________________
स्याद्वादनाभिकरणम्] द्वादशारं नयचक्रम्
[८८२ एवं च वृत्तिवचनमशेषभङ्गकवाक्यतायामेव प्रतिभङ्गमपि वृत्तिरिति ख्यापनार्थम् । स्याद्वादतुम्बप्रतिबद्धसर्वनयभङ्गात्मिकैकैव वृत्तिः सत्या, रत्नावलीवत्, अन्यथा वृत्त्यभाव एव। तथैव च सर्वकान्तप्रक्रमः।
सर्वनयात्मकैकवृत्तिजैनसत्यत्वसाधनप्रवृत्त्यैवार्थापत्त्याशेषशासनासाधुत्वप्रतिपादनं कृतम्, विध्यादिनयानामेकभावे सर्वभावात् एकाभावे सर्वाभावात्, वर्षणाभिधानमेघाभ्युन्नतिवचनवत् प्रतिज्ञादावितरभङ्गार्थाव्यभिचारात्, तथाहि--अयमेव प्रयोगार्थः, एक
एतदुभयं कुतो लभ्यमिति चेत्, उच्यते - वृत्तिवचनात् । तद्भावनार्थमाह-एवं च कृत्वा विधिनियमभङ्गव्यतिरिक्तत्वादिति सिद्धे वृत्तिवचनमशेषभङ्गैकवाक्यतायामेव प्रतिभङ्गमपि वत्तिरिति व्याख्यापनार्थम् । किमुक्तं भवति ? स्याद्वादतुम्बप्रतिबद्धसर्वनयभङ्गात्म (त्मि) कैकैव वृत्तिः सत्या रत्नावलीवत्, यथा प्रतिविशिष्टजाति-वर्ण-च्छाया-सार-शुद्धि-प्रभावा-ऽर्थ-संस्थानादिगुण-10 गणोपेतमणिगणसमूहात्मिक[क]व रत्नावलीत्युच्यते यथास्थानविन्यासरत्ना, न प्रत्येकम्, तथा विध्यादिनयाराणामपि तुम्बप्रतिबद्धारवृत्तिवत् स्याद्वादप्रतिबद्धैकान्तनयवृत्तिः, अन्यथा वृत्त्यभाव एवेति च चक्रदृष्टान्तसाधाद् नयचक्रशास्त्र यथार्थनामत्वादेव दृष्टान्तान्तरप्रतिपादनेन नार्थो वा, । तथैव च सर्वैकान्तप्रक्रम इति, एवं च कृत्वा सर्वेषामेकान्तनयानामवृत्तिरेवासत्यत्वादिति प्रक्रान्तमेव ५६८-२ तत्र तत्र । एतच्च सर्वनयात्मकैकवृत्तिजैनसत्यत्वसाधनवृत्त्यैवार्थापत्त्या शेषशासनासाधुत्वप्रतिपादनं 15 कृतम्, तदसाधुत्वप्रतिपादनेन च जनसत्यत्वप्रतिपादनं कृतं भवति अन्योन्याविनाभावाद् जैनशासनसत्यत्वेतरशासनासत्यत्वसाधनयोरेकस्य साधनस्य साधर्म्य-वैधर्म्यदृष्टान्ताभ्यामन्वय-व्यतिरेकप्रदर्शनात्मकाभ्यामर्थद्वयप्रतिपादनाद् विध्यादिनयानामेकभावे सर्वभावात् परस्परापेक्षत्वादेकाभावे सर्वाभावादिति ।
किमिव ? वर्षणाभिधानमेघाभ्युन्नतिवचनवदित्यादि। यथा वृष्टिमघोन्नमनमन्तरेण न 20 सम्भवतीत्यविनाभावादुच्यते तथा विध्यादीनामेकस्मिन्नप्युक्ते शेषनया अप्युक्ता एव अन्योन्याविनाभावात् प्रतिज्ञादावितरभङ्गार्थाव्यभिचारादिति यथैकस्यां नित्यप्रतिज्ञायामनित्योभयावक्तव्यादिप्रतिज्ञावश्यंभाविता तथा तत्साधनधर्माणां हेतूनां तदन्वय-व्यतिरेकप्रदर्शनसाधर्म्य-वैधर्म्यदृष्टान्तानां चार्थाव्यभिचाराद् द्वादशानामभिधानं कृतमेव भवत्यर्थतः, ततो निःशङ्कमेकस्मिन्नपि नये विवक्षिते शेषनयाविनाभावात् स्याच्छब्दादिविशेषितानेकान्तसाधनप्रक्रियैव साधीयसीति प्राप्तम्, अत आह-25 तथाहि-अयमेव प्रयोगार्थों योऽस्माभिरुपसंहृत्य शास्त्रपिण्डार्थत्वेनोक्तो विधिविध्यादीति, एक एव ५६९-१
१ अत्र 'वृत्तिरिति ख्यापनार्थम्' इति समीचीनं भाति ॥ २ प्रभवा प्र०॥ ३ प्रवृत्त्येवा प्र०॥ ४ साधनस्य साधर्म्यवैधयं दृष्टान्ताभ्या भा०। साधनसाधय दृष्टान्ताभ्या य०॥ ५ भावकसर्वभावात् भा० । 'भावकसर्वभावात् य० । अत्र भावे सर्वभावात' इति भावे वा सर्वभावात' इति पाठो वा समीचीनो भाति ॥ ६ निःशंकमेव कस्मिन्नपि प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org