________________
४३८
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [षष्ठे विधिनियमविध्यरे . क्रिया हि प्रागभूतनिर्वृत्त्यर्था अनेकद्रव्यतायां भवति, अदृष्टवशादणुषु कर्म- यदप्युक्तं त्वया यथाभूतसन्निहितवस्तुशक्तिव्यक्तिः क्रिया व्याभेदे सर्वभेदप्रभेदनिर्भेदं बीजं द्रव्यम् इति च तन्न भवति, यस्मात् क्रिया हि प्रागभूतनिर्वृत्त्यर्था, जगत्प्रलयकाले च का वदिष्टव्यापारलक्षणा क्रिया मदिष्टादृष्टचोदिताणुगतकर्मण्यसति ? सा बदृष्टचोदिताणुकर्मजनिता धर्मनिवृत्त्यर्था जगत्सृष्टयर्था च स्यात्, कर्मैव च नः क्रिया, न हि सा निर्वृत्तमेव निर्वर्तयितुं 'क्रीडितमेवास्तु' इति निरर्थकं वा प्रवर्तते । सा चानेकद्रव्यतायां सत्यां भवति, अनेकद्रव्यत्वं चादृष्टचोदिताणुकर्म अन्तरेण न भवितुमर्हति, कस्मात् ? अदृष्टवशादणुषु कर्मसम्भवाद् द्वथणुकांद्यनेकद्रव्योत्पत्तेः तत्समवायाञ्च, ततश्चानेकाणुकृताम्यूद्धज्वलनादिलोकस्थितिकरसर्वकार्योपपत्तेः नैकस्य कस्यचित् खवद् नित्यस्य क्रियास्ति । भेदबीजमात्रद्रव्यशक्तिव्यक्तौ वा न कश्चिदुपकारोऽस्त्यस्य जगतः, किं कारणम् ? यस्मादुक्तम् - अणुमनसोश्चाद्य 10 कर्मेत्यदृष्टकारितम् [वै० सं० ५।२।१४ ] इति । न चेदेतदेवमिष्यते यदा अदृष्टपरिगृहीतेष्वणुषु कर्म न समानं कारणं नान्यो गुणः, तथाहि-तूलपिण्डस्य वेगवता तूलेन संयोगात् कर्म, द्वितूलकद्रव्यम् , तत्र च परिमाणं महदुत्पद्यतेऽन्ये गुणा यथायोगम् । संयोगविभागानां कर्म [वै० सू० १।१।१९], खाश्रयमन्यतो विभज्य आश्रयान्तरेण संयोजयति अतः संयोगविभागानां समानं कारणं कर्म । न द्रव्याणां व्यतिरेकात् [वै० सू० १११।२० ], यदि खलु द्रव्यस्य कारणं कर्म भवेत् तथा सति कृत्वापि संयोगं न निवर्तेत, निवृत्ते तु कर्मणि केवलस्य संयोगस्योपलम्भात् मन्यामहे 'न द्रव्यकारणं कर्म' । गुणवैधान्न कर्मणाम् [ वै० सू० १११।२१], गुरुत्वद्रवत्वनोदनाभिघातसंयुक्तसंयोगाः खाश्रये पराश्रये च कर्मकारणम् , प्रयत्नादृष्टौ तु पराश्रये एव । तत्र तावत् कर्म [न] खाश्रये कर्मकारणम् , निष्क्रियद्रव्यानुपलब्धिप्रसङ्गात् । नापि पराश्रये तत्संयोगेनैव निवर्तितत्वात् । तस्मादेतैः कर्मकारणैर्गुणैः वैधान्न कर्म कर्मकारणम् । अपरं वैधर्म्यम् - द्रव्याणां द्रव्यं कार्य सामान्यम् [ वै० सू० १।१।२२ ], सजातीयानां द्वयोर्बहूनां द्रव्याणां द्रव्यं तन्तूनामिव पटः समानं कार्यम् । द्वित्वप्रभृतयश्च सङ्ख्या: पृथक्त्वं संयोगविभागाश्च [वै० सू० १११।२३], द्वयोर्द्रव्ययोर्द्वित्वं सामान्य कार्यम् , त्रयाणां त्रित्वमित्यादि । तथैव द्विपृथक्त्वादि । द्वयोर्द्रव्ययोः संयुज्यमानयोः संयोगः विभज्यमानयोविभागः । एषाभनेकाश्रितत्वात् समानत्वम् । असमवायात् सामान्यं कर्म कार्य न विद्यते [वै० सू० १११२४ ], अनेकस्मिन् द्रव्ये एकस्य कर्मणः समवायनिषेधाद् न द्रव्याणां द्विबहूनां कर्म समानं कार्यमस्ति । संयोगानां द्रव्यम् [ वै० सू० १११।२५], द्वयोर्बहूनां वा असमवायिकारणानां संयोगानां द्रव्यं समानं कार्यम् , तन्तुसंयोगानामिव पटः । रूपाणां रूपम् [ वै० सू० १११।२६], द्वयोर्बहूनां वा कारणरूपाणां कार्यद्रव्याश्रितं रूपं समानं कार्य यथा घटरूपं कपालरूपाणाम् , एवं रसादीनाम् । गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम् [वै० सू० १।१।२७ ], आदित्यरश्मीनामगुरुत्वात् पर्वते तथाभूतप्रयत्नाभावात् लोष्टस्य च हस्तनासंयुक्तत्वादनुत्क्षेपणमिति गुरुत्वादीनामुत्क्षेपणं समानं कार्यम् । संयोगविभागाः कर्मणाम् [ वै० सू० १११।२८], उभयकर्मजा ये संयोगा विभागाश्च ते कर्मणां समानं कार्यम् । कारणसामान्ये द्रव्यकर्मणां कर्माकारणमुक्तम् [ वै० सू० १११।२९ ] इति यस्मिन् प्रकरणे द्रव्यादीनां कारणं समानं वर्णितं तस्मिन् कारणसामान्ये द्रव्यकर्मणां यतः कर्माकारणमुक्तमतस्तान्यप्यस्य कार्य सामान्यं न भवन्तीति । एवं नाना द्रव्यगुणकर्माणीति सिद्धम् । प्रथमस्याध्यायस्याद्यमाहि. कम् ।” इति चन्द्रानन्दविरचितायां वैशेषिकसूत्रवृत्तौ P. पृ० ८ B--९ B । दृश्यतां पृ० ३८९ पं० १७ टि० ६॥
१ दृश्यतां पृ० ३७८ पं० १ । अत्र 'यथा'शब्दप्रयोगोऽपि साधुरिति प्रतीयते, दृश्यतां पृ० ४१८ पं० ५॥ २ द्रव्यभेदे भा० ॥ ३ ह्यदृष्टा वि. विना ॥ ४ दृश्यतां पृ० ३७८ पं० १॥ ५ धर्मनिवृत्त्यर्था य० । (कर्मनिवृत्त्या ?)॥ ६इति रर्थकं य० । इनिरर्थकं भा० ॥ ७ कादने प्र०॥ ८ खवद् गगनवदित्यर्थः ॥ ९ “यथा नोदनाभिघातसंयुक्तसंयोगादृष्टेभ्यः पृथिव्यां कर्म तथा तेजसो वायोश्च, एतदनियतं कर्म । नियत तु- अग्नेरूद्धज्वलनं वायोश्च तिर्यक्पवनमणुमनसोश्चाद्यं कर्मेत्यदृष्टकारितानि [वै० सू० ५।२।१४], अग्नेरवस्थाने तिर्यग् वा गमने पच्यमानस्याभस्मीभावः स्यादपांवा(दपाकात् ?), तथा वायोरतिर्यग्गमने पूयमानद्रव्याणां पवनाभावः अग्नेश्चाप्रबोधः, विनष्टशरीराणामात्मनां सर्गादौ पृथिव्यादिपरमाणुष्वाद्यं परस्परोपसर्पणकर्म न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org