________________
पूर्वनयमतनिराकरणम् ] द्वादशारं नयचक्रम् सम्भवाद् द्वथणुकाद्यनेकद्रव्योत्पत्तेः । न चेदेतदेवमिष्यते तदा चैक्येन तदेकं द्रव्यं निष्क्रियत्वान्न किश्चिदारभेत, ततश्च तदपि न भवेदेव कर्म, द्वयणुकायनेकद्रव्यद्रव्याभूतेः क्रियानिर्विषयतैव स्यात् । आरब्धद्रव्यभूतावपि च तदभावाल्लक्षणा
भवति तदा चैक्येन स्तिमितगगनवत् तदेकं द्रव्यं निष्क्रियत्वाद् न किञ्चिदारभेत, ततश्चारम्भाभावात् तदपि न भैवेदेव कर्म, कर्म ह्यारम्भस्वरूपं कल्प्यते, तस्य स्वरूपाभावात् खपुष्पवदभावः, तद्भावाद्। द्वयणुकाद्यनेद्रव्यं द्रव्यं न भवेत्, तदभूतेः क्रियानिर्विषयतैव स्यात्, यद्यनेकद्रव्यविषया न भवति आरम्भाभावादनेकद्रव्यत्वानुपपत्तेरेव अण्वाकाशाद्येकद्रव्यविषयापि न भवत्येव सा त्वदिष्टा अस्मदिष्टकर्मविलक्षणा तेषां नित्यैकस्तिमितगगनवदारम्भाभावात् , अगुणवतो द्रव्यस्य गुणारम्भात् कर्मगुणा अगुणा ३११-१ अक्रियाश्चास्मन्मतेन त्वन्मतेनापि गुणादीनां क्रियात्वात् क्रियायाश्च द्रव्यप्रधानाया निष्क्रियत्वादेवेति क्रियानिर्विषयता सुष्टुच्यते ।
. : 10 - एवं तावत् क्रिया द्रव्यं नारभत इत्युक्तम् । इदानीं स्वदिष्टं द्रव्यं च भव्ये [पा० ५।३।१०४] ..
स्यात्, तथा लब्धभूमीनां योगिनां कल्पान्ते अभिसन्धाय प्रयत्नेन मनः शरीरादू व्यतिरिच्यावतिष्ठमानानां सर्गादौ नवशरीरसम्बन्धाय मनस आद्यं कर्म न भवेत् अदृष्टाहते । तस्मादग्नेरूज्वलनं वायोश्च तिर्यक्पवनमणूनां चोपसर्पणकर्म मनसश्चाद्यं कर्म एतानि प्राणिनामदृष्टेन कृतानि । हस्तकर्मणा मनसः कर्म व्याख्यातम् [वै० सू० ५।२।१५], यथात्मसंयोगप्रयत्नाभ्यां हस्ते कर्म तथात्ममनःसंयोगात् प्रयत्नाच मनसः कर्म, एतत् सदेहस्य कर्म, तत्र जाग्रत इच्छाद्वेषपूर्वकात् प्रयत्नात् प्रबोधकाले तु जीवनपूर्वकात् । यतः संयोगो योगः स च कर्मकार्यः अतो योगाझं कर्म, योगमोक्षौ च कर्माधिकारेऽप्युच्येते-आत्मेन्द्रियमनोऽर्थसन्निकर्षात् सुख दुखे तदनारम्भः [वै० सू० ५।२।१६], यतो हेतोरात्मेन्द्रियमनोऽर्थसन्निकर्षों ज्ञानकारणत्वेन सुखदुःखे जनयति अतस्तदनारम्भः तस्य सन्निकर्षस्यानारम्भोऽनुत्पत्तिरुच्यत इति । तथाहि-आत्मस्थे मनसि शरीरस्य सुखदुःखाभावः स योगः [वै० सू० ५।२।१७ ], यदा हि आत्मनि मनोऽवस्थितं नेन्द्रियेषु तदा चतुष्टयसन्निकर्षस्यानारम्भात् तत्कार्ययोः सुखदुःखयोरभावरूपो विद्यमानशरीरस्यात्मनो वायुनिग्रहापेक्ष आत्मनो मनसा संयोगो योगः, योगाङ्गं प्राणायामकर्म किं नोक्तम् ? कायकर्मणा आत्मकर्म व्याख्यातम् [वै० सू० ५।२।१८] इह आत्मशब्देन वायुः, यथा आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म तथात्मवायुसंयोगात् प्रयत्नाच प्राणायामकर्म । अपसर्पणमुपसर्पणमशितपीतसंयोगः कार्या(या T)न्तरसंयोगाश्चेत्यदृष्टकारितानि [वै. सू. ५।२।१९], मरणकाले पूर्वशरीराद् मनसो निःसरणमपसर्पणम्, शरीरान्तरेणाभिसम्बन्धो मनस उपसर्पणम् , शुक्रशोणितात् प्रभृति गर्भस्थस्य मात्रा उपयुक्तेनान्नपानेन नाड्यानुप्रविष्टेन सम्बन्धोऽशितपीतसंयोगः, कललार्बुदमांसपेशीघनशरीरादिभिरेकस्मिन्नेव संसारे ये सम्बन्धास्ते कार्या(या?)न्तरसंयोगाः, ते तान्यपसर्पणादीनि अदृष्टैनैव क्रियन्ते, न प्रयत्नेन । तदभावे संयोगाभावोऽप्रादुर्भावः स मोक्षः [वै० सू० ५।२।२०], एवंरूपस्य अनाद्यपसर्पणादिनिमित्तस्य अदृष्टस्याभावे जीवनाख्यस्य आत्ममनःसंयोगस्याभावोऽन्यस्य च शरीरस्याप्रादुर्भावो यः स मोक्षः। तमोवृत्त(त?) त्वात् सर्वस्य ज्ञानानुत्पत्तौ तमो हेतुः, तत् पुनः द्रव्यगुणकर्मवैधाद भाऽभावमात्रं (भाऽभावः ) तमः[वै० सू० ५।२।२१], विनाशित्वेन नित्यैव्यैर्वैधादमूर्तत्वास्पर्शत्वप्रकाशविरोधैरनित्यद्रव्यैर्वधान द्रव्यं तमः, न च गुणः कर्म वा आश्रयानुपलब्धेः । तस्मात् प्रकाशस्याभावमानं तमः । कुत एतत् ? तेजसो द्रव्यान्तरेणावरणाच्च [वै० सू० ५।२।२२], तेजसः सवितृप्रकाशादेर्बहिःसद्भावात् पर्वतगुहादौ च द्रव्यान्तरेणावृते अभावाद् मन्यामहे-तेजसोऽभावमात्रं तम इति । बाह्य प्रदीपादिनिवर्त्यम् , अविद्यात्मकं तु ज्ञानज्योतिषा, इत्युक्तौ योगमोक्षौ।" इति चन्द्रानन्दविरचितायां वैशेषिकसूत्रवृत्तौ P. पृ. २१ B- २२ B॥ i... १ (नेकद्रव्याभूतेः ?) ॥ २ भवेदेव कर्म ह्यारम्भ भा० ॥ ३ कादने प्र० ॥ ४ कद्रव्यं न
भव
त
भा०
॥
.
. .
.
.
.
.
.
. .
.
.
.
. . . .
.
.
.
....
.
.
.
.
..
...."
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org