________________
८६८
स्वपरोभयभावसाधनम् ]
द्वादशारं नयचक्रम न तु कस्यचिद् वस्तुन आदिरन्तो वास्ति वस्तुत्वात्यागात् शिवकादिकपालाविघटमृद्वत् प्रत्यक्षमेवानाद्यनन्तत्वात् ।
अतोऽसौ तथावस्थित एक एव भावो निर्भेदः, भेदासम्भवात् । उत्पादविनाशाभ्यां हि भेदः सम्भाव्यत ।
नन्वनिष्ठितं प्राक्, पश्चादारम्भात् क्रियातो निष्ठा। यदि निष्ठितं स्याद् निष्ठित-5 त्वान्नारभ्येत निष्पन्नघटवत् ।
इदं विप्रतिषिद्धम् । यद्यनिष्ठितम्, अनिष्ठितत्वादसत्त्वात् खपुष्पवनारभ्यते, इतरो घटवत् । किं न खपुष्पादद्रव्यादेर्वारभ्यते ? स्यात्, वाशब्दाद् यत्त्वया तय॑ते तस्योपपत्तिः सम्भाव्यतोत्पत्ति-विनाशसद्भावे । किं तहि ? न तु, कस्यचिद् वस्तुन आदिः उत्पत्तिः अन्तः विनाशो वास्ति । कस्मात् ? वस्तुत्वात्यागात्, न हि 10 वस्तु स्वरूपं वस्तुत्वं त्यजति । किमिव ? शिवकादि-कपालादिघंट-मद्वत्, यथा हि घट: शिवकस्तूपक-च्छत्रक-कुशूल-घटावस्थासु भेदाभिमतासु मृत्त्वाभेदाद् मृदेव, कपाल-शर्करिका-धूलि-तुटि-परमाणुध्वपि मृत्तत्त्वाद् मृदेवाद्यन्तरहिता, तथान्यदपि विज्ञानादि वस्तुत्वात्यागादिति नास्त्युत्पादः, तदभावाद् विनाशाभावः। किञ्च, प्रत्यक्षमेवानाद्यनन्तत्वात् मृच्छिवक-कपालादिविपरिवर्तेष्वपि रूपादितत्त्वस्योत्पाद-विनाशाभावादनाद्यनन्तं मूर्तम्, मूर्तवच्चामूर्तमपि वस्तुत्वात्यागादनुत्पाद-विनाशाभ्या- 15 मनाद्यनन्तम् । तस्मात् सततम[व]स्थानमेव वस्तुनः ।
तदुपसंहरति--अतोऽसौ तथावस्थित एक एव भावो निर्भेद इति, भेदासम्भवात् भेदसम्भवकारणाभावात् । तद्दर्शयति वैधपेण-उत्पाद-विनाशाभ्यां हि भेदः सम्भाव्यत, स तूक्तविधिनानाद्यनन्तत्वान्नै सम्भवतीति ।
- ५५८-२ ___अत्राह-नन्वनिष्ठितमित्यादि । ननूक्तं 'द्रव्याणि द्रव्यान्तरमारभन्ते पृथिव्यादिपरमाणुद्रव्याणि 20 स्वतः स्वात्मनि द्वे बहूनि वा परस्परसंयोगापेक्षाणि आरभन्ते कार्यद्रव्यमन्यत् । गुणाश्च आरम्भकचतुर्विधद्रव्यसमवेतास्तैरारब्धे कार्यद्रव्ये नियमत एव स्वतः परात्मनि गुणान्तरमारभन्ते। कर्म संयोग-विभाग-संस्कारानारभते परतः परात्मनि।' इत्यादिना आरम्भवचनेनानिष्ठितं प्राक्, पश्चादारम्भात् क्रिया, क्रियातो निष्ठेत्यनिष्ठितम् । तत्र यदि निष्ठितं स्याद् निष्ठितत्वान्नाऽऽरभ्येत निष्पन्नघटवदिति ।
25 __अत्र ब्रूमः-इदं विप्रतिषिद्धमित्यादि। विप्रतिषेधं भावयति यद्यनिष्ठितमित्यादिना । अनिष्ठितत्वादसत् खपुष्पवत्, असत्त्वात् तद्वद् नारभ्यते नारभते । इतरो घटवदिति वैधHदृष्टान्तः,
१ घंटमृत् य० ।। २ मूर्तत्वात् भा०। मूर्तत्वा य० ॥ ३ न भवतीति य० ।। ४ पृ० ८४३ पं० २० ॥ ५ पृ०८४३ पं० १३ । इदमत्र बोध्यम्- "द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् [वै. सू. १२८,९] इति वैशेषिकसूत्रद्वयं किञ्चित्प्राचीनविवरणसहितमत्रोट्टङ्कितं भाति । तुलना-पृ० ४३७ पं० १०-१३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org