________________
२ विधिविधिः, ३ विध्युभयम्, ४ विधिनियमः, ५ उभयम्, ६ उभयविधिः, ७ उभयोभयम्, ८ उभयनियमः, ९ नियमः, १० नियमविधिः, ११ नियमोभयम्, १२ नियमनियमः इति द्वादश नया वर्णिताः । एते च विभिन्नविचाररूपाः । तत्र षड् आदिमा नया द्रव्याथिकेऽन्तर्भवन्ति, अन्तिमास्तु षड् नयाः पर्यायाथिकेऽन्तर्भवन्ति । तत्रापि विध्यादिः को नयः नैगमादिषु क्वान्तर्भवति तत् प्रत्यरं प्रान्तभागे आचार्यश्री मल्लवादिक्षमाश्रमणैनिर्दिष्टमेव' । तथाहि-प्रथमो विधिनयो व्यवहारनयेऽन्तर्भवति, द्वितीयो विधिविधिनयः, तृतीयो विध्युभयनयः, चतुर्थो विधिनियमनयश्च सङ्कहनयेऽन्तर्भवन्ति। पञ्चम उभयनयः, षष्ट उभयविधिनयश्च नैगमनयेऽन्तर्भवतः। सप्तम उभयोभयनयः ऋजुसूत्रनयेऽन्तर्भवति । अष्टम उभय नियमनयो नवमो नियमनयश्च शब्दनयेऽन्तर्भवतः । दशमों नियमोभयनयो द्वादशो नियमनियमनयश्च एवंभूतनयेऽन्तर्भवत: ।
यत इदं द्वादशारं नयचक्रमुद्धतं तत् सप्तशतारमार्ष नयचक्राध्ययनं पूर्वकाले आसीदिति एतद्ग्रन्थान्ते [पृ. ८८६] टीकायां स्पष्टमेव निर्दिष्टम्-"अधुना तु शास्त्रप्रयोजनमुच्यते-सत्स्वपि पूर्वाचार्यविरचितेषु सन्मति-नयावतारादिषु नयशास्त्रेषु अर्हत्प्रणीत नैगमादिप्रत्येकशतसंख्यप्रभेदात्मक. सप्तनयशतारनयचक्राध्ययनानुसारिषु तस्मिंश्चार्षे सप्तशतारनयचक्राध्ययने च सत्यपि द्वादशारनयचक्रोद्धरणं 'कथं नामाल्पीयसा कालेन नयचक्रमधीयेरन्निमे सम्यग्दृष्टयः' इत्यनयानुकम्पया संक्षिप्तग्रन्थं बह्वर्थमिदं नयचक्रशास्त्रं श्रीमच्छेतपटमल्लवादिक्षमाश्रमणेन विहितं.... वादिनां जनानां.............."वादिचक्रवर्तित्वविधये"-पृ. ८८६ ।
अररूपा विध्यादयो नया विचारविशेषप्रतिपादकाः । विध्यादिषु प्रथमो नयः स्वाभिमतं पक्षं स्थापयति । ततः परं द्वितीयो नयस्तत्र दोषानुद्भावयति, दोषांश्चोद्भाव्य स्वाभिप्रेतं मतं स्थापयति । अनया रीत्या सर्वेऽपि नयाः पूर्वमते दोषानुद्भाव्य स्वस्वमतं स्थापयन्ति । यदिदं पूर्वनये दोषोद्भावनं तदेव द्वयोर्द्वयोररयोरन्तरम् । यथा रथादीनां चक्रे द्वादश अराः, अराणां परस्परमन्तरम्, अराणामेकत्र स्थितये मध्यभागे तुम्बं–नाभिश्च वर्तते तथा अस्मिन्नपि नयचक्रग्रन्थे भिन्नभिन्नविचारप्रवाहविशेषरूपा विध्यादयो द्वादश अराः, तेषां परस्परमन्तरम्, तेषां सर्वेषां स्थितये स्याद्वादरूपं तुम्ब नाभिश्च वर्तन्ते ।
अस्मिन् नयनचक्रे आद्येषु चतुर्षु अरेषु कीदृशानि मतानि वर्णितानि तत् प्रथमे विभागे प्रस्तावनायां निर्दिष्टमस्माभिः । मध्यमेषु चतुर्षु अरेषु यद् विचारितं तद् द्वितीये विभागे प्रस्तावनायां किञ्चिद् निर्दिष्टम् । अस्मिंस्तृतीये विभागे यद् वर्णितं तत् संक्षेपेणात्रोपदीते
नवमे नियमनयारे सामान्य-विशेषादिभिर्विविधैः प्रकारैः वस्तुनोऽवक्तव्यत्वं शब्दनयमवलम्ब्य साधितम् । नयोऽयं शब्दनयैकदेशः ।
१ दृश्यतां पृ. ११४, २४४, ३३४, ३७३, ४१४, ४४६, ५४९, ७३७, ७६३, ७८९, ८०३, ८५२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org