून्यवादपक्षे ये हेतवोऽभिहितास्तादृशं वर्णनमत्रापि दृश्यते । इदं तु ध्येयम्- अत्र शून्यवादेन बाह्यार्थशून्यताबाह्यालम्बनशून्यतैवाभिप्रेता, विज्ञानं तु स्वीकृतमेव, अतोऽयं शून्यवादो विज्ञानवादरूप एवात्राभिप्रेतः, न तु सर्वशून्यतारूपः । एतच्च द्वादशेऽरे तत्र तत्र [पृ. ८४४, ८५२, ८५४] बहुभिरुल्लेखैः स्फुटमेव । द्वादशेऽरे [ पृ. ८५२ ] दिङ्गागविरचिताया आलम्बनपरीक्षायाः एकः श्लोक उद्धृतः । पृ. ८५१ मध्ये भर्तृहरिविरचित्तवाक्यपदीयादेकः श्लोक उद्धृतः । पृ. ८२६ मध्ये "यथा नलकलापौ द्वौ................।" इति श्लोकः कुतश्चिद् बौद्धग्रन्थादुद्धृतः, अत्र ‘नल'शब्देन नलाख्यं तृणमभिप्रेतम् । 'नड्वलोदकं पादरोगः' इति वाक्यं बहुषु जैनग्रन्थेषु दृश्यते तत्रापि नडशब्देन नलाख्यं तृणमेव विवक्षितं ड-लयोरेकत्वं स्वीकृत्य । नयोऽयम् एवंभूतनयैकदेशः ।
द्वादशारात् परतो द्वादशारान्तरं वर्तते । तत्र च बाह्यार्थवादिभिः द्वादशाराभिमते शून्यवादे दोषानुद्भाव्य एकान्तशून्यवादस्यापि निरसनं विहितम् ।
ततः परं नयचक्रतुम्बं वर्तते । यथा चक्रे नाभि विना सर्वेऽप्यरा विशरन्ति तथा स्याद्वादनाभिं विना सर्वेऽपि विभिन्ना वादा एकान्तावलम्बितया अप्रतिष्ठिता भवन्ति । अतो विभिन्नानां वादानां स्वदृष्ट्यपेक्षया यथार्थत्वेऽपि एकान्तग्राहेण मिथ्यात्वं निवारयितुं स्याद्वादनाभ्याश्रय आवश्यक एवेति नयचक्रतुम्बे ग्रन्थकृता विस्तरेणोपदर्शितं जिनवचनस्य च सर्वनयसमूहात्मकत्वमुपपादितम् ।
१ द्दश्यतां नयचक्रे पु. ८२६-८२८-८२९ ।
२ 'यथाऽनलकलापौ' इति पाठो यद्यपि मुद्रितस्तथापि 'यथा नलकलापौं' इत्येव शुद्धः पाठः । सम्प्रति जर्मनदेशनिवासिभिर्विद्वद्भिः 'भालचन्द्र त्रिपाठि' महोदयैः सूचयित्वैतदहमुपकृतोऽस्मि ।
१ " तुम्बक्रिया स्याद्वादनाभिकरणम्, तत्प्रतिबद्धसरावस्थानात्, अतोऽन्यथा विशरणात्" इति नयचक्रवत्तौ पृ. ८७७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org