________________
उभयविधिमतनिरूपणम्
द्वादशारं नयचक्रम् कालदिगात्ममनोद्रव्याणामितरेतरासतामेव भावादिसम्बन्धात् तथा तथान्यता, अन्यत्वे एव असति सत्त्वम् । गुणकर्मणोरप्येवमेव । न चास्यान्यस्मात् सदभिधानप्रत्ययौ खपरप्रकाशहेतुत्वात् प्रदीपवत्, खसद्भावेन सत एवासत्त्वं सम्बन्धसद्भावाभावात्, अगुणगुणवत् । एवं सामान्य सामान्यमेव । कार्यद्रव्यादीनां खभावसद्भावो. न भवतीति भवत्येव । किश्चित् तु भवत्येव भवति परमाण्वाकाशकालदिगात्ममनो-।
सत्तासम्बन्धात् सत्त्वं भवति देव्यत्वसम्बन्धाद् द्रव्यत्वं भवति । ततश्च सत्तातो द्रव्यत्वाच्चान्योन्यतश्च तेन तेन प्रकारेणान्यता, अन्यत्व एवेतरेतरासतां भावादिसम्बन्धा[द]न्यत्व एव असति सत्त्वमन्य[त्व] एवेति । गुणकर्मणोरप्येवमेवेति, भाव-गुणत्व-कर्मत्वादिभिः सम्बन्धादितरेतरासतामेव सगुणकर्मत्वानि । एवं भावोऽसतां सम्बन्धात् सत्त्वं जनयति द्रव्यादीनामित्युक्तम् , तथा किं भावस्य सम्बन्धोऽन्येन .. जन्यते ? नेत्यत्रोच्यते - न चास्येत्यादि । स हि स्वयं सम्बन्धादन्येषां सदभिधानप्रत्ययहेतुर्नान्यस्मात् सदभि-10 धानप्रत्ययौ लभते, स्वपरप्रकाशहेतुत्वात् , प्रदीपवत् , न हि प्रदीपो घटादिप्रकाशनसमर्थः स्वप्रकाशने ३१३-२ घटादीनपेक्षते तथा सत्तापि । तस्मात् तस्य स्वभावसद्भावेन संत एवासत्त्वं सम्बन्धसद्भावाभावात् , नेतरेतरासत्त्वात् , यथा 'गुणोऽगुणः' इति नास्य गुणोऽस्तीत्यगुण उच्यते गुणः, न तु गुणो न भवतीति । कस्मात् ? गुणान्तरसम्बन्धाभावात् , न स्वयमगुणत्वादिति । एवं सामान्य सामान्यमेवेति गतार्थम् , एवं तावत् स्वत एव भावः संत्तान्तरानपेक्षः सन् । योऽप्यसौ स्वभावसद्भावः कार्यद्रव्यादीनां परतो भाव-15 सम्बन्धादधेियस्तस्मादेवासन्निति न, किं तर्हि ? तन्न भवतीति भवत्येव, अभूत्वा भावात् भूत्वा चाभावात् कार्यस्य स्वसद्भावेनैवासत् सद् भवति सदप्यसद् भवतीति तस्य स्वसद्भावस्य कार्यस्य सदसद्भावद्वैरूप्यं तदेतत्समर्थविकल्पत्वात् , एकपुरुषपितृपुत्रत्वादिवदिति भावितमेवं । तस्मात् सर्वमन्यथान्यथैव सामान्य विशेषात्मकं भवति । किञ्चित् त्वित्यादि । इदं पुनर्भवत्येव भवति स्वसद्भावादेव नाभूत्वा न सत्तासम्बन्धात् परमाण्वाकाशकालदिगात्ममनोद्रव्यादि, 'आदि'ग्रहणात् सँमवाय-20
१ द्रव्यसत्वसम्ब य०॥ २°न्यतान्यता भा० ॥ ३ संबंधान्यत्व एवा भा० । 'संबंधान्यत्य एवाय० ॥ ४ मन्य एबेति भा० । 'मन्यवत्य एवेति डे० । मन्यवन्य पवेति पा० । मन्यदन्य एवेति रं. ही० । मन्यवय एवेति वि०॥ ५ दृश्यतां पृ० ४४४ टि. ४ ॥ ६ सगुणकर्मत्वाम्यत्वानि य० । 'सत्त्वं गुणत्वं कर्मत्वं परस्परतोऽन्यत्वं च' इत्यर्थ विवक्षायां य०प्रतिपाठोऽपि साधुरेव ॥ ७सत्येवासवं प्र० ॥८"आनुषङ्गिकाः सामान्यादयस्त्रयः पदार्थाः, तत्र सामान्यं कथयति - सामान्यं विशेष इति बुद्ध्यपेक्षम् [ वै० सू० १।२।३]; भिन्नेषु पिण्डेष्वनुवर्तमानां 'गौौः' इति बुद्धिमपेक्ष्य एभ्य एव च परस्परतो व्यावर्तमानाम् 'अयमस्मादन्यः' इति तदनुवृत्ति बुद्ध्यपेक्षं सामान्य व्यावृत्तिबुद्ध्यपेक्षो विशेष इति । भावः सामान्यमेव [ वै० सू० १।२।४ ], सत्ता सामान्यमेव, विष्वपि द्रव्यादिष्वनुवर्तमानत्वात् न विशेषः ।" इति चन्द्रानन्दविरचितायां वैशेषिकसूत्रवृत्तौ P. पृ. ९॥ ९ सतान्त भा०। सवान्त य०॥ १० दावेय प्र०॥ ११च। भावात पा० भा० । चभावात् पा० भा० विना ॥ १२ दृश्यता पृ. ४३६ पं० २॥ १३ न्यावशे' प्र०॥ १४“इहोते यतः कार्यकारणयोः स समवायः [वै० सू० १२।२९], गुणादयः समवायिनो द्रव्ये अतः समवायं कथयति-इहेति यतः कार्यकारणयोः प्रत्यय उत्पद्यते 'इह तन्तुषु पटः, इह घटे रूपादयः, इह घटे कर्म' इति [स] समवायः। कार्यकारणग्रहणस्योपलक्षणत्वात् 'जातेय॑क्तौ विशेषाणां चं नित्यव्येषु समवायः' इत्युक्तं भवति ।" इति चन्द्रानन्दविरचितायां वैशेषिकसूत्रवृत्तौ P. पृ. २८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org