________________
स्थितिः इसवीये ५३० तमे वर्षे [वैक्रमे ५८६ तमे वर्षे ] आसीत्, दृश्यताम् Acta Orientalia 47 (1980) Hungary, Budapest मध्ये प्रकाशितस्तेषां निबन्धः-Apropas DharmakirtiTwo New Works and a New Date.
बौद्धतार्किकविचारपरम्परायां बौद्धतार्किकशिरोमणेः धर्मकीर्तेरतिविशिष्टं स्थानं वर्तते, धर्मकीर्तिविरचितानां प्रमाणवार्तिक-प्रमाणविनिश्चय-हेतुबिन्दु-न्यायबिन्दु-वादन्याय-सम्बन्धपरीक्षासन्तानान्तरसिद्धिप्रभृतीनां ग्रन्थानां धर्मकीर्तिसमकालीनस्तदुत्तरकालीनैश्च प्रायः सर्वैरपि प्राचीनविविधदर्शनशास्त्रकारैः स्वस्वग्रन्थेषुपयोगो विहितः । अतो धर्मकीर्तिसमयविचारणमन्यग्रन्थकारसमयविचारणायां नितान्तमुपयोगि।
धर्मकीर्तिः बौद्धन्यायपितृकल्पेन Father of the Buddhist Logic दिागेन [ = दिन्नेन ] विरचितानां ग्रन्थानां-विशेषत: दिङ्नागविरचितस्य प्रमाणसमुच्चयस्य-मुख्यो विवरणकारः । आचार्यश्रीमल्लवादिक्षमाश्रमणेन दिङ्गागस्य मतं बहुषु स्थलेषुल्लिखितं विचारितं चर्चितं निरस्तं च; धर्मकीर्तेस्तु नामापि क्वचिदपि नोल्लिखितम्, अतो मल्लवादिक्षमाश्रमणः धर्मकीर्तितः पूर्ववत्येवेति स्पष्टम् ।
दिङ्गागस्य समयो विद्वद्भिः इसवीयः ४८०-५४० A. D. [ वैक्रमः ५३६-५९६ ] संभाव्यते । यदि धर्मकीर्तेः समयः परिवर्तनमपेक्षते, तर्हि दिडागसमयेऽपि परिवर्तनमावश्यकमेव । यदि च दिङ्गागस्य समयः ४०० विक्रमसंवत्सरसमीपे भवेत् तदा प्रभावकचरित्रनिर्दिष्टो मल्लवादिसमयः ( ४१४ ) समञ्जस एव ।
नयचक्रटीकाकृतां नाम-समयादि "इति नियमभङो नवमोऽरः श्री मल्लवादिप्रणीत नयचक्रस्य टीकायां न्यायागमानुसारिण्यां सिंहसूरिगणिवादिक्षमाश्रमणदृब्धायां समाप्तः” इति नवमारसमाप्तौ [ पृ. ७६४ ] " इति नियमनियमभङ्गो नाम आदितो विधिभङ्गादारभ्य गम्यमाने द्वादशो भङ्गो द्वादशारनयचक्रस्य श्री मल्लवादिकृतस्य टीकायां श्रीमसिंहसूरिगणिरचितायां समाप्तः” इति द्वादशारसमाप्तो [पृ. ८५४ ] चोल्लेखदर्शनादस्याष्टीकाया विरचयितारः श्रीसिंहसूरिगणिवादिक्षमाश्रमणा इति सुनिश्चितमेव । प्रथमविभागस्य प्राक्कथने [ पृ. ३०-३१ ] एतेषां समयादिविषयेऽस्माभिर्विचारितमेव । तदेवात्रापि संक्षेपेणाभिधीयते-कुमारिल-धर्मकीर्त्यादीनां विक्रमीयषष्ठशताब्दीवर्तिनां मतोल्लेखस्य नयचक्रटीकायां स्पष्टतया अस्पष्टतया वा काप्यदर्शनात् कुमारिल-धर्मकीर्त्यादिग्रन्थेभ्यः प्रागेव दिङ्नागविरचितग्रन्थेभ्यः परतश्च टीकेयं व्यरचीति स्फुटमेव प्रतीयते ।
____नयचक्रस्वरूपम् जैनशास्त्रेषु द्रव्यार्थिक-पर्यायार्थिको मूलनयौ वर्णितौ। तत्प्रभेदरूपाश्च नैगम-संग्रहव्यवहार-ऋजुसूत्र-शब्द-समभिरूढ-एवंभ्ताख्याः सप्त नया वर्णिताः । नयचक्रे तु १ विधिः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org