________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [षष्ठे विधिनियमविध्यरे खभावः खरूपसत्ता, सम्बन्धः सम्बन्धसत्ता यत्सम्बन्धाद् द्रव्यगुणकर्मसु सदिति भवति।
न तु भवत्येव भावः सन् , द्रव्यगुणकर्मवत् सत्तास्वतत्त्वासमवायात् । दण्डवत्तु अर्थान्तरापेक्षत्वाद् द्रव्यगुणकर्मणां सत्तादिसम्बन्धानुरूपप्रत्ययहेतुत्वं सामान्यादीनाम् , न त्वगृहीते विशेषणे विशेष्ये बुद्धिरनुप्रवर्तते।
पृथग्विभिन्नरूपौ दर्शयति । तद्वयाख्या - स्वभावः सम्बन्धश्चेत्यादि गतार्थं यावद् द्रव्यगुणकर्मसु 'सत्' इति भवति, स्वरूपसत्ता नार्थान्तरमपेक्षते सम्बन्धसत्ता त्वपेक्षत इत्यर्थः ।
न तु भवत्येवेत्यादि । न तु भावः सत्ता सैन् , द्रव्यगुणकर्मवत् सन्न भवति सद्भावसामान्येऽपि भावानां प्रतिस्वं स्वभावभेदात् , द्रव्यगुणकर्मसद्वेधात् सन्न भवति न द्रव्यं भवति न घटादिर्भवति, 10 द्रव्यत्वर्घटत्वादिसम्बद्धद्रव्यादिघटादिवद् ने स द्रव्यादि भवतीत्यर्थः । किं कारणम् ? सत्तास्वतत्त्वासमवायात्, सत्तासमवायो द्रव्यत्व-गुणत्व-कर्मत्व-घटत्वादिस्वतत्त्वसमवायो वा सत्ताया यतो नास्ति, ते हि द्रव्यादयः सत्तास्वतत्त्वसमवायात् सद्व्यघटादिव्यपदेशार्दा भवन्तीति । एषोऽपि विशेषः किमर्थं सत्तास्वतत्त्वसमवायाद् द्रव्यादि सद् भवति न पुनद्रव्यादिसमवायात् सत्तादिस्वतत्त्वानि ,व्यादीनि
भवन्ति इति चेत् , उच्यते - स्वरूपसंत्तया सतामपि सामान्य-सामान्यविशेष-विशेष-समवायानामसत्त्वात 15 स्वसद्भावादेव सतां सम्बन्धसद्भावशून्यानां सत्तादीनामितरेभ्यो *विशेषः, स तु सम्बद्धद्रव्यादीनामस्तीति* दर्शयति -- दण्डवत् त्वर्थान्तरेत्यादि गतार्थं यावद् विशेष्ये बुद्धिरनुप्रवर्तते इति । 'विशेषणस्वरूपप्रत्ययनिमित्तत्वाद् विशेषणानां सत्तादिसम्बन्धानुरूपप्रत्ययहेतुत्वं सामान्यादीनां स्वाश्रयेषु दण्डनिमित्तदण्डिप्रत्ययवत् द्रव्यगुणकर्मणां न त्वगृहीते विशेषणे, रश्वैत्यादिविशेषप्रत्ययस्य
३१२-२
१'दण्डवत्तु अर्थान्तरसम्बन्धानुरूपप्रत्ययनिमित्तत्वाद् विशेषणानां सत्तादिसम्बन्धानुरूपप्रत्ययहेतुत्वं सामान्यादीनाम्, न त्वगृहीते विशेषणे विशेष्ये बुद्धिरनुप्रवर्तते' इत्यपि मूलपाठः सम्भवेत् ॥२ स्वभावसम्बन्धश्चेत्यादि भा० । स्वभावसम्बन्धन्येत्यादि य० ॥ ३ सद्रव्यगुणकर्मवत् य० ॥४°घटादिसंबंधद्रव्यादि प्र० ॥ ५ अत्र न सद्व्यादि इत्यपि पाठः स्यात् ॥ ६द्रव्यादीनि न भवन्ति प्र० । अत्र 'न' अधिकः ॥ ७ सत्ताया प्र०॥ ८*विशेषस्तत्तु संबंधद्रव्यादीनामस्तीति* प्र० । अत्र विशेषः, स तु सम्बन्धो द्रव्यादीनामस्तीति इत्यपि पाठः स्यात् ॥ ९ विशेषेण प्र० ॥ १० सामादीनां प्र० ॥ ११ खैत्यादि प्र० । “बुद्धिरिदानीं निरूप्यते-द्रव्येषु ज्ञानं व्याख्यातम् [वै० सू० ८१], षण्णां पदार्थानां मध्याद् द्रव्येष्वेव ज्ञानं व्याख्यातम् , यथोत्पद्यते सन्निकर्षात न तथा गुणादिषु । तस्य मन आत्मा च [वै० सू० ८१२ ] मन आत्मा च ज्ञानस्य कारणं व्याख्यातम् । इदानीं गुणादिषु ज्ञानमाह -ज्ञाननिर्देशे ज्ञाननिष्पत्तिरुक्ता [वै० सू० ८।३ ], यत इन्द्रियसनिकर्षेण ज्ञाननिष्पत्तिरुक्ता गुणादीनाम् । यतः गुणकर्मसु असन्निकृष्टेषु शाननिष्पत्तेर्द्रव्यं कारणं कारणकारणं च [वै० सू० ८।४ ], गुणकर्मणां यतो द्रव्यं समवायिकारणं ततस्तेषु साक्षादिन्द्रियेण असन्निकृष्टेषु विज्ञाननिष्पत्तेः कारणस्य सन्निकर्षस्य तदेव द्रव्यं कारणं न गुणकर्माणि, तस्माद् गुणकर्मसु संयुक्तसमवायं ज्ञानम् , 'च'शब्दो हेतौ । सामान्यविशेषेषु सामान्यविशेषाभावात् तत एव ज्ञानम् [वै० सू० ८५], सामान्ये सत्तादौ विशेषेषु चान्त्येषु तद्दर्शिनां द्रव्यसन्निकर्षादेव ज्ञानमुत्पद्यते, न सामान्यविशेषेभ्यः तेषु तदभावात् । अन्यत्र तु सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु [ वै० सू० ८।६], द्रव्यगुणकर्मसु द्रव्येन्द्रिय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org