SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ८८३] न्यायागमानुसारिणीवृत्त्यलङ्कृतं [ नयचक्रतुम्बे एव चायं हेतुः । अन्यतमप्रयोगेऽपि च सामर्थ्यात् सर्वसम्भवात् यस्मिन् कस्मिंश्चित् साधने प्रयोगविधयो भवन्ति। तेषामेकैकयोगे द्वादश भङ्गाः, द्विकयोगे षट्षष्टिः, त्रिकसंयोगे द्वे शते विशे, चतुष्कयोगे चत्वारि शतानि पञ्चनवतानि, पञ्चकयोगे सप्त शतानि द्विनवतानि, षट्कयोगे नव शतानि चतुर्विशानि, सप्तकयोगे सप्त शतानि द्विनव5 तानि, अष्टकयोगे चत्वारि शतानि पञ्चनवतानि, नवकयोगे द्वे शते विशे, दशकयोगे षट्षष्टिः, एकादशकयोगे द्वादश, द्वादशक एक एव। एवं तावच्चत्वारि सहस्राणि पञ्चनवतानि प्रतिज्ञानाम् । तासां चैकैकस्यां हेतूनां चत्वारि सहस्राणि पञ्चनवतानि। एवं च भङ्गानामेका कोटी, सप्तषष्टिः शतसहस्राणाम्, एकोनसप्ततिश्च सहस्राणां पञ्चविंशा --१६७६९०२५। एवमियमनेकान्तवाददिगुपदशिता। 10 चायं हेतुः प्रत्येकनयविवक्षया भिद्यते, अन्यतमप्रयोगेऽपि च सामर्थ्यात् सर्वसम्भवात्, तत्र यस्मिन् कस्मिश्चित् साधने नित्यानित्यादीनामन्यतमस्मिन् पक्षे प्रयोगविधयो भवन्ति विकल्पा भङ्गा इत्यर्थः। तेषां द्वादशानां भङ्गानामेकैकयोगे द्वादश भङ्गाः। द्विकयोगे षट्षष्टि:-विधिश्च विधिविधिश्च सहितावेको भङ्गः, एवं विधिरेकैकेनैकादशानां योज्यः, तथा विधिविधिः तथा विधिविधिनियमः (मौ) विधिनियमश्च । एवमष्टानामपि शेषाणां भङ्गानां द्विकयोगे षट्पष्टिर्भवति । एतेनैव संयोगविधिना 15 त्रिकसंयोगे द्वे शते विशे इत्यादिनाऽऽचार्येणैव भङ्गविधिरुक्तो यावद् द्वादशक [एक] एवेति । एवं सर्वसंग्रहेणैताः प्रतिज्ञाः, एवं तावच्चत्वारि सहस्राणि पञ्चनवतानि। तासां चैकैकस्यां हेतूनां चत्वारि सहस्राणि पञ्चनवतानि विकल्पशो भवन्ति । हेतौ हेतौ च प्रतिज्ञा अपि तावत्य एव सर्वस्य परस्पराविनाभावेन नयभङ्गानामुक्तत्वात् । एवं चेत्यादि, [प्रति]जाभङ्गा हेतुभङ्गाश्चान्योन्यगुणिता भङ्गानामेका कोटी सप्तषष्टिः शतसहस्राणामेकोनसप्ततिश्च सहस्राणां पञ्चविंशेति । 20 एवं तावद् नित्यादिप्रतिज्ञासु द्वादशानां भङ्गानां भेदा उक्ताः। एवं कारण-सर्वगतैकत्वादि५६९-२ प्रतिज्ञासु विध्यादिद्वादशभङ्गभेदाः प्रत्येकं नेतव्याः। एवमियमनेकान्तवाददिगुपदर्शिता, "कोऽस्य भगवतो महतो महानुभावस्य स्याद्वादमहासमुद्रस्यानन्तनयतरङ्गभङ्गावारपारीणस्य संख्यां कर्तुं शक्नुयात् । किन्त्वस्यां दिशि प्रदर्शितायां विपश्चिता दिगनुपातिना शेषं तथाऽनुगन्तव्यम् । १ षषट्षष्टिः भा०॥ २ तथा विधिनियमः भा०॥ ३ मष्टान्यानामपि प्र०॥ ४ द्विकादिभङ्गसंयोगानयनाय करणगाथा तयाख्या चास्य ग्रन्थस्य प्रथमे विभागे पृथक् टिप्पणेषु पृ० ८७ इत्यत्र द्रष्टव्ये ॥ ५ द्वादश एवेति य० ॥ ६ सर्वसंग्रा प्र०॥ ७ 'नवशतानि य०॥ ८ 'मेकोन्नस भा०॥ ९ एषां ताव प्र० ॥ १० दिगप्रद प्र०। अत्र 'दिगुपप्रद इत्यपि पाठो भवेत् ।। ११ भोस्य प्र०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy