________________
न्यायागमानुसारिणीवृत्यलङ्कृतं
[ नयचक्रतुम्बे
एतबन्यतरैकान्तशास्त्रप्रबन्धस्तु विघटितार्थ, प्रस्तुतवस्तुविच्छेदपरमार्थत्वात्, दश दाडिमानीत्यादिवाक्यवत् ।
एषोऽर्थो भावित एवातीत समस्त नयचक्रशास्त्रेण ।
८८१]
अर्थोऽभिधेयो यस्य घट - भवत्यादेः पदस्य संगृहीता नेकभेदानेकान्तात्मक:, तेन सहाव्यभिचारिणां 5 प्रत्यक्षानुमानादिप्रमाणानां प्रबन्धेनाव्यवच्छिन्नप्रमाणं प्रमेयसम्बन्धार्थाभिधानप्रत्यययाथात्म्येन संसिद्धा नयचत्रशास्त्राभिहिता बहुभेदा घटादिनामपदाभिधेया भवत्यादिक्रियापदाभिधेयाश्चार्थाः सांसिद्धिकनिदर्शनाः, सिद्धादेशँनैमित्तिक वाक्यार्थवत् । सदाद्यनेकान्तार्थविषयत्वात् सत्यत्वं प्रमाणत्वाव्यभिचारीति भावितमेव व्याख्यातप्रकार सम्यक्सम्प्रसिद्धयुपनिबन्धनसम्प्रतिष्ठितार्थत्वादिति । एवं स्वपक्ष५६७-२ संसिद्धिसाधनाभिधानवर्त्मप्रदर्शनं शास्त्रार्थोपसंहारात्मकं कृतम् ।
10
परपक्षविक्षेपक्षमसा [ध ] नाभिधान दिवप्रदर्शनमपि शास्त्रार्थोपसंहारात्मकं क्रियते-- एतदन्यतरेकान्तशास्त्रप्रबन्धस्तु विघटितार्थः । एतेषामुक्तानां विध्यादिनयानां परस्परभिन्नप्रस्थानानां सर्वशास्त्रमतानुवृत्त्या संहृत्योक्तानां सदसत्पक्षद्वयतया द्रव्यार्थ पर्यायार्थद्वित्वानतिवर्तिनां तयोरन्यतरस्यैकान्तस्य शास्त्रस्य प्रबन्धः पुरुषपरम्परयाऽऽगमाव्यवच्छेदपरम्परया 'सदेव, असदेव, नित्यमेव, अनित्यमेव' इत्यादिविघटितार्थ इति पक्षार्थः । शास्त्रवचनं साङ्ख्यादीनां दृष्यमाणमेव, लौकिक15 घट-भवत्यादिर्प्रयोगेभ्यो दृष्टान्तभूतेभ्य उत्कालपक्षीका ( क ? ) रणार्थं मा भू [द्] दृष्टान्त-दाष्टन्तिकयोरप्रविवेक इति प्रस्तुतवस्तुविच्छेदा (दपरमा ? ) र्थत्वादिति हेतु:, प्रस्तुतं वस्तु दुःखविमोक्षोद्देशसाध्यसाधनसम्बन्धविधानं प्रमाणमेव संसिद्धिनिरूपणं च तद्विच्छेदो व्याघातः विघ्नोऽन्यथाभावः तदनिर्वाहः, महासरः पुण्डरीकजिघृक्षार्थप्रवृत्ताप्राप्तपङ्कनिमग्नर्पुरुषवत् । स परमार्थो यस्य एतयोर्द्रव्यपर्यायार्थयोरन्यतरैकान्तशास्त्रप्रबन्धस्य [स] प्रस्तुत वस्तुविच्छेदपरमार्थः स्वाभिप्रेतविपर्ययहेतुः, तद्भावात् 20 प्रस्तुत वस्तुविच्छेदपरमार्थत्वाद् विघटितार्थः । किमिव ? देश दाडिमानीत्यादिवाक्यवत्, '५६८-१ यथेदमसम्बद्धावयवार्थमेकवाक्यभावानापत्तेर्विघटितार्थं प्रस्तुत वस्तुविच्छेदपरमार्थत्वात् तथोक्तद्रव्यार्थ - पर्यायार्थान्यतरविकल्पैकान्तशास्त्रप्रबन्धो विघटितार्थ इत्येषोऽर्थो भावित एव अतीतसमस्तनयचक्रशास्त्रेणेत्येवमनेन समस्तेन ग्रन्थेनैतदभिहितं "विधिनियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थक वचोवत् जैनादन्यच्छासनमनृतम्, जैनमेव शासनं सत्यं विधिनियमभङ्गवृत्त्यात्मकत्वाद् भवतिवद् घटवद्वेति, 25 एकमेव वा साधनं तत् साधर्म्य - वैधर्म्याभ्यां सर्वेकान्तवादिदूषणायानेकान्तवादिपक्षसाधनाय च प्रभवतीति यथाप्रतिज्ञं व्याख्यातम् ।
१ प्रमेयं भा० ॥ २ सत्यत्वप्रमा प्र० । ३ 'नैमित्तिवाक्या' य० । ४ दृष्याणमेव य० ॥ ५ प्रयोगेन्यो प्र० ॥ ६ वस्तुत' प्र० ॥ ७ मेव सिद्धि य० ॥ ८ पणं व तद्वि' प्र० ॥ ९ पुरुषात् प्र० । दृश्यतां सूत्रकृताङ्गे द्वितीयश्रुतस्कन्धे प्रथमं पुण्डरीकाध्ययनम् ।। १० दृश्यतां पृ० १२४ पं० ८, टिपू० ५५ ।। ११ दृश्यतां पृ० ९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org