________________
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [षष्ठे विधिनियमविध्यरे भयवादसिद्धिः, उभयोरन्यतरस्य वा निषेधे प्रमाणाभावात् । नन्वेवं तथार्थस्थितिसत्यत्वात् सर्ववादनाथानेकान्तवादाश्रयणं कृतम् , तदतत्समर्थविकल्पत्वात् , एकपुरुषपितृपुत्रादिवत् । न च तेन सह कस्यचिद् विरोधः, तस्मादयमाराध्यः शरणं च ।
यत् तद् भूयते द्रव्येण तस्य सर्वगतत्वं नित्यत्वं चोत्सर्गः, भूताभूतभेदात्मकस्तस्यैवापवादः, तस्य च विधानम् , इत्येष उभयविधिन भवति ।
२०९-२
भयवादसिद्धिः सत्कार्यासत्कार्यवादयोः सिद्धिः, निवारयितुमशक्यत्वात् । स्यान्मतम् - अन्योन्यनिवारितयोरनयोर्वादयोरसिद्धिरेवेत्यसद्वादाश्रयणं श्रेय इति । एतच्चायुक्तम् , उभयोरन्यतरस्य वा निषेधे प्रमाणाभावात् , ज्ञानाभिधानयोः प्रमाणयोर्द्विरूपार्थविषयत्वादसद्विषययोरप्रामाण्यात् । तस्मादवश्यमुभय
रूपार्थस्थितिसत्यत्वम् । 10 ततः किम् ? इति चेत्, उच्यते-नन्वेवं तथार्थस्थितिसत्यत्वात् सर्ववादनाथानेकान्त
वादाश्रयणं कृतम् त्वया' इति वाक्यशेषः । अनेकान्तवादो हि वादनायकः सर्ववादविरोधाविरोधयोर्निग्रहानुग्रहसमर्थत्वात् , अरिविजिगीष्वादीनामिवोदासीननृपः । स चेत्थम् - स्यादन्यत् स्यादनन्यत कारणात् कार्यमित्यादि । कुतः ? तदतत्समर्थविकल्पत्वात् , तस्मिंश्चातस्मिंश्च विकल्पे समर्थत्वात् , 'कारणे कार्य सदनन्यत् , असदन्यत्' इति वा पक्षे समर्थो विकल्पोऽस्येति अनन्तरोक्तविकलादेशहेतुद्वय15 समाहारैकरूपोऽयं हेतुः पक्षद्वयसाधनसमर्थः । को दृष्टान्तः ? एकपुरुषपितृपुत्रादिवत् , यथैक एव
पुरुषोऽपेक्षाविशेषोपनीतैः पितृपुत्रभ्रातृभागिनेयमातुलादिभिरन्यैरन्योऽनन्यश्च तेन तेन प्रकारेण संश्चासंश्च कारणकार्यनित्यानित्यादिपर्यायार्पणीयश्चेति । अस्य हेतोर्भावना उक्तसाधनद्वयादेवाधिगम्या विकल्पभङ्गकै
ाख्यातैव । सदसद्बाद्युभयोपनीतहेतुसामर्थ्यादेवानेकान्तेसिद्धिः । न च तेन सह कस्यचिद् विरोधः, तस्मात् परित्यक्तपक्षरागैरनभिनिविष्टैरात्महितगवेषिभिः कुशलैरन्यथा हितप्राप्त्यसम्भवात् 'आश्रयणीयः' इति 20 परिच्छिद्यायमाराध्यः शरणं , नयसमूहात्मकत्वादनन्यसाधारणोत्साह-प्रभु-मत्रशक्तियुक्तभरतचक्रवर्तिवद् विजिगीषुभिरिति । यद्यसौ सर्वैराराध्यः शरणं च वादानां किमर्थं वादिभिः सह व्युद्यते ? दृष्टश्च विवादः, तस्माद् विवादित्वाच्छेषवादिवदनाराध्योऽशरणं तैवापि च दर्शनात् तेन सहेति । अत्रोच्यते - मम तेन सहाविरोध एव तबापि च, किन्तु वयं त्वत्प्रतिपत्त्यैकान्तर्वस्त्वनुपपत्तेमः, वयं त्वदनुग्रहार्थं त्वदनुशासिन इति न दोषः ।
इदानी नैगमनय उभयविधिरात्ममतस्वरूपं वक्तुकामः परमतं प्राग्दूषितं प्रत्युच्चारयन्नित्थमुपसंहरति25 यत् तद् भूयत इत्यादि । यत् तद् भवति तेन भवता यद् भूयते द्रव्येण तस्य भवनसामान्य क्षेत्रतः सर्व[गत]त्वं कालतो नित्यत्वं च सर्वात्मकं तस्य उत्सर्जनं विधानं स एव विधिः प्रागुक्तः, पश्चाद् द्वितीयः प्रवृत्त्यात्मकभूताभूतभेदात्मकस्तस्यैवापवादः, तस्य च विधानम् इत्येष उभयविधिस्त्वयेष्ट एव न भवति ।
१ दृश्यतां पृ० ८३ पं० २॥ २ त्वादरविजि प्र० ॥ ३ रन्योन्यश्च प्र०॥ ४ 'ख्यातैवः प्र० ॥ ५ सिद्धेः य० ॥ ६च ननय प्र० । (च नः नय?)॥ ७व्युत्पद्यते प्र० । अत्र व्युद्यते विवादः क्रियत इत्यर्थः ॥ ८ तथापि प्र.। 'तवापि च तेन सह विरोधदर्शनात्' इत्याशयः ॥ ९वत्वनु प्र०॥ १० सामान्य य० । अत्र सामान्यस्य इत्यपि पाठः स्यात् ॥ ११ एव नवति भा० । एव भवति य०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |