________________
४४४
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [षष्ठे विधिनियमविध्यरे - अयं तूभयप्रधानविधिः-आरब्धानारब्धद्रव्याणां स्वभावभेदाद् विशेषः, भावसत्त्वस्य अत्यन्तव्यञ्जनवातच्यादन्यथाभूतेः । पृथिव्युदकतेजोवाय्वाकाश
३१३
अयं तूभयप्रधानविधिरिति निगमनम् । तुशब्दो विशेषणार्थः, एवं ह्यसौ विशिष्टार्थाधिकारापरित्यागेनैव सामान्यविशेषयोविधिरिति । कीदृश इति चेत् , तन्निदर्शयति - आरब्धानारब्धेत्यादि सप्र
भेदषट्पदार्थपरस्परान्यत्वप्रदर्शनार्थो ग्रन्थो यावत् कर्मणि तु स्वभावसम्बन्धसद्भावाभ्यामिति प्रायो 'गतार्थः, तथापि किञ्चिदुच्यते - पार्थिवादिपरमाणुद्वयणुकाद्यारब्धानामपि स्वभावभेदाद् देशकालाभेदेऽपि नानात्वम् , परमाण्याकाशादीनामनारब्धानां च तत एव, भावसम्बन्धाभिव्यङ्ग्याभेदेऽपि सति आरभ्याणां च कादाचित्कत्वादितरेषां नित्यत्वाद् विशेषः । भावसत्त्वस्य सत्तासत्त्वस्य स्वभावसद्भावेऽपि विशेषः,
कस्मात् ? अत्यन्तव्यञ्जनस्वातन्त्र्यात् , इतरे व्यज्यन्ते स तु व्यनक्त्येवेति । अन्यथाभूतेः, एवमन्येन 10 प्रकारेण भवनात् 'सर्वत्र सन्निहितमेव भवति' इत्यभावात् अन्यथाभूतेरिति । यद्येवं भावव्यञ्जनास्वातव्ये
सत्येव न स्यात् , नैव स्यात् सत्ता सम्बन्धरहितत्वात् खपुष्पवत् , भावो हि सद्भावसद्वयञ्जनस्वातव्याभावात खपुष्पवद् न स्यादिति । पृथिव्युदकेत्यादि । एतान्यपि द्रव्याणि इतरेतराभावात्मना न सन्ति, असतामेव
१°कारार्थपरि° भा० ॥ २ वातनये व न स्यात् य० ॥ ३ 'सती एव' इत्यर्थो भाति ॥ ४"अथातो धर्म व्याख्यास्यामः [ वै० सू० १११११], कस्यचिद् ब्राह्मणस्य वेदाभ्यासवशेन व्यपगतकल्मषस्येदं वेदवाक्यं प्रतिबभौ 'अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः' [छान्दोग्योप० ८२] इति। तत इदं वाक्यमालोच्य कणभक्षमाजगाम । ततोऽभ्युवाच -भगवन् । अनेन वाक्येन अपहतशरीरस्य क्षेमसाधनता कथ्यते, तदुच्यताम्-क उपाय इति । ततो मुनिरभ्युवाचधर्म इति । ततो जगाद ब्राह्मणः-को धर्मः कथंलक्षणः कान्यस्य साधनानि कि प्रयोजनं कांश्च प्रत्युपकरोतीति । अत एभ्यः प्रश्नेभ्योऽनन्तरं धर्मव्याख्यानप्रतिज्ञायाम् 'अथ शब्द आनन्तर्यमभिधत्ते, 'अतः'शब्दोऽपि वैराग्यप्रज्ञाकथापरिपाकादिकां शिष्यगुणसम्पदं हेतुत्वेनोपदिशति, यस्मादयं शिष्यो गुणसम्पदा युक्तस्ततोऽस्मै प्रश्नेभ्योऽनन्तरं धर्म व्याख्यास्यामः । को धर्म इत्याहयतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः [वै० सू० १११२], यागदेवतापूजादिक्रियाणामाज्यपुष्पादिनिर्वानां तदैव विनष्टत्वादुत्तरकालं फलदानाशक्तर्यस्माद्धेतोरभ्युदयनिःश्रेयसे भवतः स धर्म इति बोद्धव्यः । अभ्युदयो ब्रह्मादिलोकेष्विष्टशरीरप्राप्तिरनर्थोपरमश्च । निःश्रेयसमध्यात्मनो वैशेषिकगुणाभावरूपो मोक्षः । कुत एवंलक्षणो धर्मो ज्ञायत इति चेत्, आम्नायात् तस्य प्रामाण्यम् । कथमित्याह -तद्वचनादानायप्रामाण्यम् [वै. सू. १११।३], तदिति हिरण्यगर्भपरामर्शः, हिरण्यं रेतोऽस्येति कृत्वा भगवान् महेश्वर एवोच्यते । आप्तेन उक्तत्वस्य सत्यताव्याप्तत्वादिहाप्तेन हिरण्यगर्भेणोक्तत्वादाम्रायस्य प्रामाण्यं साध्यते । ईश्वरश्च साधितस्तनुभुवनादीनां कार्यतया घटादिवद् बुद्धिमत्कर्तृकत्वानुमानेन । उक्तं धर्मखरूपं तल्लक्षणं च । साधनान्यस्येदानीं द्रव्याणि वक्ष्यामः, तत्र पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि [वै० सू० १।१।४], द्रव्यत्वाभिसम्बन्धाद् द्रव्याणि, नाधिकानीत्येवमर्थः 'इति'शब्दः । एवमुद्दिष्टानि द्रव्याणि । के पुनर्गुणा इत्याह-रूपरसगन्धस्पर्शाः सजाया (सङ्ख्याः ।) परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषी प्रयत्नश्च गुणाः [वै. सू. १।१।५], एते सप्तदश कण्ठोक्ता रूपादयो गुणाः चशब्दसमुचिताश्च गुरुत्वद्वत्वस्नेहसंस्कारधर्माधर्मशब्दा गृह्यन्ते, एते यथावसरमुत्तरत्र वक्ष्यन्ते।कानि पुनः कर्माणीत्याह-उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि [ वै० सू० १।१।६], एतान्येव पञ्च कर्माणि द्रष्टव्यानि, 'गमन ग्रहणाद् भ्रमणरेचनादीनां प्रहणम्, एवमुद्दिष्टानि द्रव्यगुणकमोणि । तदनुषङ्गात् सामान्य-विशेष-समवाया अपि वक्ष्यन्ते । एवं षण्णा पदार्थानां साधयेवैधर्म्यपरिज्ञान विषयदोषदर्शनद्वारेण वैराग्योत्पत्तौ सत्यां निःश्रेयसे साध्ये धर्महेतुः । अभ्युदये साध्ये धर्महेतुत्वं पुनरमीर्षा 'समे यजेत' इति पृथिव्याः, अपोंबूनि( अपः 'अम्बूनि? अपाम् 'अम्बूनि?) नयति' इत्यादि यथाखमन्येषां द्रव्याणाम् । गुणानां तु 'कृष्णमालभेत' इत्यादि । कर्मणां तु 'नीहीन अवहन्ति' इत्यादि।” इति चन्द्रानन्दविरचितायां वैशेषिकसूत्रवृत्ती P.पू. ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org