________________
कारणकार्यनानात्वसाधनम्] द्वादशारं नयचक्रम्
- अथ मा भूदेष दोष इतीष्यत एवाक्रमं कारणे कार्यस्य सन्निहितत्वादहिवत् । यदि क्रमवदह्यादि कारणं स्यात् न स्यात् क्रमवत्त्वात् खपुष्पवत् । तस्मादक्रममेव सर्वम् , कारणत्वादेव कारणखात्मवत् तथा भेदेनाभवदपि सदेव । खपुष्पमपि तर्हि सत् कारणं च स्यादनुपलभ्यत्वात् कार्यवत् । कारणं वा असत् कार्य च तथानुपलभ्यत्वात् खपुष्पवदेव।
यदि तु न कारणानुपादानसिद्धत्ववत् कार्यमनुपादानसिद्धं सदिति च निश्चयो न व्यावर्तते तद्वैलक्षण्यान्न तर्हि कारणं सत्, असत्, सद्विलक्षणत्वात् खपुष्प
कारणमनुपादानेत्यादि यावदक्रमं स्यादिति । विशेषाभावात् कारणवत् कार्यमनुपादानसिद्धम् , अनुपादानसिद्धत्वात् सामान्यम् , सामान्यत्वाच्चान्त विताशेषविशेषसत्त्वात्मकमेव, तस्य कार्यस्य सामान्यत्वादनुपादानसिद्धत्वादन्त विताशेषशिवकासकोशकुशूलघटादिविशेषसत्त्वात्मकत्वात् कार्यमपि 10 कारणवदेवाक्रमं स्यात् , उपलभ्यते च क्रमेण प्राक् पिण्डः पश्चाच्छिवक इत्यादि ।
____ अथ मा भूदित्यादि यावत् सदेवेति । स्यान्मतम् – इष्यत एवाक्रमं कारणम् , अहाविव संवर्तविवर्तसद्भावात् कारणे कार्यस्य सन्निहितत्वात् । यदि क्रमवदह्यादि कारणं स्यात् न स्यात् क्रमवत्त्वात् अक्रमत्वाभावादित्यर्थः, अक्रमात् कारणादत्यन्तविलक्षणत्वात् खपुष्पवत् । युगपत्सन्निहितसर्वधर्मकं कारणमह्यादीष्टम् , नो चेत् संवर्तविवर्तावहाविवाकाशेऽपि स्यातामुभयोरक्रमतुल्यत्वात् । तस्माद् वियति अभूतैरहि-३०७१ संवर्तविवर्तादिभिः सहैवा]ममेव अहिरात्मरूपभूतैः, तस्मात् कारणत्वादक्रममेव सर्वमह्यादिकारणस्वात्मवत् । किमर्थं तर्हि कारणवद् न भेदेन भेदा गृह्यन्ते तदैव इति चेत् , उच्यते - कारणत्वादेव कारणस्वात्मवत् , अहिः संवर्तविवादिभेदेनाभवन्नपि कारणत्वेनैवाक्रमरूपेण भवन्नपि स एवास्ति गृह्यत एव सत्त्वात् तदेव कारणं तथा तथा तथा गृह्यत इत्यर्थ इति । अत्रोच्यते - एतदपि असत् अनुमानान्तरविरोधात् , खपुष्पमपि तर्हि सत् स्यात् अनुपलभ्यत्वात् कार्यवत् । कारणं च स्यात् खपुष्पम् , 20 अनुपलभ्यत्वात् , कार्यवत् । कारणत्वे वा तथाभेदेनाभूतत्वात् सत् खपुष्पं स्यात् कार्यवत् । अथैवं नेष्यते कारणमसत् कार्य च सत् त्वदिष्टं तथानुपलभ्यत्वाद् भेदेन क्रमभाविनी अहिसंवर्तविवादिप्रकारेणानुपलभ्यत्वादित्यर्थः खपुष्पवदेवेति । न चैवमादीष्टम् , तस्मादनुपादानसिद्धं कारणं सत्, उपादानसिद्धं कार्यमसच्च सद् भवति ।
यदि त्वित्यादि । यथा कारणमनुपादानसिद्धं सत्त्वात् तथा कार्यमनुपादानसिद्धं सत्त्वात्' इत्येतद् 25 नेष्टमुपादानसिद्धमेवेष्टम् , असत्त्वापत्तिभयात् 'सत्' इति च निश्चयो न व्यावर्तते भवतस्ततस्तद्वैलक्षण्यात् उपादानसिद्धत्ववैलक्षण्याद् न तर्हि कारणं सत् । कस्मात् ? अनुपादानादित्वात् सामान्यत्वा
१ दृश्यतां पृ० १६६ पं० ७॥ २ दृश्यतां पृ० १६७ पं. ३॥ ३°पानसि प्र०॥ ४ स्थासकाशकुशलय। स्थासककुशल भा० ॥५'अक्रममेव कारणमहिः' इत्यर्थो भाति । अत्र 'अक्रममेव अहेरा" इत्यपि पाठः स्यात् । (अक्रम एव अहिरा ?)॥ ६ अत्र सन्नेवास्ति इत्यपि पाठः स्यात् ॥ ७ नोहिसंवर्त प्र०॥ ८दानमसिद्धं प्र०॥ ९स्तद्वैल भा० ।
नय०५५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org