________________
४३४
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [षष्ठे विधिनियमविभ्यरे वदित्यादि पूर्ववच्चक्रकद्वयप्रवर्तनम् । तस्मादसत् कार्यम् । . नंन्वेवमसत्त्वादायत्यामपि नाविर्भवेत् कार्य खपुष्पवत् । न, सविशेषणासत्त्वा
दन्तर्भाविताशेषविशेषसत्त्वात्मकत्वात् , असत् , कार्यवैलक्षण्यात् खपुष्पवदित्यादि पूर्ववच्चक्रकद्वयप्रवर्तनमुपादानानुपादानविलक्षणत्वादिवचनेन आविर्भावानाविर्भावात्मकत्वादिवचनवद् नेतव्यम्5 यत् [तत् सत् ] ततोऽन्यत् कार्यम् , । तदतुल्यविकल्पत्वात् घटपटवद् द्रव्यक्रियावद्वा । कथमतुल्यविकल्पता? इह कार्यकारणयोर्द्वयोरपि सत्त्वं कार्यसत्त्वमेव वेत्येतद् विकल्पद्वयं स्यात्, इतरयोरभ्यु. पगतप्रतिपक्षत्वाद् वादाभावात् । तद् यदि तावदुभयसत्त्वं ततस्तदात्मकसत्त्वाविशिष्टत्वात् कारण
स्वात्मवदुपलब्धिलक्षणप्राप्तत्वे' यथा कारणस्यानुपादानोपलब्धिः तथा कार्यस्य स्यात् । अथ न कारणानु३००१ पादानवत् कार्यानुपादानं सच कार्यमिति निश्चितम् , तद्वैलक्षण्याद् न तर्हि सत्कारणमसत्सद्विलक्षण10 त्वात् खपुष्पवत्, इतरः कृतघटवत् । ननु घटसत्त्वं पटसत्त्वविलक्षणम् , न, इतरेतरासत्त्ववैलक्षण्यात् । अथैवमपि बैलक्षण्ये कारणसत्त्वनिश्चयो न निवर्तते अनुपादानात्मकं च तत्, न तहननुपादानात्मकत्वात् कार्य सत् खपुष्पवत् । इतरथा हि नित्यमेवोपादीयेत सत्त्वात् कारणवत्, कारणं वोपादानवत् स्यात् उपलभ्यसत्त्वाविशिष्टत्वात् कार्यवत् इति प्रथमचक्रकम् । ... अथ न कार्यानित्योपादानवत् कारणोपादानम् , सच्च कारणमिति निश्चितं तद्वैलक्षण्याद्न तर्हि सत् 15 कार्यम् , असत्, सद्विलक्षणत्वात् खपुष्पवत्, इतरः कारणवत् । खपुष्पमपि वा सत् अनुपादानानुप. लब्धेः कार्यवत् । नन्वित्यादीति सोत्तरम् । अथैवमपि वैलक्षण्ये कार्यसत्त्वविनिश्चयो न व्यावर्तते उपादानात्मकं च तत् न तर्हि अनुपादानात्मकत्वाद् गन्धर्वनगरवत् कारणं सत्, न त्वेवं भवति, अतः कारणं सत् उपलभ्यत्वेऽनुपादानात्मकत्वात् कृतवत्, कृतमपि वा कारणवत् । न तु कार्यम् , अनुपादानानुपलब्ध्यात्मकत्वात् खपुष्पवत्। सत्त्वे वा विशेषो वक्तव्यः, अविशेष वैलक्षण्यानुपपत्तेः । विशेषोन्नयनेऽपि 20 विशेषस्यासदाश्रयत्वात् ततोऽन्यत्वमेव, तत्रासत्त्वमेव अघटपटवत् इति द्वितीयचक्रकप्रवर्तनं कृतमिति ।
तस्मादसत् कार्यमित्युपसंहृते आह - नन्वेवमित्यादि । यद्येवमसत् कार्य चेदुत्पद्यते ततोऽसत्त्वादायत्यामपि बीजमृत्पिण्डाद्यवस्थानकालादुत्तरकालेऽप्यकुरो नाविर्भवेच्छिवकादि घटादि च कार्यमसत्त्वात् [खपुष्पवत् ], खपुष्पमप्यायत्यां वा प्रादुर्भवेत् असत्त्वात् अङ्कुरघटादिवदित्येतदनिष्टं प्रसक्तम् । तच्च
नास्ति । तस्मात् सत् कारणे कार्यमिति । एतच्च न, सविशेषणासत्त्वात् , योऽयं हेतुरनिष्टापादनार्थमुक्तः 25 'असत्त्वात्' इति एषोऽसिद्धः, अभूतं नास्तीत्यनान्तरम् [वै० सू० ९।१।९] इति वचनादत्यन्तासत एवा
३०८.२
. १ दृश्यतां पृ० १६८ पं० १॥ २ दृश्यतां पृ० १६८ पं० १॥ ३ ताशेषसत्त्वा प्र० । दृश्यतां पृ० ४३२ पं०११॥ ४त्वादिसत्कार्य प्र०। (त्वात् , असत्, सत्कार्य?)॥ ५ एतचिह्नान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ६ दानुपा भा० ॥ ७ दृश्यतां पृ० ४३० पं० १, पृ० ४३५ पं० १५ । अत्र यत् सत् ततोऽन्यत् कार्यम् इत्यपि पाठः स्यात् ॥ ८°तुल्यता प्र० । दृश्यतां पृ० ४३० पं० २॥ ९ कार्यमेवेत्येतद् प्र० । दृश्यता पृ० ४३० पं० २॥ १० चोपाप्र०॥ ११ दृश्यतां पृ० ४३१ पं० ६॥ १२ दृश्यतां पृ० ४३१ पं० ८॥ १३ दृश्यतां पृ० ४३१ ६० ९॥ १४ 'सत्' इति वाक्यशेषः॥ १५'न तु कार्य सत्' इत्याशयः ॥ १६ “अभू नास्तीत्यनान्तरम् [वै० सू० ९।१९ ], प्राक्प्रध्वंसोपाध्यभावेभ्यो यदत्यन्ताभावरूपं शशविषाणादि तद् 'अभूतं, नास्ति' इति पर्यायशब्दाभ्यामव्यतिरिक्तमुच्यते, नास्य पर्यायशब्दैरर्थान्तरता कथ्यते, अतोऽस्य पर्यायशब्दैरेवोपदर्शनं लक्षणम् , नास्य देशकालादिनिषेधः । अन्यत्र तु नास्ति घटो गेह इति सतो घटस्य गेहसंयोगप्रतिषेधः [वै० सू० ९।१।१०],
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org