________________
४४१
पूर्वनयमतनिराकरणम् ]
द्वादशारं नयवक्रम् अनारभ्यत्वाच शब्दस्येतरेभ्यो विशेषः सामान्यादीनां च । ततस्त्वदुक्तद्रव्यखरूपलक्षणभवनानुपपत्तिरित्युभयस्याप्यभावः। द्रव्यादिषड्भेदस्य सप्रभेदस्यैव भावः।
यंदुच्यते यदयं भवति स्वयमेव यदनेन भूयते स एवास्य भाव इति नैष भावः । अन्येनान्येन भूयते सोऽन्य एवास्य भावः येन च भूयते सोऽपि चास्य भावः।
भावेऽप्युभयता उभयोत्सर्गात्, द्विविधो हि भावः-खभावः संबन्धश्च ।।
भ्यत्वाचाकाशगुणस्य शब्दस्येतरेभ्यो विशेषः सामान्यादीनां चेति सामान्यस्य सामान्यविशेषाणामन्त्यविशेषाणां चेतरेभ्योऽनारभ्यत्वात् , समवायस्य चाश्रयित्वे सत्यपि परस्परतश्च स्वाश्रयस्य स्वानुरूपप्रत्ययाधानहेतुत्वादित्येवमादिविशेषहेतुसद्भावात् सर्वमन्यदेव ।
___ ततः किम् ? ततस्त्वदुक्तद्रव्यस्वरूपलक्षणभवनानुपपत्तिः, सर्वप्रभेदनिर्भेदं बीजं द्रव्यम्, 'तस्यैव द्रव्यस्य तथाभूतसन्निहितशक्तिव्यक्ति वः' इत्येवंस्वरूपलक्षणस्य भवनस्यानुपपत्तिः, द्रव्यभवन-10 भिन्नभवनात्मकत्वाद् गुणादीनां द्रव्यान्तराणां सत्तासमावायाद्याश्रिति॑पदार्थानां [च] । इतिशब्दो हेत्वर्थे, तस्मात् कारणादुभयस्यापि सामान्यस्य द्रव्यभवनस्यैकरूपस्योत्सर्गस्य क्रियाभवनस्य चापवादस्य भूताभूतादिभेदस्याभावः । कथं तर्हि तयोर्भाव इति चेत्, उच्यते- द्रव्यादिषड्नेदस्य सप्रभेदस्यैव पृथक्पृथक्स्वरूपस्यैव विशेषधर्मकस्य भावः।
यदपि च तत् स्वसन्मानं स्वरूपसत्त्वं तदपि नात्मनैव, यदुच्यते--यदयं भवति स्वयमेवार्था-15 न्तरनिरपेक्षं स्वतत्रम् , विभक्त्यन्तरेण तदेव व्यक्तीकरोति - यदनेन भूयते इति, स्वभावसम्बन्ध इत्यर्थः, अयं त्वयेष्ठः स एवास्य भाव इति, नैष पुनर्भावो भवति । कस्तर्हि ? अन्येनान्येन भूयतेऽन्यापेक्षेण चें तथा तद्भिन्नेन सोऽन्य एवास्य भावो भावः । कोऽसौ ? सत्ता महासामान्यम् । येन च भूयते सोऽपि चास्य भावः, सद्वथपदेशार्हस्य द्रव्यादेः सतोऽपि भावः, न केवलं सत्तैव, यत्सम्बन्धाद् भवति' इति भवति सापि सत्ता भावः संच द्रव्यादि भवतीत्यर्थः ।
भावेऽप्युभयता उभयोत्सर्गात् , सत्तायामपि उभयता सामान्यविशेषता, सोत्सृज्यते नियम्यते ३११ च, सोऽपि ह्युत्सृज्यते च भावः 'सर्वगतः' इति, नियम्यते 'स्वगत एव' इति । सत्तान्तरसम्बन्धनिरपेक्षसद्भावे[5]सति मा भूत् सम्बन्धानवस्था, द्विविधो हि भाव इति सर्वस्य वस्तुन उत्सर्गापवादौ पृथक्
१ दृश्यतां पृ० ३८३ पं० १॥ २ “स च द्रव्यादिभ्यः पदार्थान्तरं भाववलक्षणभेदात् , यथा भावस्य द्रव्यत्वादीनां खाधारेषु आत्मानुरूपप्रत्ययकर्तृत्वात् स्वाश्रयादिभ्यः परस्परतश्चार्थान्तरभावः तथा समवायस्यापि पञ्चसु पदार्थेषु 'इह' इति प्रत्ययदर्शनात् तेभ्यः पदार्थान्तरत्वमिति ।" इति प्रशस्तपादभाध्ये समवायनिरूपणे ॥ ३ दृश्यतां पृ० ३७८ पं० १॥ ४ "आश्रितत्वं चान्यत्र नित्यद्रव्येभ्यः [ प्रशस्तपा० भा० ], आश्रितत्वं च परतन्त्रतयोपलब्धिः, न समवायलक्षणा वृत्तिः समवाये तदभावात् । इदं चाश्रितत्वं चतुर्विधेषु परमाणुषु आकाशकालदिगात्ममनःसु नास्तीत्यत आह - अन्यत्र नित्यद्रव्येभ्य इति ।" इति प्रशस्तपादभाष्यव्याख्यायां कन्दल्यां साधर्म्यवैधर्म्यप्रकरणे ॥ ५ स्यैवाविशेषधर्मकस्याभावःप्र० । अत्र "स्यैवाविशेषधर्मकस्य भावः' इत्यपि पाठश्चिन्त्यः । “षण्णामपि पदार्थानामस्तित्वाभिधेयत्वज्ञेयत्वम् ।" इति प्रशस्तपादभाष्ये ॥ ६व तथा प्र० । अत्र '२ च तथा' इत्यपि पाठः स्यात् , तथा च 'अन्यापेक्षेण अन्यापेक्षेण च तथा' इत्यपि पाठश्चिन्त्यः ॥ ७ सोपि वि० १०॥ ८ स च द्रव्यादि भा० । (स च द्रव्यादिः ?)॥ ९द्युत्सू य० । व्यत्सृभा० ॥
नय०५६
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org