________________
४४०
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [षष्ठे विधिनियमविध्यरे रम्भानारम्भादिभेदाचान्यत्वादेवान्यत्वम् , गुणकर्मणां तदभूतेः द्रव्येभ्यो विशेषः
'भवेत्येव भवति द्रव्यम्' इत्ययुक्तमिति वक्ष्यामः । कथम् ? अभ्युपेत्याप्यारब्धद्रव्यं कारणे कार्यस्यासत्त्वा वर्णितवर्णितोपपत्तिवत् कारणद्रव्येभ्योऽन्यत्वात् कार्यद्रव्याणां न हि तदेव द्रव्यं भवतीति । अथवायमप्यपवादविधिः- आरब्धद्रव्यभूतावपि च पूर्वद्रव्येभ्यः कारणभूतेभ्यः कार्यभूतानामन्यत्वाद् गुणकर्मत्वादिना 5 तस्यैव वाऽभावाद् द्रव्यस्येति । किञ्च, लक्षणारम्भानारम्भभेदाच्चान्यत्वादेवान्यत्वमिति, विशेषप्रकरणे क्रियावत् [वै० सू० १॥१॥१४] इत्यादि द्रव्यलक्षणम् , द्रव्याश्रयी [वै० सू० १।१।१५] इत्यादि गुणलक्षणम् , एकद्रव्यादि कर्मलक्षणम् , इत्थं लक्षणभेदाद् नानैव द्रव्यगुणकर्माणीति । द्रव्येष्वप्यनारम्भकेभ्यो गगनादिभ्यः पृथिव्याद्यारम्भकनानात्वम् , गुणानामपि संयोगविभागरूपादीनामारम्भकाणां विभुत्वाद्यनारम्भकेभ्यो नानात्वम् , कर्मणोऽवयविद्रव्यसंयोगविभागारम्भिणोऽनारम्भकेभ्यो भेदः, तदभावात् । तेषां 10 'विरोधाविरोधकारणकार्यप्रकरणकृतं च नानात्वमादिग्रहणात् । गुणकर्मणां तदभूतेरिति द्रव्यमेव द्रव्यं ३११-२ भवति, न गुणा न कर्माणि, गुणानामगुणाकर्मत्वात् कर्मणश्चागुणाकर्मत्वाद् द्रव्येभ्यो विशेषः । अनार
१ तुलना पृ० ३१३-२॥ २ मप्यवाद प्र०॥ ३ वाभावाद प्र०॥ ४षकरणे प्र०॥ ५ “वैधान्तरमपि-क्रियावद् गुणवत् समवायिकारणमिति द्रव्यलक्षणम् [वै० सू० १1१1१४ ], उत्क्षेपणादिकं कर्म क्रिया यथासम्भवं यस्मिन् समवायेन वर्तते तत् क्रियावत् अन्यत्राकाशकालदिगात्मभ्यः । गुणा रूपादयो : वर्तन्ते तद् गुणवत् , अयुतसिद्धानामाधार्याधारभूतानामिहेति यतः [स] समवायः, स यस्यास्ति तत् समवायि, कारण च तदै(दे)व, समवायिनो वा कार्यस्य कारणम् । तत्र क्षित्यादीनि त्रयाणां द्रव्यगुणकर्मणां समवायिकारणम्, आकाशादीनि गुणानाम् , मनोऽन्त्यावयविद्रव्ये गुणकर्मणाम् । द्रव्याश्रयी अगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् [ वै० सू० १।१।१५ ], द्रव्यमाश्रयतीति द्रव्याश्रयी, अगुणवान् निर्गुणः, संयोगविभागेष्वकारणमनपेक्ष इति सापेक्षकारणम् , तथाहि - अङ्गुल्योराकाशसंयोगो व्यङ्गुलाकाशसंयोगे कर्तव्ये व्यङ्गुलोत्पत्तिमपेक्षते, अङ्गुल्योः परस्परविभागो व्यङ्गुलाकाशविभागं प्रति कार्यविनाशमपेक्षते, एवं संयोगविभागलक्षण एव गुणः संयोगविभागेषु सापेक्षः कारणम् । एकद्रव्यमगुणं संयोगविभागेषु अनपेक्षं कारणमिति कर्मलक्षणम् [वै० सू० १११११६ ], एकमस्य कर्मणो द्रव्यमाश्रयः, न द्वे, एकमेव वा द्रव्ये वर्तत इत्येकद्रव्यम् , नास्य गुणाः सन्तीत्यगुणम् , संयोगविभागेषु कार्येषु स्वस्याश्रयस्य अन्यतो विभज्याश्रयान्तरेण संयोजनादुत्पाद्या(घ)विनाश्यानपेक्षया संयोगविभागेष्वनपेक्षं कारणमिति ।" इति चन्द्रानन्दविरचितायां वैशेषिकसूत्रवृत्तौ P. पृ० ८ ॥ ६“वैधान्तरमाह-कार्याविरोधि द्रव्यं काराणाविरोधि च [ वै० सू० १।१।११], विनाशो विरोधः प्रतिबन्धः, क्वचित् द्रव्यादिना कार्येण कारणद्रव्यं समवाय्यसमवायिकारणाभ्यां च न विरुध्यते, तथाहि-अङ्गुलिद्रव्यं कार्य व्यङ्गुलं जनयिष्यत् तदर्थेन कर्मणा तत्कृतेन संयोगेन ततो जातेन व्यङ्गलेन न विरुध्यते नापि समवाय्यसमवायिकारणाभ्यां पर्व-तत्संयोगाभ्यां वा, मनोऽन्त्यावयविद्रव्याणि गुणकर्मभिः कार्यैः आकाशादीनि गुणैः, नित्यत्वादेषां न कारणः(ण ? णैः ? )विरोधः । उभयथा गुणः [ वै० सू० १।१।१२ ], कार्यकारणोभयानुभयैरविरोधी विरोधी च परमाणुझ्यणुकाद्यन्त्यावयविद्रव्येषु रूपादयः कारणैरविरोधिनः यथासम्भवं रूपरसगन्धस्पर्शा अकार्यकारणभूता अविरोधिनः परस्परेण विरोधिन आद्यमध्यान्त्यशब्दाः कार्योभयकारणैः, अदृष्टः कार्येण, स्पर्शवव्यसंयोगेन वेगप्रयत्नौ, संयोगविभागौ सुखदुःखे इच्छाद्वेषौ परस्परतोऽकार्यकारणभूतौ विरुध्येते, ज्ञानं संस्कारसन्तानप्रतिपक्षैः संस्कारो ज्ञानमददुःखादिभिरिति यथासम्भवमेतद् द्रष्टव्यम् । कार्यविरोधि कर्म [वै० सू० १११११३ ], संयोगविभागसंस्काराणां
च्यात् संयोगेनैव कर्म विरुध्यते, न विभागसंस्काराभ्यां संयोगानुत्पत्तिप्रसङ्गात् ।” इति चन्द्रानन्दविरचितार्या वैशेषिकसूत्रवृत्तौ P. पृ. ७ B-८॥ ७ दृश्यतां पृ० ४३७ टि० ८॥ ८ अन्यारभ्य प्र.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org