________________
विधिनियमविधिस्वरूपप्रदर्शनम् ] द्वादशारं नयचक्रम्
सत्ताद्रव्यत्वादिगगनादिसर्वगतत्वमण्वादिसहितनित्यत्वं चोत्सर्गः । आरब्धद्रव्यगुणानां कर्मणश्चानित्यत्वात् प्रागुक्तेभ्यो द्रव्यगुणकर्मणां परस्परतः स्वजातिप्रभेदेभ्यश्च कारणकार्यतया चान्यत्वमित्यपवादः । तयोर्विधिरेष विधिनियमविधिः। ___कस्तीति चेत् , सत्ताद्रव्यत्वादीति यावद् नित्यत्वं चोत्सर्ग इति । सत्ता महासामान्यम् , द्रव्यत्वं पृथिव्यादिषु सामान्यम् , आदिग्रहणाद् गुणत्वकर्मत्वे च रूपादिगमनादिषु च सामान्यविशेषास्तद्भेदाः ।। गगनादीनि आकाशात्मदिकालद्रव्याणि 'विभक्तसर्वगतानि, द्रव्याणामेषां सर्वव्यापिता सर्वगतत्वमण्यादिसहितनित्यत्वं चेति तेषां द्रव्याणामणूनां च नित्यत्वं कालव्यापिता पार्थिवादिचतुर्विधाणुद्रव्याणां चेति । ३१०.१ आदिग्रहणाद् मनोद्रव्यसहितानामिति विभुत्वपरिमण्डलत्वादिगुणसहितानाम् , ते च गुणास्तानि च द्रव्याणि नित्यानीत्यर्थः । एष उत्सर्गः सामान्यविधिः ।।
____ आरब्धद्रव्येत्यादि यावदपवाद इति । पार्थिवाप्यतैजसवायव्यैश्चतुर्विधैरणुभिः संयोगापेक्षैः 10 समानजातीयैः समानजातीयानि द्वथणुकादीनि तदाद्युत्तरवृद्ध्या महापृथिव्यादिपर्यन्तानि आरब्धानि, द्रव्याणि द्वे बहूनि वा द्रव्यान्तराण्यारभन्ते चतुर्विधान्येव, येषामेवाधिकृतमारम्भसामर्थ्य तैरारब्धे कार्यद्रव्ये तत्समवेता नियमत एव गुणाश्च गुणान्तरमारभन्ते [ ] इति वचनाचित्रादय आरब्धगुणाः, तेषामुभयेषामारब्धद्रव्याणामारब्धगुणानां चानित्यत्वात् प्रागुक्तेभ्यो विशेषः तथा कर्मणश्च सप्रभेदस्य । एवं तावद् नित्यानित्यसर्वगतासर्वगतभेदेनान्यत्वम् , पुनश्च द्रव्यगुणकर्मणां परस्परतः द्रव्येभ्यो गुणानां 15 कर्मणां च गुणेभ्यो द्रव्याणां कर्मणां च कर्मभ्यो द्रव्याणां गुणानां च परस्परत इति स्वजातिप्रभेदेभ्यश्चान्यत्वम् , द्रव्यजातेः परस्परतः पृथिव्या उदकादिभ्यः उदकस्य पृथिवीसहितेभ्योऽन्येभ्यः, एवं ज्वलनपवनगगनदिकालात्ममनसामितरेभ्योऽन्यत्वमिति सत्तासमवायसामान्यविशेषान्त्यविशेषेभ्यश्चान्यत्वं नित्येभ्यो[s] नित्यानां चेत्यपवादः, तथा कारणकार्यतया च, व्यगुणकर्मणां द्रव्यं कारणं सामान्यम् [वै० सू० १।१।१७] इत्यादि संयोगविभागाः कर्मणां कार्यम् [वै० सू० १।१।२८] इत्यादि कारणकार्य- 20 नानात्वेन चान्यत्वमित्यपवादः । तयोरुत्सर्गापवादयोर्विधिः सामान्यविशेषयोविधिनियमयोरित्यर्थः । एष विधिनियमविधिः, न प्राक्तनस्त्वत्परिकल्पितः।
१°द्रव्यादीति प्र० ॥ २ अत्र विभुत्वात् सर्वगतानि इति पाठः स्यात् ॥ ३ विभुक्तप प्र० ॥ ४ अत्र 'आरब्धानि द्रब्याणि । द्रव्याणि द्वे बहूनि वा' इत्यपि पाठः स्यात् ॥ ५ "द्रव्याणि द्रव्यान्तरमारभन्ते [वै० सू० १११८], द्रव्ये च द्रव्याणि चेति विग्रहादेकमनारम्भकम् । समवायिकारणानि द्रव्याणि खात्मव्यतिरिक्त कार्यद्रव्यमारभन्ते, आकाशाद्यन्त्यावयविद्रव्याणि तु द्रव्यं नारभन्ते, तुल्यजातीयानां मूर्तिक्रियारूपादिमतां द्वयोर्बहूनां वा कारणानां कार्यारम्भकत्वात् । न चैवंविधान्याकाशादीनि । मनसोऽस्पर्शवत्त्वाद् द्रव्याकारणत्वमन्त्यावयविद्रव्याणां चादृष्ठत्वात् । गुणाश्च गुणान्तरम् [वै. सू. १।१।९],गुणौ च गुणाश्चेति पूर्ववत, यथा तन्तुरूपादयः खाश्रयसमवेते पटद्रव्ये रूपादिगुणानात्मघ्यतिरिक्तानारभन्ते ।" इति चन्द्रानन्दविरचितायां वैशेषिकसूत्रवृत्तौ P. पृ० ७ B॥ ६ दृश्यतां पृ. ३१४-२॥ ७°श्चान्यत् नित्येभ्यो नित्यानां चेत्यपवादः तयोः कारणकार्यतया च प्र० ॥ ८ "वैधान्तरमपि - द्रब्यगुणकर्मणां द्रव्यं कारणं सामान्यम् [ वै० सू० १११११७], सामान्यशब्दः समानपर्यायः, क्षित्यादीनि त्रयाणां कारणं समानम् , आकाशादीनां केवलगुणकारणत्वेऽपि एकैकस्यानेकगुणत्वादाकाशादीनि समानं गुणेषु कारणम् , मनोऽन्त्यावयविद्रव्ये गुणकर्मणाम् । तथा गुणः [वै० सू० १११११८], 'संयोगानां द्रव्यम्' [१।१।२५] इति 'अग्निसंयोगादू गुणान्तर प्रादुर्भावात् [७।११५,६] इति 'आत्मसंयोगप्रयत्नाभ्या हस्ते कर्म[५।१।१] इति वाक्येभ्यः संयोग एव द्रव्यगुणकर्मणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org