SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ स्वपरोभयभावसाधनम्] द्वादशारं नयचक्रम् ८६४ भावाः। यत्रास्तित्वमित्यादि साधनं पूर्ववत् । अस्तित्वैकत्वाभ्यामनन्ये सर्वभावाः घटादयः, एकश्च घटस्तदनन्यदस्तित्वम्, संश्च घटस्तदनन्यदेकत्वम् इति घटे सर्वसिद्धिः। तथा घटत्वं यत्र तत्रास्तित्वैकत्वयोरपि निष्कलेनैव स्वतत्त्वेन भवितव्यम्, अनर्थान्तरत्वात्, यत्र यस्यानन्तरत्वं तत्र तस्य निष्कलमेव स्वतत्त्वं भवति घट इव घटस्वतत्वस्य । अतो घटादनन्यत्वेऽस्तित्वैकत्वयोरस्तित्वैकत्वाव्यतिरेकाद् घटवत् सर्वः पटादिरपि 5 घटः। तथाऽपादिः। उर्ध्वमध्यबुध्नदेशभेदेऽप्यभिन्नः स एवैकोऽस्ति च घटः। बालकुमारादिभेदे स एवैको नरः। तथा सर्वभावाः। तथा च सर्वात्मकमेकमेवास्ति वस्त्विति प्रत्यक्षादिप्रमाणरुपलभामहे। अन्यथा प्रत्यक्षादिविरोधाः। किञ्चान्यत्, यत्रास्तित्वमित्यादि द्वितीयमनिष्टापादनं परेणोक्तं तदपीष्टमेवेति पूर्ववत् 10 परिहार इति मैन्यमानस्तथैव साधनं पूर्ववदित्यतिदिशति । तद्यथा-यवास्तित्वं तत्रैकत्वस्यापि निष्कलेनैव स्वतत्त्वेन भवितव्यम्, ततोऽनन्तरत्वात्, यत्र यस्यानर्थान्तरत्वं तत्र तस्य निष्कलमेव स्वतत्वम्, अस्तित्वेऽस्तिस्वतत्त्ववत्, एकत्वस्वतत्त्वं च सर्वस्मिन्नेकैकस्मिन् एकैकमस्त्येकं चेत्यतोऽ-५५५-२ स्तित्वैकत्वाभ्यामनन्ये सर्वभावाः। के च ते ? घटादयः घट-पटादयः । एकश्च घटस्तदनन्यदस्तित्वम्, एकघटादनन्यदस्तित्वम्, तस्मादेक-घटाभ्यामनन्यस्मादस्तित्वादनन्ये सर्वभावाः। अत 15 एकस्मादव्यतिरेकात् सर्वमेव घट: पटादिः । संश्च घट इति सत्त्वेनैकत्वाव्यतिरेकद्वारेण प(घ)टैकत्वास्तित्वाभ्यां सर्वभावघटत्वं यथा एवं घटे सर्वसिद्धिः अस्तित्वाव्यतिरेकादेकत्वाय॑तिरेकत्वाच्चेति घटे सर्वसिद्धिरुक्ता। तथा घटत्वमित्यादिना घटे अस्तित्वैकत्वाव्यतिरेकत्वादनन्तरत्वादिनाऽस्तित्वैकत्वाव्यतिरेकाद् घटवत् सर्वः पटादिरपि घटः । तथाऽपादिः उदकादिरपि घट एव यावान् भावः, न मे 20 कश्चिद्दोषः, मत्पक्षसाधना एव ते हेतवः। तन्निदर्शनम्-देशमात्रभेदे तावत् ऊर्ध्वमध्यबुध्नदेशभेदेऽप्यभिन्नः स एवैकोऽस्ति च घटः, कालमात्रभेदेऽपि बाल-कुमारादिभेदे स एवैको नरः, तथा सर्वभावाः, परस्परतो देश-काला-ऽऽकारादिमात्रभेदेऽपि एकभवनाविशिष्टत्वादभिन्न एक एव भावो भिन्न इवाभाति । तथा चेत्यादि । एवमुक्तन्यायेन सर्वात्मकमेव (क)मेवास्ति नित्यं सर्वगतं सर्वभेदस्वभावं च 25 वस्त्विति प्रत्यक्षादिप्रमाणैरुपलभामहे । अतोऽन्यथा प्रत्यक्षादिविरोधाः, घटस्य कपाल-मृत्-कर्पास ११० ८३६ पं० २॥ २ सामान्य भा० । (स मन्य?) ॥ ३ यत्रस्यानर्थान्तरत्वं तत्रस्य प्र० ॥ ४ व्यतिरिक्तत्वाय० । तुलना-पं० १७॥ ५५० ८३६ पं०६॥ ६ तुलना पं०१७॥ ७ पृ० ८३६६०८॥ ८ दिपरि घट य० ॥ ९ ये प्र०॥ १०त्यकमेवास्ति य० । १०८६१५०११॥ ११ पु०८३७५० १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy