________________
सत्कार्यवादिकृताक्षेपस्य निरसनम्] द्वादशार नयचक्रम् दनन्यचन्द्रादित्ववत् । अत एव प्रकरणचिन्ता- किं घटादि कार्यमसदाविर्भवेदलातचक्रवत्, उतेतरचक्रवत् सदाविर्भवेत् ? अनैकान्तिकत्वात्। ... एवं तर्हि मयापि शक्यं वक्तुम् - यत् तदसत् ततोऽन्यत् कार्यम् तद्विकल्पासमर्थत्वाद् घटपटवदित्यादि । उत्तरमत्र वक्तुमशक्यम् । यद्येवमहमपि ब्रवीमि सत्कार्यसाधनान्यप्यशक्यानि निवर्तयितुं सोपनयसप्रपञ्चानां वक्तुं युक्तत्वात् । तथो- सत्त्वात् । अनन्यचन्द्रादित्ववत् , यथा नास्त्यन्यश्चन्द्रमा इति द्वितीयचन्द्राभावादनन्योऽयमेवेति सामान्यात् प्रतिषिध्यते चन्द्रमाः तथा नास्ति घटो गेहे मृत्पिण्डे कपालावस्थायां वेत्यादीन्यसत्त्वानि सविशेषणानि अनन्यचन्द्रादित्वनिदर्शनसूचितानि तेषां च सतामेवासतामायत्यामाविर्भावदर्शनादिति । .. अत एव प्रकरणचिन्तेत्यादि । यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः [न्या० सू० १।२७] इति, यस्मादेव आविर्भवद् द्विविधं दृष्टम् - सदसञ्च, तद्यथा- अलातचक्राद्यसत् , 10 सच्च रथादिचक्रादि, तत्र सन्देहः-किं घटादि कार्यमसदाविभवेदलातचक्रवत् उतेतरचक्रवत् सदा-: विर्भवेत् ? इति । यत एव संशयो न तत एव हि निर्णयः, अनैकान्ति[कत्वात् । ऐकान्ति]को हि हेतुः स्यात् , धूमादत्राग्निर्यथा । इत्यसदेव कार्यमिति ।। .. एवं तीत्यादि । सत्कार्यवादी पूर्वाभिहितसत्कार्यवादोपपत्तिभिर्विरुद्धाव्यभिचारिचिकीर्षयाहएवं तर्हि मयापि शक्यं वक्तुम् , तद्यथा- यत् तदसत् ततोऽन्यत् कार्यम् तद्विकल्पासमर्थ- 15 त्वाद् घटपटवदित्यादिसत्कार्यसाधनप्रपञ्चोऽतीतः सोऽत्र द्रष्टव्य इति पूर्वपक्षः । उत्तरमत्र वक्तुम-१९-१ शक्यम् , यथात्रासत्कार्यसाधनानि अनिवानि तथा सत्कार्यवादसाधनान्यपीति । .. यद्येवमिति । यद्येवं ब्रवीपीति प्रत्युच्चार्याह अहमपि ब्रवीमि-एवमपि सत्कार्यसाधनान्यप्यशक्यानि निवर्तयितुम् , सोपनयसप्रपञ्चानां वक्तुं युक्तत्वात् , यथा त्वयोपनयसहितानि प्रत्यवः . स्थानसहितानि च पूर्वोत्तरपक्षप्रसङ्गेन, सत्कार्यासत्कार्यवादयोस्तुल्यं समर्थनमिति भवतो यदि मतिः तथो- 20
नास्ति घटोऽस्मिन् देशे काले वेति देशादिनिषेधो घटादेः स्वरूपतो निषेधः क्रियत] इति । नास्त्यन्यश्चन्द्रमा इति सामान्याञ्चन्द्रमसि निषेधः (प्रतिषेधः ) [वै० सू० ९।११११ ], 'नास्ति द्वितीयश्चन्द्रमाः' इति सङ्ख्याप्रतिषेधेन सामान्याञ्चन्द्रत्वाख्याञ्चन्द्रमा निवर्त्यते इति कृत्वा चन्द्रत्वं सामान्यं नास्तीत्युक्तं भवति । देशकालभावसामोपाधीनामभावे तदत्यन्तासत एव प्रभेदश्चन्द्रत्वसामान्यनिषेध इति वर्णयन्ति ।" इति चन्द्रानन्दविरचितायां वैशेषिकसूत्रवृत्तौ P.पृ० ३१ ॥
१ दृश्यतां पृ० १६९ पं० १॥ २ चन्द्रादित्यवत् प्र० । अत्र अनन्यचन्द्रादिवत् इत्यपि पाठः स्यात्, दृश्यतां पृ. ३२०-१॥ ३ आनन्यचन्द्रासत्वनिद भा० । अनन्यचन्द्रासत्वनिद य० । अत्र अन्यचन्द्रासत्त्व- . निदर्शनसूचितानि इत्यपि पाठः स्यात् ॥ ४ मुपं प्र० । “यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः [न्या० सू० १।२।७], विमर्शाधिष्ठानौ पक्षप्रतिपक्षावनवसितौ प्रकरणम् , तस्य चिन्ता विमर्शात् प्रभृति प्राग निर्णयाद् यत् समीक्षणम् , सा जिज्ञासा यत्कृता स निर्णयार्थ प्रयुक्त उभयपक्षसाम्यात् प्रकरणमनतिवर्तमानः प्रकरणसमो निर्णयाय न प्रकल्पते । प्रज्ञापनं तु-अनित्यः शब्दो नित्यधर्मानुपलब्धेरिति, अनुपलभ्यमाननित्यधर्मकमनित्यं दृष्टं स्थाल्यादि । यत्र समानो धर्मः संशयकारणं हेतुत्वेनोपादीयते स संशयसमः सव्यभिचार एव । या तु विमर्शस्य विशेषापेक्षिता उभयपक्षविशेषानुपलब्धिश्च सा प्रकरणं प्रवर्तयति, कथम् ? विपर्यये हि प्रकरणनिवृत्तेः, यदि नित्यधर्मः शब्दे गृह्येत न स्यात् प्रकरणम् । सोऽयं हेतुरुभौ पक्षौ प्रवर्तयन्नन्यतरस्य निर्णाय न प्रकल्पते।" इति न्यायभाष्ये ॥ ५ अनेका भा० । अत्र 'अनेका. [न्तात् , ऐका]न्तिको हि हेतुः स्यात्' इत्यपि पाठः स्यात्, दृश्यतां पृ० १६८ पं० ४॥ ६ तासत्कार्य भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.