________________
[८८४
अनेकान्तवाददिगुपदर्शनम्]
द्वादशारं नयचक्रम् एवं च न स कश्चिद् यो न हेतुः, तृणादिरपि यस्यां कस्याञ्चिदपि प्रतिज्ञायां हेतुर्भवति, सर्वस्य सर्वात्मकत्वेन सर्वद्रव्यपर्यायार्थविपरिवृत्तेः ।
येन त्वेवंविधं साधनं न ज्ञातं नासौ कस्यचिद् वस्तुनस्तत्त्वतो ज्ञाता, तदेकदेशमात्रस्यैव परिग्रहीतृत्वात्, अनवधार्यस्यावधारयितृत्वात्, त्वगङ्गारकितमात्रनियतपलाशस्वतत्त्वग्राहिवत्।
- एवं चानेकान्ते सम्यगवलोकिते न स कश्चिद् यो नहेतुः, तृणादिरपि यस्यां कस्याञ्चिदपि 'अनित्यः शब्दः' इत्यादिकायां प्रतिज्ञायां हेतुर्भवति अनेकान्तवादिनः, न न हेतुः, कस्मात् ? सर्वस्य सर्वात्मकत्वेन सर्वद्रव्यपर्यायार्थविपरिवृत्तः, एकैको द्रव्यार्थः सर्व एकैकसर्वद्रव्यार्थतया विपरिवर्तते सर्वपर्यायार्थतया च, तथा सर्वपर्यायार्थः सर्वद्रव्यार्थपर्यायार्थत या विपरिवर्तते । तेषु तेषु नयदर्शनेषु च विषयव्यवस्थापनविदग्धेषु विस्तरेण प्रशितं सर्वद्रव्यपर्यायार्थविकल्पात्मक- 10 मेकैकं वस्तु । तस्मात् 'सर्वमेकात्मकम्, एकं च सर्वात्मकम्, सर्वं च सर्वात्मकम्' इत्यादि। तत एवैकं यो वेद स सर्व वेद, यः सर्वं वेद स एवैकं वेद । यथोक्तम्
जे एकं जाणति स सव्वं जाणति, जे सव्वं जाणति स एक जाणति [आचाराङ्ग सू० १२९] इति । तथा- . एको भावः सर्वभावस्वभावः सर्वे भावा एकभावस्वभावाः।
५७०-१ एको भावस्तत्त्वतो येन दृष्टः सर्वे भावास्तत्त्वतस्तेन दृष्टाः ॥[ ] इति। 15 स्याद्वादिनां च सर्वभावस्वभावकभाववित्त्वादेकभावस्वभावसर्वभाववित्त्वाद् । यः कश्चित् तृणादिरप्यों हेतुर्भवत्येव यस्यां कस्याञ्चित् प्रतिज्ञायामिति साधूक्तम् ।
येन त्वेवंविधमित्यादि साधनं स्याद्वादसत्यत्ववैधर्म्यमात्रप्रकाशनं परप्रवादप्रयासविफलीकरणसाधनं वा। य एवंविधस्याद्वादाधिगम्यानेकान्तात्मकवस्तुज्ञानरहितः पुमान् नासौ कस्यचिद् वस्तुनोऽवयवमात्रस्यापि तत्त्वतो ज्ञाता तदेकदेशमात्रस्यैव परिग्रहीतृत्वात्, नित्यानित्याद्यनन्त- 20 धर्मात्मके वस्तुनि 'नित्यमेव, अनित्यमेव वा' इत्यादि अभिनिविष्टबुद्धित्वात् । तदेव व्याचष्टेअनवधार्यस्यावधारयितृत्वात्, ‘इदमेव, इत्थमेव' इत्यवधारणायोग्यस्यावधारणकार्तृत्वात् । किमिव ? त्वगङ्गारकितमात्रनियतपलाशस्वतत्त्वग्राहिवत्, यथा मैत्रविषये कश्चित् परिशटितसंकलप (फ? ) लपलाशं पलाशं तरुमवलोक्य कस्मिश्चित् कालविशेषे ब्रूयात् 'सर्वकालमेवे (ते) निष्पत्रपुष्प-फलच्छाया इति । चैत्रमासे वाऽङ्गारकितमिव वनदवज्वालामालापरीतमिव वाशोककुसुमसदृश- 25 कुसुमं मृगगणभयजननमवलोक्य ब्रूयाद् रक्त एवायं सर्वकालमिति। स तत्काल-क्षेत्रमात्रनियतपलाशस्वतत्त्वग्राहित्वाद् द्वयङ्गलमात्रप्रज्ञाभिराभीरीभिरपि संवेद्यं यथत्वशापदेश्यनानारूपानेकान्ताङ्कर
१ हेतुनां स्तृणादिरवि भा० । २ सकलपलाशं तमवलोक्य य० ॥ ३ कांताकुरु प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org