________________
उभयविधिमतस्वरूपनिरूपणम् ]
द्वादशारं नयचक्रम्
४४३
एवमेव भयस्यैवाभयप्राधान्यस्यापि विधिः, न तु द्रव्यक्रिययोः उभयप्राधान्याभावात् तथाभूतार्थविषयत्वात् सन्निधानस्य व्यक्तेरपि तद्भवनतन्त्रत्वात् ।
गगनादिष्वैतत्सम्बन्धिष्वभाववदिति । एवमेव ह्युभयस्यैवोभयप्राधान्यस्यापि विधिर्यथास्माभिरुक्तः तथैव सामान्यस्य विशेषस्य च विधिः सम्भवति, अत्यन्तविशेषरूपत्वात् पदार्थषट्कभेदानाम्, तथा सामान्यविशेषद्वयविधिरपि भवितुमर्हति न तु पूर्वनॅयेष्टो द्रव्यक्रिययोः, उभयप्राधान्याभावादस्वा-5 ये कर्तृत्वाभावादिति । अस्माभिस्त्वदनुकम्पया अभ्युपगतेऽपि कॅर्तृत्वे स्वतत्रभवनात्मके द्रव्यस्यैव प्राधान्यमिति तद्विधानात् क्रियायाः प्राधान्याविधानात् 'भवेद् द्रव्यं कर्तृ स्वातंत्र्यात् न क्रिया प्राधान्याभावात्' इत्येवं युक्त्या प्राप्तेऽपि त्वदनुकम्पया तयोः कर्तृत्वे वाभ्युपगतेऽपि न भवितुमर्हति उभयप्राधान्याभावादित्यर्थः । किं कारणमुभयप्राधान्यं नास्ति इति चेत्, उच्यते - तथाभूतार्थविषयत्वात् सन्निधानस्य, द्रव्यं हि सन्निहितभवनमिष्यते तथातथाभवद्भावाभिर्मुखसन्निहितघटादिभवनगेहवत्, 10 गेहसन्निहितघटवत् सर्वथा तेषां क्रियाव्ययाभिमतानां द्रव्ये सन्निधानाभ्युपगमात् प्रदीपेनेव गेहे सन्निहितानां घटादीनां क्रियया न किञ्चित् प्रयोजनम्, सम्भाव्यमानमपि प्रयोजनमभिव्यक्तिमात्रं स्यात्, तस्या व्यक्तेरपि तद्भवनतन्त्रस्वात् द्रव्यभवनस्यैव प्रधानस्योपकारमात्रार्थत्वाद् व्यक्तेरप्राधान्यमिति ।
सन्निकर्षात् सामान्याच्च सादेः( सत्तादेः ? ) सामान्यविशेषाच्च द्रव्यत्वादेः सदिति द्रव्यमित्यादि च ज्ञानमुत्पद्यत इति । इह सूत्रे सामान्यं सत्ता, विशेषा द्रव्यत्वादयः, पूर्वसूत्रेऽन्यथा । तत्रापि द्रव्ये द्रव्यगुणकर्मापेक्षम् [वै० सू० ८1७ ], चक्षुःसन्निकर्षाद् यज्ज्ञानं द्रव्ये सामान्यविशेषापेक्षं 'विषाणी' इति, गुणापेक्षं 'शुक्लः' इति, कर्मापेक्षं 'गच्छति' इत्युत्पद्यत इति । द्रव्यादीनां च विशेषणत्वात् पूर्वमुपलम्भः, तेन विशेषणबुद्धेः कारणत्वं विशेष्यबुद्धेः कार्यत्वम् । गुणकर्मसु गुणकर्माभावाद् गुणकर्मापेक्षं न विद्यते [ वै० सू० ८८ ], गुणे गुणकर्मणोरभावात् कर्मणि च गुणकर्मनिमित्तं गुणकर्मसु ज्ञानं न भवतीति । द्रव्यादौ ज्ञानस्य पूर्वोत्पत्तावनियमः, यथा समवायिनः श्वत्याच्छ्रुत्यबुद्धेः श्वेते बुद्धिस्ते कार्यकारणभूते [ वै० सू० cis ], श्वेतगुणसमवायिनः श्वेत (चैत्य ) सामान्यात् श्वैत्यसामान्यज्ञानाच श्वेतगुणज्ञानं जायते, सामान्यगुणसम्बन्धोऽपि द्रष्टव्यः, अतो विशेषणबुद्धिः कारणं विशेष्यबुद्धिः कार्यम् । विशेषणविशेष्य [ताs]भावे तु द्रव्येष्वनितरेतर कारणात्कारणायोगपद्यात् [ वै० सू० ८/१० ], अणुत्वाद् मनसो यौगपद्याभावात् सत्यपि क्रमे घटपटज्ञानयोर्न कार्यकारणभावः विशेषणविशेव्यत्वायोगात् । तथा द्रव्यगुणकर्मसु कारणाविशेषात् [ वै० सू० ८1११], गौः शुक्ला गच्छतीति च द्रव्यगुणकर्मसु ज्ञानानां क्रमेणापि जायमानानां न कार्यकारणभावः विशेषणविशेष्यताऽभावादित्यस्य पूर्वोक्तस्य कारणस्याविशेषात् । त द्रव्यज्ञानं न गुणकर्मबुद्धयोः कारणम्, गुणकर्मबुद्धी अपि न परस्य कारणम् । विशेषणन्यायाभावे तु अयमेष कृतं त्वया भोजनमिति बुद्धयपेक्षम् [ वै० सू० ८।१२ ], 'अयम्' इति सन्निकृष्ठे 'एषः' इति च किञ्चिद्विप्रकृष्ठे प्रत्ययः, 'कृतं त्वया' इति कर्मकर्तृ प्रत्ययो (य), 'भोजयैनम्' इति कर्तृकर्मप्रत्ययौ । सन्निकृष्टापेक्षो विप्रकृष्ठे प्रत्ययः, 'कृतम्' इति कर्मापेक्षः कर्तरि, ‘भोजय' इति कर्त्रपेक्ष(क्षः) कर्मणि । कुतः सापेक्षा इति चेत्, दृष्टेषु भावाददृष्टेष्वभावात् [ वै० सू०८।१३ ], दृष्टेषु सत्सु यतः सन्निकृष्टादिषु विप्रकृष्टादिप्रत्यया भवन्ति नादृष्टेषु अतः सापेक्षा अपि सन्तो न कार्यकारणभूता विशेषणविशेष्यस्वायोगात् । " इति चन्द्रानन्दविरचितायां वैशेषिकसूत्रवृत्तौ P. पृ० २९ ॥
१ स्वत प्र० ॥ २ एवमेव भा० । एवमेवाधुभ य० ॥ ३ विधेर्यथा' प्र० ॥ ४ नये भा० ॥ ५ “स्वतन्त्रः कर्ता” इति पाणिनीयध्याकरणे, १|४|५४ ॥ ६ द्रव्यस्यैव च प्राधान्यमिति द्विधानात् य० ॥ ७ पूर्वनयेष्टो द्रव्यक्रिययोर्विधिर्न भवितुमईतीत्यर्थो भाति । दृश्यतां पं० ५ ॥ ८ ( °मुखं सन्नि° ? ? ? ) ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org