________________
८६५ न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[द्वादशारान्तरे एते चेन्नेष्यन्ते सर्व घटोऽस्त्येक इति प्रतिपत्तव्यम्, घटानान्तरत्वात्, घटस्वात्मवत् । विपरीतस्वभावाभावबहुत्वाद्याशङ्कानवतार एव अन्यत्वानभ्युपगमात्।
अथोच्येत-नन्वन्यथा तावद् नास्त्येव घटः । घटः पटत्वेन नास्ति पटोऽपि घटत्वेनेत्यादि । घटो हि घट एवोपलभ्यते न त्वसौ पटोऽपीति । अथ पुनः सामान्ये घटस्यास्ति5 त्वैकत्वे स्यातां ततः सर्वरूप उपलभ्येत घटः।
को वा ब्रवीति नोपलभ्यत इति ? 'न भोः! अहमुपलभ्यमानमेव सर्वरूपं सन्तं
तन्तु-पट-व्रीयुदकादिपरिवर्तस्य प्रत्यक्षं दर्शनात् प्रत्यक्षविरोधस्तद्भावमेव सर्वात्मकमनिच्छतः ।
तादृग्विधार्थानुमेयत्वादनुमानविरोधः लोका-ऽऽगमा-ऽभ्युपगम-स्ववचनविरोधाः स्वपरलोकप्रसिद्ध५५६-१ साधनदूषणसंव्यवहाराभ्युपगमादस्त्येकत्वाव्यतिरेकाच्च तेषाम् । 10 एते चेन्नेष्यन्ते मा भूवनेते दोषा इति मदुक्तं यावत् किञ्चित् तत् सर्व घटोऽस्त्येक इति
प्रतिपत्तव्यम्, कस्मात् ? घटानान्तरत्वात्, घटस्वात्मवदिति साधनमुपसंहारार्थम् । एवं तावत् त्रयाणामेकत्वे नास्ति दोषः ।
यत् पुनरुक्तम् 'अस्त्येकघटानां त्रयाणां नानात्वे विपरीतस्वभावत्वं घटबहुत्वमभावत्वं च प्राप्नुयुः' इति विकल्पान्तराशङ्कया विचारान्तरं कृतं तत्र ब्रूमः-विपरीतस्वभावा-ऽभाव-बहुत्वाद्या15 शङ्कानवतार एव, अन्यत्वानभ्युपगमात् सर्वशक्त्येकवस्तुतदात्मभेदैकीभावेन संसिद्धिसद्भावाभ्यु
पगमादप्रतिज्ञातव्या (स्या) रोपणं तत् स्वमतिविलसितमात्रमेव ते । तस्मात् तद्विकल्पगतदोषा नास्मान् बाधन्त इति ।
अथोच्यत-नन्वन्यथा तावदित्यादि । इदं तावद् नास्तित्वं प्रत्यक्षादिप्रमाणसिद्धम्-घटादि अन्यदन्येन प्रकारेण उष्ट्राद्यप्य[न्य]दन्येन घटोऽपि पटादुष्ट्रोऽपि गर्दभादन्योऽन्यथा प्रत्यक्षादिभिरुपलभ्यते 20 नास्तीति, तद्यथा-घट: पटत्वेन नास्ति पटोऽपि घटत्वेनेत्यादि । तद् भावयति-घटो हीत्यादि, हिशब्दो ५५६-२ यस्मादर्थे, यस्माद् घटो घट एवोपलभ्यते न त्वसौ पटोऽपीति उपलभ्यते, तस्मात् प्रत्यक्षत एव घटः
पंटत्वेन नास्ति। अथ पनस्त्वन्मतेन यदि सामान्ये घटस्य तस्यास्तित्वैकत्वे स्यातां ततस्त्वदुक्तन्यायेन सर्वरूप उपलभ्येत घट: पट-कट-रथादिरूपः, न तूपलभ्यते, तस्मान्नास्ति पटादित्वेनेति पररूपेणाभावः ।
तथा स्वरूपेणाप्यभावः पररूपासत्त्वादिति प्राप्तः खपुष्पवदिति । 25 अत्र ब्रूमः–को वा ब्रवीतीत्यादि । सर्वरूप उपलभ्यत एव, 'नोपलभ्यते' इति त्वन्मुखादेत
च्छ् यते । ने भो इत्यादि, 'त्वं नाम सर्वात्मकमुपलभ्यमानमप्यपलप्य शून्यं कर्तुमिच्छसि, न पुनरहमुपलभ्यमानमेव सर्वरूपं सन्तं कर्तुं शक्नोमि' इत्यहो साहसम् । उपलब्धिः सर्वलोकप्रत्यक्षा
१ धाः परलोक भा० ॥ २ पृ० ८३७ पं०३ ।। ३ पृ० ८३७ पं० २०, पृ० ८३९ पं० १, पृ० ८४० पं० २॥ ४ पृ० ८६३ पं० २३, पृ० ८६१ पं० १७ ।। ५ वाधत्त भा० । व्यधत्त य० ।। ६ अथोचेत भा० । अथोच्यते य० ॥ ७ १०८६६ पं० १४ ।। ८ पटत्वेनास्ति य० ॥ ९ न भोः प्र० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org