________________
स्वपरोभयभावसाधनम् ]
द्वादशारं नयचक्रम् कर्तुं शक्नोमि' इत्यहो साहसम् । घटो मृत्, मृदः पृथिवीत्वम्, पृथिव्या द्रव्यत्वं द्रुविकारत्वात्, द्रव्यस्य भव्यत्वाद् भव्यस्य भवितृत्वाद् भवितुः सर्वत्वात् सर्वं हि भवद् भवति इति सर्वस्य सर्वत्वात् सर्वरूपो घट उपलभ्यते हस्तवत् ।
अथोच्येत-भिन्न एवासावर्थो भिन्नप्रकारत्वात् वादिप्रतिवादिमतिवचनवत् । न, तुल्यत्वात् । येन प्रकारेणैकस्यात्मलाभस्तेन प्रकारेणास्तित्वैकत्वादिना सर्वभावानामप्या-5 स्मलाभः। सर्वोऽप्यभिन्नोऽसावर्थः, नसहितः स एव हेतुः, एकवत् । न हि ताभ्यामस्ति
त्वयाऽपलप्यमाना पूर्वोक्तसर्वप्रमाणविरोधितां 'ते' वचसः सम्पादयति । तस्मादयुक्तो भवतोऽभिप्राय इति ग्रन्थो गतार्थत्वान्न विवियते।
. 'तद् वस्तु घटाख्यं भवत् सर्वरूपं भवति' इत्येतद् भावयितुमाह-घटो मत, मृन्मयत्वात् मृत्त्वं घटस्य सिद्धम्, मृदः पृथिवीत्वं तदंशत्वात्, पृथिव्या द्रव्यत्वं द्रुविकारत्वात् सत्ताविकारत्वात्, द्रव्यस्य 10 भव्यत्वात्, भव्यस्य भवितृत्वात्, भवितुः सर्वत्वात्, सर्वं हि भवद् भवति, तच्च सदस्ति भाव इति घट-पटादि सर्व परस्परस्वरूपम्, तस्मात् सर्वस्य सर्वत्वात् सर्वरूपो घट उपलभ्यते । किमिव ? हस्तवत्, यथा हस्तोऽङ्गुलपर्व-सन्धि-रेखादिसर्वरूप उपलभ्यते सदेकाङ्गुलाद्यात्मकत्वात् तथा घटोऽपि संदेकात्मकपटादिरूप उपलभ्यत एवेति न किञ्चिदेतत् 'अन्यथा तावन्नास्त्येव घटः' इति, अन्यथा ५५७-१ तथापि च घटस्य सत्त्वादन्यि]थात्वासिद्धेरिति ।
. 15 अथोच्येत-अन्यत्वं तर्हि साध यामि भिन्न एवासावर्थो घटः पटादिभ्यो भिन्नप्रकारत्वात् वादि-प्रतिवादिमतिवचनवत् वर्ण-संस्थान-प्रयोजनादिप्रकारभेददर्शनाच्च नासिद्धिर्हेतोः । अतोऽन्यत्वे सिद्धे तदुपलब्धिरपि भिन्नप्रकारैवेति न स्यात् सर्वसर्वरूपोपलब्धिरिति। .........
___एतच्च न, तुल्यत्वात्, नैतदुत्तरं तुल्यत्वादस्य हेतोरस्मत्पक्षसाधनत्वेन । तद्भावना-येन प्रकारेणैकस्यात्मलाभो घटस्य तेन प्रकारेणास्तित्वैकत्वादिना सर्वभावानामप्यात्मलाभो 20 देश-कालभेदाभिमतोर्ध्व-मध्या-ऽधोभाग-नव-युव-मध्य-पुराणादिना। अतः प्रतिज्ञायते-सर्वोऽप्यभिन्नोऽसावर्थ इति । नसहितः स एव हेतुः 'आत्मलाभे भिन्नप्रकारत्वात्' इति यस्त्वयोक्तः 'आत्मलाभेऽभिन्न प्रकारत्वात्' इति स वक्तव्यः । एकवदिति दृष्टान्त:, यथैको घटः पटो वा भवन्नू
भंदि-नवादि-देश-कालप्रकारेण भिन्न इत्यभिमतोऽप्यभिन्न एव अस्तित्वैकत्व-घटत्वाभेदात् एवं पटादिः तथा सर्वभावा अभिन्नप्रकारात्मलाभत्वाः स्युः।
..... 25 १ते चसः य०॥ २ सत्वाधिकारत्वात् प्र०॥ ३ सर्व भा०॥ ४ सदेकाद्यात्मक भा०॥ ५१०८६५ पं० ३॥ ६ अथोच्यते भा० । अथोच्यते य०॥ ७ वातस्य य० । त्वात्स्य भा०॥ ८१०८४१५०१॥ ९१० ८४१ पं० २॥ १० लाभेऽभिन्न भा० ॥ २०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org