________________
स्याद्वादनाभिकरणम्] द्वादशारं नयचक्रम् . .
[८८० . एवं सर्वप्रभेदेष्वपि। स्यादेकः स्यादेकानेकः स्यादनेकः, स्यात् कारणं स्यात् कारणकार्य स्यात् कार्यम्, स्यात् सर्वगतं स्यात् सर्वगतासर्वगतं स्यादसर्वगतम्, विधि-विधिनियमनियमस्वभावत्वात् विध्यादिद्वादशात्मकत्वात्, घटवदिति भावितमेव नयचक्रशास्त्रेणानेन ।
एवं च जिनशासनमेकान्तसत्यमेव, सम्यक्सम्प्रसिद्धयुपनिबन्धनसम्प्रतिष्ठितार्थत्वात्, सदसद!......
एवं सर्वप्रभेदेष्वपीति एकानेक-कारणकार्य-सर्वगतासर्वगत-सामान्यविशेष-मिधर्मादिवस्तुप्रभेदेष्वपि एवं नेतव्यमिति अतिदिशति । तन्निदर्शनार्थं द्वादशानां विकल्पानां त्रिधा सम्पिण्डनेन चतुरश्चतुरो विकल्पानेकव्याकृत्याह--स्यादेक इत्यादि तयैवानुपूर्व्या । तत्र स्यादेक इति चत्वारो ५६६-२ विकल्पा: सङ्क्षिप्य पक्षीकृताः, स्यादेकानेक इत्युभयविकल्पाः, स्यादनेक इति नियमविकल्पाः । एवं स्यात् कारणं, स्यात् कारणकार्ये, स्यात् कार्यमेवेति । तथा स्यात् सर्वगतं, स्यात् सर्वगतासर्वगतं, 10 स्यादसर्वगतमेवेति। इत्थं नित्यैककारणसर्वगतोभयानित्यानेककार्यासर्वगतैविकल्पानां पृथक् पृथग् द्वादशधा भिन्नानां [सं]गृह्य प्रतिज्ञाय हेतुरपि सङ्क्षिप्योच्यते तथैव-विधि-विधिनियम-नियमस्वभावत्वात्। विधिग्रहणेन विधिविकल्पाश्चत्वारो गृहीताः, विधिनियमग्रहणेनोभयविकल्पाः, नियमग्रहणेन नियमविकल्पाश्चत्वारः, विधिश्च विधिनियमौ च नियमश्च विधि-विधिनियम-नियमा इति विग्रहात्, तद्वयक्त्यर्थमाह-विध्यादिद्वादशात्मकत्वादिति, घटवदिति दृष्टान्तः, भावितमेवेति 15 व्याख्यातमेव द्वादशनयव्याख्यानप्रपञ्चात्मकेन नयचक्रशास्त्रेणानेनेत्यतीतावेक्षणम्, तन्त्रयुक्तिरतिदेशो नाम, 'प्रकृतस्यातीतेन साधनमतिदेशः' इति लक्षणात् । घटो हि विध्यादिद्वादशविधभवनसमूहात्मकः तेषामन्यतमाभावे न भवति, परस्परापेक्षायामेव भवतीति विस्तरेण चरितार्थमेतत् ।
एवं चेत्यादि। एवं च समाप्तनयचक्रशास्त्रोक्तविध्यादिद्वादशारशास्त्रान्तराधारनाभीभूतस्याद्वादप्रतिबन्धकृतकवाक्यतायां सर्वशास्त्रप्रवृत्तीयत्तायां च सत्यामित्थं प्रतिपादितायां यदर्थापत्त्या 20 शास्त्रोत्थाने प्रतिज्ञातं विध्यादिवृत्त्येकात्मकत्वाज्जैनशासनसत्यत्वप्राप्तिरिति तत् सिद्धम् । ५६७-१
तच्चोपसंहृत्य साधनमिदम्-जिनशासनमेकान्तसत्यमेवेति प्रतिज्ञा, सम्यक सम्प्रसिद्धयपनिबन्धनसम्प्रतिष्ठितार्थत्वादिति हेतुः । समीचीनसम्प्रसिद्धिः सम्यक्सम्प्रसिद्धिः, सामान्यविशेषविकल्पान्योन्याजहद्वृत्त्या वस्तुतत्त्वनिष्पत्तिः, सा सम्यक्सम्प्रसिद्धिरुपनिबन्धनं प्रत्यक्षा-ऽनुमाना-ऽऽगमलोकप्रसिद्धसंव्यवहाराविरोधिनी, तेनोपनिबन्धनेन संम्प्रतिष्ठितोऽर्थो यस्य तदिदं जिनशासनं सम्यक्सम्प्र- 25 सिद्धयुपनिबन्धनसम्प्रतिष्ठितार्थम्, तद्भावादेकान्तसत्यमेव तत्। दृष्टान्तः-सदसदर्थेत्यादि, संश्च असंश्च
१ इत्यादि तयैवानुपूर्व्या तत्र स्यादेक इत्यादि तयैवानुपूर्व्या तत्र स्यादेक प्र० । अत्र द्विर्भूतः प्रतिषु पाठः ।। २ विकल्पानां पृथग द्वादशधा भा०। "विकल्पान् पृथक् पृथग द्वादशधा भिन्नामागृह्य प्रतिज्ञाय' इत्यपि पाठोऽत्र विचारणीयः॥ ३ मविधिनियमा प्र०॥ ४ दश्यतां प० ९५० २२॥ ५ संप्रतिवितो य० । संप्रतितो भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org