SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ १३ आत्मानन्दनसभाया वर्तमानैः प्रमुखैः शाह हीराभाई भाणजीभाई महोदयः तथा अपरैरपि कार्यवाहकैरेतद्ग्रन्थप्रकाशनाय सदैव प्रोत्साहितोऽहम्, आगामिकाले च सटीकानागमग्रन्थान् संशोध्य प्रकाशयितुमपि तेषां प्रबला समीहा वर्तते, अतस्तेऽपि अनेकशो धन्यवादार्हाः । परमात्मनः सद्गुरुदेवानां च कृपया आगमादिग्रन्थानां संशोधन प्रकाशनं च शीघ्र पूर्ण सिद्धं स्यादिति परमात्मानं प्रार्थये । युरोप Europe खण्डे भारतीयदर्शनशास्त्रनिष्णातैरनेकभाषाविशारदैः डॉ एरी फाउवल्नेर (Prof. Dr. Erich Frauwallner, Department of Indian Philosophy. University of Vienna, Austria, Europe) महोदयैर्नयचक्रमधीत्य प्रथमविभागस्य आङ्गलभाषायां वैदुष्यपूर्णा प्रस्तावना लिखिताऽऽसीत् । ततः परं ते दिवंगताः । सम्प्रति अस्य तृतीयविभागस्य आङ्गलभाषामयी वैदुष्यपूर्णा प्रस्तावना Introduction श्रीमद्भिः Prof. Dr. J. W. de Jong (The Australian National University, Faculty of Asian Studies, Canberra, A. C. T. Australia, 2600) महोदयैलिखिता। एतेभ्यो महानुभावेभ्यो विद्वद्भ्योऽनेकशो धन्यवादाः प्रदीयन्ते । निर्णयसागरमुद्रणालयपण्डितैः स्व. नारायण राम आचार्यमहोदयैः प्रतिपत्रं मूल-टीकाटिप्पणानां योजनादौ महता परिश्रमेण साहायकमनुष्ठितमिति तानपि कृतज्ञतापूर्वकं धन्यवादपूर्वकं च स्मरामि । प्रथमे द्वितीये च विभागे मुद्रिता गुरुदेवस्तुतेर्नव श्लोकाः मांडलनगरस्थितन्ायविशारदः स्व. मुनिराजश्री न्यायविजयमहाराजैः संस्कृतभाषायां विरचय्य मह्यं दत्ता इति तेषामपि हृदि बहुमानपूर्वकं महान्तमुपकारभारमावहामि । - अनेके भोट Tibetan ग्रन्था Microfilm रूपेण Congress Library. Washington, U. S.A. इत्यस्य कार्यवाहकैर्दत्ताः । Photo-prints आदिरूपेण बहवो भोट Tibetan ग्रन्था जापानदेशीयैः स्व. हिदेनोरी कितागावा (Prof. Hidenori Kitagawa, Nagoya University, Nagoya, Japan) महोदयमहता परिश्रमेण भक्तिभावेन च प्रेषिताः । पुण्यपत्तन Pune निवासिनो मम भोटभाषाया विद्यागुरवो डॉ. वासुदेव विश्वनाथ गोखले (Prof. Vasudeva Vishvanath Gokhale, Pune) महोदया अप्यनेकशोऽत्र सहायकं विहितवन्तः । एते सर्वेऽपि भृशमभिनन्दनीयाः । अस्य तृतीयविभागस्य प्रथमं द्वितीयं च परिशिष्टं मम मातृष्वसुः स्व. साध्वीजीश्री लाभश्रियः शिष्यायाः [ तथा भगिन्याः ] साध्वीजीश्री कञ्चनश्रियः शिष्यायाः [ तथा दुहितु: ] साध्वीजीश्री लावण्यश्रियः परिवारेण विहितम् । तृतीयं परिशिष्टं साध्वीजीश्री लाभश्रियः शिष्याया [ तथा भगिन्याः ] मम मातु: साध्वीजीश्री मनोहरश्रियः शिष्यायाः साध्वीजीश्री सूर्यप्रभाश्रियः शिष्यया साध्वीश्री जिनेन्द्रप्रभाश्रिया विहितम् । एष सर्वोऽपि साध्वीगणो नितान्तमभिनन्दनाहः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy