________________
८६७ न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[द्वादशारान्तरे त्वैकत्वाभ्यां घटस्यान्यत्वमस्ति घटाद्वा सर्वभेदभाजस्तयोरन्यत्वम् । ततस्तदनन्यत्वे तेषामपि घटात्मकत्वं तदनन्तरत्वात् घटस्वात्मवत् । . नन्वेकत्वे प्रत्यक्षसिद्धं तृप्तिसुखादि विरुध्यते । ननु तत् सर्वसिद्धान्तेष्वपि प्रत्यक्षसिद्धमतथा मत्वा मोक्षाय यत्यते । इति संयुक्तेरपि सर्वभावाः सन्ति । 5 . . . तथानुत्पादादपि सर्वभावाः सन्ति । यदि हि तद् वस्तूत्पद्येत विनश्येद् वा ततः प्रागभाव-पश्चादभाववद् मध्येऽप्यभावस्वाभाव्यान्न स्यादेकरूपं त्वदिष्टशून्यता वा स्यात् ।
मा मंस्था असिद्धो हेतुरित्यत आह-न हि ताभ्यामस्तित्वैकत्वाभ्यां घटस्यान्यत्वमस्ति स त्वेक एव घटो यस्मात् घंटाद्वा सर्वभेदभाजस्तयोरस्तित्वैकत्वयोरन्यत्वम् 'न हि' इति वर्तते, ५५७-२ सर्वान् पट-कटादीन् भेदान् स्वगतानूादि-नवादीनिव भजमाना[द्] घटादस्तित्वैकत्वयोरैनानात्वम् ।
ततः किम् ? ततस्तदनन्यत्वे घटास्तित्वैकत्वानन्यत्वेऽभिहितन्यायेन सिद्धे सर्वे भावाः पटादयोऽपि ततोऽनन्ये, तदस्तित्वैकत्वाभ्यामनन्तरत्वात्, घटवदित्युक्तत्वात् । अत आह-तेषामपि घटात्मकत्वं पटादीनां तदनन्तरत्वात् घटास्तित्वैकत्वानर्थान्तरत्वात् घटस्वात्मवदिति भावितार्थोऽयमतीतार्थोपसंहारः ।।
. अत्राह-नन्वेकत्वे प्रत्यक्षसिद्धं तृप्तिसुखादि विरुध्यते इति। इत्थं 'सर्वमेकं सर्वात्मकम्' 15 इति ब्रुवतस्ते प्रत्यक्षदृष्टं भेदेनाऽशनायितभुक्त्यनन्तरा तृप्तिर्बुभुक्षाविरोधिनी तदनन्तरभावि च सुखं दुःखविरोधीत्येवमादि विरुध्यते, न हि प्रत्यक्षविरुद्ध प्रतिज्ञातुं योग्यमिति। ... अत्र ब्रूमः-ननु तत् सर्वसिद्धान्तेष्वपि प्रत्यक्षसिद्धमतथा मत्वा मोक्षाय यत्यते इति । ननु विषयसुखानामतथात्वात् दुःखप्रतीकारमात्रत्वात् दुःखसँन्मिश्रत्वात् दुःखभूयिष्ठत्वात् अनात्यन्तिकत्वाच्च दुःखेत्वमेव, तृप्तेरपि गृद्धयभिलाषजननहेतुत्वादतृप्तित्वमेवेति मत्वा 'निराबाधमपराधीन20 मात्यन्तिकमैकान्तिकं विषयसुखविपरीतं कथं नाम मुक्तिसुखं निर्द्वन्द्वं प्राप्नुयाम' इति शास्त्रप्रामाण्यात् सर्वसिद्धान्तप्रसिद्धप्रवृत्तित्वान्नं त्वया पुनरन्या विमतिः कार्येति संयुक्तेरपि सर्वभावाः
सन्तीति ग्राह्याः। ५५८-१ तथानुत्पादादपि सर्वभावाः सन्ति। यदि हि इत्यादि, यदि हि तद् वस्तूत्पद्येत
उत्पन्नत्वाच्च विनश्येदेवेत्युत्पद्येत विनश्येद् वा, ततः किम् ? ततः प्रागभाव उत्पत्तेः, पश्चादभावो, 25:विनाशात्, तद्वद् मध्येऽप्यभावस्वाभाव्यान्न स्यादेकरूपमिति भेदवद्वा स्यात् त्वदिष्टशून्यता वा
. १ घटा सर्व य० ॥ २ (°रनन्यत्वम् ? ) ।। ३ पृ० ८४१ पं० ५ ।। ४ सर्वभावा घटा य० ॥ ५ पृ० ८४२ पं० १८॥ ६ मोक्षायायत्यते प्र० । प० । पृ० ८४२ पं० २३ ।। ७ सन्मिश्र प्र० ॥ ८ न या पुन य० ।। ९ पृ० ८४२ पं० २५ ।। १० °भावस्वा भावस्वा प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org